Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 90 / सर्गः ९०

Slōka 1 / श्लोक १

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: ।
बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ॥ २.९०.१ 

Slōka 2 / श्लोक २

पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: ।
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २.९०.२ 

Slōka 3 / श्लोक ३

तत: सन्दर्शने तस्य भरद्वाजस्य राघव: ।
मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २.९०.३ 

Slōka 4 / श्लोक ४

ऺवसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: ।
सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ॥ २.९०.४ 

Slōka 5 / श्लोक ५

वसिष्ठसाहचर्य्यादिति भाव: ॥ २.९०.५ 

Slōka 6 / श्लोक ६

ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।
आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ॥ २.९०.६ 

Slōka 7 / श्लोक ७

अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।
जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २.९०.७ 

Slōka 8 / श्लोक ८

वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।
शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २.९०.८ 

Slōka 9 / श्लोक ९

तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: ।
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २.९०.९ 

Slōka 10 / श्लोक १०

किमिहागमने कार्य्यं तव राज्यं प्रशासत: ।
एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ॥ २.९०.१० 

Slōka 11 / श्लोक ११

सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २.९०.११ 

Slōka 12 / श्लोक १२

नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: ।
वनवासी भवेतीह समा: किल चतुर्दश ॥ २.९०.१२ 

Slōka 13 / श्लोक १३

कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २.९०.१३ 

Slōka 14 / श्लोक १४

एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह ।
पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ॥ २.९०.१४ 

Slōka 15 / श्लोक १५

हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।
मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २.९०.१५ 

Slōka 16 / श्लोक १६

न चैत दिष्टं माता मे यदवोचन्मदन्तरे ।
नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २.९०.१६ 

Slōka 17 / श्लोक १७

अहं तु तं नरव्याघ्रमुपयात: प्रसादक: ।
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २.९०.१७ 

Slōka 18 / श्लोक १८

त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।
शंस मे भगवन् राम: क्व सम्प्रति महीपति: ॥ २.९०.१८ 

Slōka 19 / श्लोक १९

वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: ।
उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ॥ २.९०.१९ 

Slōka 20 / श्लोक २०

त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २.९०.२० 

Slōka 21 / श्लोक २१

जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति ।
अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २.९०.२१ 

Slōka 22 / श्लोक २२

जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।
असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २.९०.२२ 

Slōka 23 / श्लोक २३

श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: ।
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २.९०.२३ 

Slōka 24 / श्लोक २४

ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: ।
चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ॥ २.९०.२४ ॥