उत्तरकाण्डम्डम्
Chapter 73 / सर्गः ७३
Slōka 1 / श्लोक १
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ।। ७.७३.१ ॥
Slōka 2 / श्लोक २
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ।
मृतं बालमुपादाय राजद्वारमुपागमत् ।। ७.७३.२ ॥
Slōka 3 / श्लोक ३
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ।
असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ।। ७.७३.३ ॥
Slōka 4 / श्लोक ४
किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ।। ७.७३.४ ॥
Slōka 5 / श्लोक ५
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।
अकाले कालमापन्नं मम दुःखाय पुत्रक ।। ७.७३.५ ॥
Slōka 6 / श्लोक ६
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।
अहं च जननी चैव तव शोकेन पुत्रक ।। ७.७३.६ ॥
Slōka 7 / श्लोक ७
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ।
सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ।। ७.७३.७ ॥
Slōka 8 / श्लोक ८
केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ।। ७.७३.८ ॥
Slōka 9 / श्लोक ९
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।
मृत्युरप्राप्तकालानां रामस्य विषये यथा ।। ७.७३.९ ॥
Slōka 10 / श्लोक १०
रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।
यथा हि विषयस्थानां बालानां मृत्युरागतः ।। ७.७३.१० ॥
Slōka 11 / श्लोक ११
नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।
त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ।। ७.७३.११ ॥
Slōka 12 / श्लोक १२
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।
ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ।। ७.७३.१२ ॥
Slōka 13 / श्लोक १३
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।
उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ।। ७.७३.१३ ॥
Slōka 14 / श्लोक १४
इदं तु पतितं तस्मात्तव राम वशे स्थिताः ।
कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ।। ७.७३.१४ ॥
Slōka 15 / श्लोक १५
सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।
रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ।। ७.७३.१५ ॥
Slōka 16 / श्लोक १६
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।
असद्वृत्ते तु नृपतावकाले म्रियते जनः ।। ७.७३.१६ ॥
Slōka 17 / श्लोक १७
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।
कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम् ।। ७.७३.१७ ॥
Slōka 18 / श्लोक १८
सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।
पुरे जनपदे चापि ततो बालवधो ह्ययम् ।। ७.७३.१८ ॥
Slōka 19 / श्लोक १९
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।
राजानं दुःखसन्तप्तः सुतं तमुपगूहते ।। ७.७३.१९ ।।