अरण्यकाण्डम्
Chapter 17 / सर्गः १७
Slōka 1 / श्लोक १
कृत अभिषेको रामः तु सीता सौमित्रिर् एव च ।
तस्मात् गोदावरी तीरात् ततो जग्मुः स्वम् आश्रमम् ॥३-१७-१॥
Slōka 2 / श्लोक २
आश्रमम् तम् उपागम्य राघवः सह लक्ष्मणः ।
कृत्वा पौर्वाह्णिकम् कर्म पर्णशालाम् उपागमत् ॥३-१७-२॥
Slōka 3 / श्लोक ३
उवास सुखितः तत्र पूज्यमानो महर्षभः।
स रामः पर्ण शालायाम् आसीनः सह सीतया ॥३-१७-३॥
Slōka 4 / श्लोक ४
विरराज महा बाहुः चित्रया चन्द्रमा इव ।
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥३-१७-४॥
Slōka 5 / श्लोक ५
तदा आसीनस्य रामस्य कथा संसक्त चेतसः ।
तम् देशम् राक्षसी काचिद् आजगाम यदृच्छया ॥३-१७-५॥
Slōka 6 / श्लोक ६
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः ।
भगिनी रामम् आसाद्य ददर्श त्रिदश उपमम् ॥३-१७-६॥
Slōka 7 / श्लोक ७
दीप्तास्यम् च महाबाहुम् पद्म पत्रायत ईक्षणम् ।
गज विक्रांत गमनम् जटा मण्दल धारिणम् ॥३-१७-७॥
Slōka 8 / श्लोक ८
सुकुमारम् महा सत्त्वम् पार्थिव व्यंजन अन्वितम् ।
रामम् इन्दीवर श्यामम् कन्दर्प सदृश प्रभम् ॥३-१७-८॥
Slōka 9 / श्लोक ९
बभूव इन्द्रोपमम् दृष्ट्वा राक्षसी काम मोहिता ।
सुमुखम् दुर्मुखी रामम् वृत्त मध्यम् महोदरी ॥३-१७-९॥
Slōka 10 / श्लोक १०
विशालाक्षम् विरूपाक्षी सुकेशम् ताम्र मूर्धजा ।
प्रियरूपम् विरूपा सा सुस्वरम् भैरव स्वना ॥३-१७-१०॥
Slōka 11 / श्लोक ११
तरुणम् दारुणा वृद्धा दक्षिणम् वाम भाषिणी ।
न्याय वृत्तम् सुदुर्वृत्ता प्रियम् अप्रिय दर्शना ॥३-१७-११॥
Slōka 12 / श्लोक १२
शरीरज समाविष्टा राक्षसी रामम् अब्रवीत् ।
जटी तापस रूपेण सभार्यः शर चाप धृक् ॥३-१७-१२॥
Slōka 13 / श्लोक १३
आगतः त्वम् इमम् देशम् कथम् राक्षस सेवितम् ।
किम् आगमन कृत्यम् ते तत् त्वम् आख्यातुम् अर्हसि ॥३-१७-१३॥
Slōka 14 / श्लोक १४
एवम् उक्तः तु राक्षस्या शूर्पणख्या परंतपः ।
ऋजु बुद्धितया सर्वम् आख्यातुम् उपचक्रमे ॥३-१७-१४॥
Slōka 15 / श्लोक १५
आसीत् दशरथो नाम राजा त्रिदश विक्रमः ।
तस्य अहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥३-१७-१५॥
Slōka 16 / श्लोक १६
भ्राता अयम् लक्ष्मणो नाम यवीयान् माम् अनुव्रतः ।
इयम् भार्या च वैदेही मम सीतेति विश्रुता ॥३-१७-१६॥
Slōka 17 / श्लोक १७
नियोगात् तु नरेन्द्रस्य पितुर् मातुः च यंत्रितः ।
धर्मार्थम् धर्मकांक्षी च वनम् वस्तुम् इह आगतः ॥३-१७-१७॥
Slōka 18 / श्लोक १८
त्वाम् तु वेदितुम् इच्छामि कस्य त्वम् का असि कस्य वा ।
त्वम् हि तावन्मनोज्ञांगी राक्षसी प्रतिभासि मे ॥३-१७-१८॥
Slōka 19 / श्लोक १९
इह वा किम् निमित्तम् त्वम् आगता ब्रूहि तत्त्वतः ।
सा अब्रवीत् वचनम् श्रुत्वा राक्षसी मदन अर्दिता ॥३-१७-१९॥
Slōka 20 / श्लोक २०
श्रूयताम् राम वक्ष्यामि तत्त्वार्थम् वचनम् मम ।
अहम् शूर्पणखा नाम राक्षसी कामरूपिणी ॥३-१७-२०॥
Slōka 21 / श्लोक २१
अरण्यम् विचरामि इदम् एका सर्व भयंकरा ।
रावणो नाम मे भ्राता यदि ते श्रोत्रम् आगतः ॥३-१७-२१॥
Slōka 22 / श्लोक २२
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रम् आगतः ।
प्रवृद्ध निद्रः च सदा कुंभकर्णो महाबलः ॥३-१७-२२॥
Slōka 23 / श्लोक २३
विभीषणः तु धर्मात्मा न तु राक्षस चेष्टितः ।
प्रख्यात वीर्यौ च रणे भ्रातरौ खर दूषणौ ॥३-१७-२३॥
Slōka 24 / श्लोक २४
तान् अहम् समतिक्रान्ता राम त्वा पूर्व दर्शनात् ।
समुपेता अस्मि भावेन भर्तारम् पुरुषोत्तमम् ॥३-१७-२४॥
Slōka 25 / श्लोक २५
अहम् प्रभाव संपन्ना स्वच्छंद बल गामिनी ।
चिराय भव भर्ता मे सीतया किम् करिष्यसि ॥३-१७-२५॥
Slōka 26 / श्लोक २६
विकृता च विरूपा च न सा इयम् सदृशी तव ।
अहम् एव अनुरूपा ते भार्या रूपेण पश्य माम् ॥३-१७-२६॥
Slōka 27 / श्लोक २७
इमाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् ।
अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् ॥३-१७-२७॥
Slōka 28 / श्लोक २८
ततः पर्वत शृंगाणि वनानि विविधानि च ।
पश्यन्सहमयाकामीदण्डकान्विचरिष्यसि - यद्वा - पश्यन् सह मया कामी दण्डकान् विचरिष्यसि ॥३-१७-२८॥
Slōka 29 / श्लोक २९
इति एवम् उक्तः काकुत्स्थः प्रहस्य मदिर ईक्षणाम् ।
इदम् वचनम् आरेभे वक्तुम् वाक्य विशारदः ॥३-१७-२९॥