सुन्दरकाण्डम्
Chapter 32 / सर्गः ३२
Slōka 1 / श्लोक १
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।
वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।। ५.३२.१।।।।
Slōka 2 / श्लोक २
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।। ५.३२.२।।।।
Slōka 3 / श्लोक ३
मैथिली चिन्तयामास विस्मयं परमं गता ।
अहो भीममिदं रूपं वानरस्य दुरासदम् ।दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ।। ५.३२.३।।।।
Slōka 4 / श्लोक ४
विललाप भृशं सीता करुणं भयमोहिता ।
रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ।। ५.३२.४।।।।
Slōka 5 / श्लोक ५
रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ।
। ५.३२.५।।।।
Slōka 6 / श्लोक ६
सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम् ।
मैथिली चिन्तयामास स्वप्नो ऽयमिति भामिनी ।। ५.३२.६।।।।
Slōka 7 / श्लोक ७
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ।
ददर्श पिङ्गधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ।। ५.३२.७।।।।
Slōka 8 / श्लोक ८
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।
चिरेण संज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ।। ५.३२.८।।।।
Slōka 9 / श्लोक ९
स्वप्ने मया ऽयं विकृतो ऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।
स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ।। ५.३२.९।।।।
Slōka 10 / श्लोक १०
स्वप्नो ऽपि नायं नहि मे ऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।
सुखं हि मे नास्ति यतो ऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ।। ५.३२.१०।।।।
Slōka 11 / श्लोक ११
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव ।
तस्यानुरूपां च कथां तमर्तमेव प्रपश्यामि तथा श्रृणोमि ।। ५.३२.११।।।।
Slōka 12 / श्लोक १२
अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ।
विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ।। ५.३२.१२।।।।
Slōka 13 / श्लोक १३
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।
किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ।। ५.३२.१३।।।।
Slōka 14 / श्लोक १४
नमो ऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय च ।
अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथा ऽस्तु नान्यथा ।। ५.३२.१४।।