उत्तरकाण्डम्डम्
Chapter 101 / सर्गः १०१
Slōka 1 / श्लोक १
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ।
युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ।। ७.१०१.१ ॥
Slōka 2 / श्लोक २
स निर्ययौ जनौघेन महता केकयाधिपः ।
त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ।। ७.१०१.२ ॥
Slōka 3 / श्लोक ३
भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ।
गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ।। ७.१०१.३ ॥
Slōka 4 / श्लोक ४
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ।
योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ।। ७.१०१.४ ॥
Slōka 5 / श्लोक ५
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ।। ७.१०१.५ ॥
Slōka 6 / श्लोक ६
खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ।
नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ।। ७.१०१.६ ॥
Slōka 7 / श्लोक ७
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ।
संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ।। ७.१०१.७ ॥
Slōka 8 / श्लोक ८
ते बद्धाः कालपाशेन संवर्तेन विदारिताः ।
क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ।। ७.१०१.८ ॥
Slōka 9 / श्लोक ९
तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः ।
निमेषान्तरमात्रेण तादृशानां महात्मनाम् ।। ७.१०१.९ ॥
Slōka 10 / श्लोक १०
हतेषु तेषु सर्वेषु भरतः केकयीसुतः ।
निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।। ७.१०१.१० ॥
Slōka 11 / श्लोक ११
तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते ।
गन्धर्वदेशे रुचिरे गान्धारविषये च सः ।। ७.१०१.११ ॥
Slōka 12 / श्लोक १२
धनरत्नौघसङ्कीर्णे काननैरुपशोभिते ।
अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ।। ७.१०१.१२ ॥
Slōka 13 / श्लोक १३
उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः ।
उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ।। ७.१०१.१३ ॥
Slōka 14 / श्लोक १४
उभे पुरवरे रम्ये विस्तरैरुपशोभिते ।
गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ।। ७.१०१.१४ ॥
Slōka 15 / श्लोक १५
शोभिते शोभनीयैश्च देवायतनविस्तरैः ।
तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ।। ७.१०१.१५ ॥
Slōka 16 / श्लोक १६
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः ।
पुनरायान्महाबाहुरयोध्यां केकयीसुतः ।। ७.१०१.१६ ॥
Slōka 17 / श्लोक १७
सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ।
राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ।। ७.१०१.१७ ॥
Slōka 18 / श्लोक १८
शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ।
निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ।। ७.१०१.१८ ।।