अयोध्याकाण्डम्
Chapter 108 / सर्गः १०८
Slōka 1 / श्लोक १
आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: ।
उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ॥ २.१०८.१॥
Slōka 2 / श्लोक २
साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।
प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ॥ २.१०८.२॥
Slōka 3 / श्लोक ३
क: कस्य पुरुषो बन्धु: किमाप्यं कस्य केनचित् ।
यदेको जायते जन्तुरेक एव विनश्यति ॥ २.१०८.३॥
Slōka 4 / श्लोक ४
तस्मान्माता पिता चेति राम सज्जेतयो नर: ।
उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ २.१०८.४॥
Slōka 5 / श्लोक ५
यथा ग्रामान्तरं गच्छन् नर: कश्चित् क्वचिद्वसेत् ।
उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ॥ २.१०८.५॥
Slōka 6 / श्लोक ६
एवमेव मनुष्याणां पिता माता गृहं वसु ।
आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जना: ॥ २.१०८.६॥
Slōka 7 / श्लोक ७
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।
आस्थातुं कापथं दु:खं विषमं बहुकण्टकम् ॥ २.१०८.७॥
Slōka 8 / श्लोक ८
समृद्धायामयोध्यायामात्मानमभिषेचय ।
एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ २.१०८.८॥
Slōka 9 / श्लोक ९
राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।
विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ २.१०८.९॥
Slōka 10 / श्लोक १०
न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।
अन्यो राजा त्वमन्य: स तस्मात् कुरु यदुच्यते ॥ २.१०८.१०॥
Slōka 11 / श्लोक ११
बीजमात्रं पिता जन्तो: शुक्लं रुधिरमेव च ।
संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ २.१०८.११॥
Slōka 12 / श्लोक १२
गत: स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।
प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥ २.१०८.१२॥
Slōka 13 / श्लोक १३
अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।
ते हि दु:खमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ २.१०८.१३॥
Slōka 14 / श्लोक १४
अष्टका पितृदैवत्यमित्ययं प्रसृतो जन: ।
अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ २.१०८.१४॥
Slōka 15 / श्लोक १५
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।
दद्यात् प्रवसत: श्राद्धं न तत् पथ्यशनं भवेत् ॥ २.१०८.१५॥
Slōka 16 / श्लोक १६
दानसंवनना ह्येते ग्रन्था मेधाविभि: कृता: ।
यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ २.१०८.१६॥
Slōka 17 / श्लोक १७
स नास्ति परमित्येव कुरु बुद्धिं महामते ।
प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु ॥ २.१०८.१७॥
Slōka 18 / श्लोक १८
स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित: ॥ २.१०८.१८ ॥