Star (-) Watch (-)

Ramayana

अरण्यकाण्डम्

Chapter 34 / सर्गः ३४

Slōka 1 / श्लोक १

ततः शूर्पणखाम् दृष्ट्वा ब्रुवन्तीम् परुषम् वचः ।
अमात्य मध्ये संकृउद्धः परिपप्रच्छ रावणः ॥३-३४-१॥

Slōka 2 / श्लोक २

कः च रामः कथम् वीर्यः किम् रूपः किम् पराक्रमः ।
किम् अर्थम् दण्डकारण्यम् प्रविष्टः च सुदुस्तरम् ॥३-३४-२॥

Slōka 3 / श्लोक ३

आयुधम् किम् च रामस्य येन ते राक्षसाः हता ।
खरः च निहतः संख्ये दूषणः त्रिशिराः तथा ॥३-३४-३॥

Slōka 4 / श्लोक ४

तत् त्वम् ब्रूहि मनोज्ञान्गी केन त्वम् च विरूपिता ।
इति उक्ता राक्षस इन्द्रेण राक्षसी क्रोध मूर्च्छिता ॥३-३४-४॥

Slōka 5 / श्लोक ५

ततो रामम् यथा न्यायम् आख्यातुम् उपचक्रमे ।
दीर्घबाहुः विशालाक्षः चीर कृष्ण अजिन अम्बरः ॥३-३४-५॥

Slōka 6 / श्लोक ६

कन्दर्प सम रूपः च रामो दशरथ आत्मजः ।
शक्र चाप निभम् चापम् विकृष्य कनकांगदम् ॥३-३४-६॥

Slōka 7 / श्लोक ७

दीप्तान् क्षिपति नाराचान् सर्पान् इव महा विषान् ।
न आददानम् शरान् घोरान् न मुंचंतम् महाबलम् ॥३-३४-७॥

Slōka 8 / श्लोक ८

न कार्मुकम् विकर्षन्तम् रामम् पश्यामि संयुगे ।
हन्यमानम् तु तत् सैन्यम् पश्यामि शर वृष्टिभिः ॥३-३४-८॥

Slōka 9 / श्लोक ९

इन्द्रेण इव उत्तमम् सस्यम् आहतम् तु अश्म वृष्टिभिः ।
रक्षसाम् भीम वीर्याणाम् सहस्राणि चतुर्दश ॥३-३४-९॥

Slōka 10 / श्लोक १०

निहतानि शरैः तीक्ष्णैः तेन एकेन पदातिना ।
अर्धाधिक मुहूर्तेन खरः च सह दूषणः ॥३-३४-१०॥

Slōka 11 / श्लोक ११

ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ॥३-३४-११॥

Slōka 12 / श्लोक १२

एका कथंचित् मुक्ता अहम् परिभूय महात्मना ।
स्त्री वधम् शंकमानेन रामेण विदितात्मना ॥३-३४-१२॥

Slōka 13 / श्लोक १३

भ्राता च अस्य महातेजा गुणतः तुल्य विक्रमः ।
अनुरक्तः च भक्तः च लक्ष्मणो नाम वीर्यवान् ॥३-३४-१३॥

Slōka 14 / श्लोक १४

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।
रामस्य दक्षिणे बाहुः नित्यम् प्राणो बहिः चरः ॥३-३४-१४॥

Slōka 15 / श्लोक १५

रामस्य तु विशालाक्षी पूर्णेन्दु सदृश आनना ।
धर्म पत्नी प्रिया नित्यम् भर्तृः प्रिय हिते रता ॥३-३४-१५॥

Slōka 16 / श्लोक १६

सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।
देवत इव वनस्थ अस्यराजते श्रीर् इव अपरा ॥३-३४-१६॥

Slōka 17 / श्लोक १७

तप्त कांचन वर्ण आभा रक्त तुंग नखी शुभा ।
सीता नाम वरारोहा वैदेही तनु मध्यमा ॥३-३४-१७॥

Slōka 18 / श्लोक १८

न एव देवी न गंधर्वा न यक्षी न च किंनरी ।
तथा रूपा मया नारी दृष्ट पूर्वा महीतले ॥३-३४-१८॥

Slōka 19 / श्लोक १९

यस्य सीता भवेत् भार्या यम् च हृष्टा परिष्वजेत् ।
अति जीवेत् स सर्वेषु लोकेषु अपि पुरंदरात् ॥३-३४-१९॥

Slōka 20 / श्लोक २०

सा सुशीला वपुः श्लाघ्या रूपेण अप्रतिमा भुवि ।
तव अनुरूपा भार्या सा त्वम् च तस्याः पतिः वरः ॥३-३४-२०॥

Slōka 21 / श्लोक २१

ताम् तु विस्तीर्ण जघनाम् पीन उत्तुंग पयो धराम् ।
भार्या अर्थे तु तव आनेतुम् उद्यता अहम् वर आननाम् ॥३-३४-२१॥

Slōka 22 / श्लोक २२

ताम् तु दृष्ट्वा अद्य वैदेहीम् पूर्ण चन्द्र निभ आननाम् ॥३-३४-२२॥

Slōka 23 / श्लोक २३

मन्मथस्य शराणाम् च त्वम् विधेयो भविष्यसि ।
यदि तस्याम् अभिप्रायो भार्या अर्थे तव जायते ।शीघ्रम् उद् ध्रियताम् पादो जयार्थम् इह दक्षिणः ॥३-३४-२३॥

Slōka 24 / श्लोक २४

रोचते यदि ते वाक्यम् मम एतत् राक्षसेश्वर ।
क्रियताम् निर्विशंकेन वचनम् मम रावण ॥३-३४-२४॥

Slōka 25 / श्लोक २५

विज्ञाय इह आत्म शक्तिम् च क्रियताम् च महाबल ।
सीता तव अनवद्यांगी भार्यत्वे राक्षसेश्वर ॥३-३४-२५॥

Slōka 26 / श्लोक २६

निशम्य रामेण शरैः अजिह्मगैःहतान् जनस्थान गतान् निशाचरान् ।
खरम् च दृष्ट्वा निहतम् च दूषणम्त्वम् अद्य कृत्यम् प्रतिपत्तुम् अर्हसि ॥३-३४-२६॥