अरण्यकाण्डम्
Chapter 42 / सर्गः ४२
Slōka 1 / श्लोक १
एवम् उक्त्वा तु परुषम् मारीचो रावणम् ततः ।
गच्छावः इति अब्रवीत् दीनो भयात् रात्रिम् चर प्रभोः ॥३-४२-१॥
Slōka 2 / श्लोक २
दृष्टाः च अहम् पुनः तेन शर चाप असि धारिणा ।
मद्वधो उद्यत शस्त्रेण विनष्टम् जीवितम् च मे ॥३-४२-२॥
Slōka 3 / श्लोक ३
न हि रामम् पराक्रम्य जीवन् प्रति निवर्तते ।
वर्तते प्रति रूपो असौ यम दण्ड हतस्य ते ॥३-४२-३॥
Slōka 4 / श्लोक ४
किम् नु कर्तुम् मया शक्यम् एवम् त्वयि दुरात्मनि ।
एष गच्छामि अहम् तात स्वस्ति ते अस्तु निशाचरः ॥३-४२-४॥
Slōka 5 / श्लोक ५
प्रहृष्टः तु अभवत् तेन वचनेन स राक्षसः ।
परिष्वज्य सुसंश्लिष्टम् इदम् वचनम् अब्रवीत् ॥३-४२-५॥
Slōka 6 / श्लोक ६
एतत् शौण्डीर्य - चौत्तिर्य -न्युक्तम् ते मत् च्छंद वश वर्तिनः ।
इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः ॥३-४२-६॥
Slōka 7 / श्लोक ७
आरुह्यताम् शीघ्रम् खगो रत्न विभूषितः ।
मया सह रथो युक्तः पिशाच वदनैः खरैः ॥३-४२-७॥
Slōka 8 / श्लोक ८
प्रलोभयित्वा वैदेहीम् यथा इष्टम् गन्तुम् अर्हसि ।
ताम् शून्ये प्रसभम् सीताम् आनयिष्यामि मैथिलीम् ॥३-४२-८॥
Slōka 9 / श्लोक ९
तथा इति उवाच एनम् रावणम् ताटका सुतः ।
ततो रावण मारीचौ विमानम् इव तम् रथम् ॥३-४२-९॥
Slōka 10 / श्लोक १०
आरुह्य ययतुः शीघ्रम् तस्मात् आश्रम मण्डलात् ।
तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ॥३-४२-१०॥
Slōka 11 / श्लोक ११
गिरीम् च सरिताः सर्वा राष्ट्राणि नगराणि च ।
समेत्य दण्डक अरण्यम् राघवस्य आश्रमम् ततः ॥३-४२-११॥
Slōka 12 / श्लोक १२
ददर्श सह मरीचो रावणो राक्षसाधिपः ।
अवतीर्य रथात् तस्मात् ततः कांचन भूषणात् ॥३-४२-१२॥
Slōka 13 / श्लोक १३
हस्ते गृहीत्वा मारीचम् रावणो वाक्यम् अब्रवीत् ।
एतत् राम आश्रम पदम् दृश्यते कदली वृतम् ॥३-४२-१३॥
Slōka 14 / श्लोक १४
क्रियताम् तत् सखे शीघ्रम् यत् अर्थम् वयम् आगताः ।
स रावण वचः श्रुत्वा मारीचो राक्षसः तदा ॥३-४२-१४॥
Slōka 15 / श्लोक १५
मृगो भूत्वा आश्रम द्वारि रामस्य विचचार ह ।
स तु रूपम् समास्थाय महत् अद्भुत दर्शनम् ॥३-४२-१५॥
Slōka 16 / श्लोक १६
मणिप्रवर शृंगाग्रः सित असित मुखाकृतिः ।
रक्तपद्मोत्पल मुख इन्द्रनीलोत्पल श्रवाः ॥३-४२-१६॥
Slōka 17 / श्लोक १७
किम्चित् अभ्युन्नत ग्रीव इन्द्रनील निभ उदरः ।
मधूक निभ पार्श्वः च कंज किंजल्क सम्निभः ॥३-४२-१७॥
Slōka 18 / श्लोक १८
वैदूर्य संकाश खुरः तनु जंघः सुसंहतः ।
इन्द्र आयुध सवर्णेन पुच्छेन ऊर्ध्वम् विराजितः ॥३-४२-१८॥
Slōka 19 / श्लोक १९
मनोहर स्निग्ध वर्णो रत्नैः नाना विधैः वृतः ।
क्षणेन राक्षसो जातो मृगः परम शोभनः ॥३-४२-१९॥
Slōka 20 / श्लोक २०
वनम् प्रज्वलयन् रम्यम् राम आश्रम पदम् च तत् ।
मनोहरम् दर्शनीयम् रूपम् कृत्वा स राक्षसः ॥३-४२-२०॥
Slōka 21 / श्लोक २१
प्रलोभनार्थम् वैदेह्या नाना धातु विचित्रितम् ।
विचरन् गच्छते सम्यक् शाद्वलानि समंततः ॥३-४२-२१॥
Slōka 22 / श्लोक २२
रोप्यैः बिन्दु शतैः चित्रो भूत्वा च प्रिय दर्शनः ।
विटपीनाम् किसलयान् भक्षयन् विचचार ह ॥३-४२-२२॥
Slōka 23 / श्लोक २३
कदली गृहकम् गत्वा कर्णिकारानि ततः ततः ।
समाश्रयन् मंदगतिः सीता संदर्शनम् ततः ॥३-४२-२३॥
Slōka 24 / श्लोक २४
राजीव चित्र पृष्ठः स विरराज महामृगः ।
राम आश्रम पद अभ्याशे विचचार यथा सुखम् ॥३-४२-२४॥
Slōka 25 / श्लोक २५
पुनर् गत्वा निवृत्तः च विचचार मृगोत्तमः ।
गत्वा मुहूर्तम् त्वरया पुनः प्रति निवर्तते ॥३-४२-२५॥
Slōka 26 / श्लोक २६
विक्रीडन् च पुनर् भूमौ पुनर् एव निषीदति ।
आश्रम द्वारम् आगम्य मृग यूथानि गच्छति ॥३-४२-२६॥
Slōka 27 / श्लोक २७
मृग यूथैः अनुगतः पुनर् एव निवर्तते ।
सीता दर्शनम् आकांक्षन् राक्षसो मृगताम् गतः ॥३-४२-२७॥
Slōka 28 / श्लोक २८
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ।
समुद्वीक्ष्य च सर्वे तम् मृगा ये अन्ये वनेचराः ॥३-४२-२८॥
Slōka 29 / श्लोक २९
उपगम्य समाघ्राय विद्रवन्ति दिशो दश ।
राक्षसः सो अपि तान् वन्यान् मृगान् मृगवधे रतः ॥३-४२-२९॥
Slōka 30 / श्लोक ३०
प्रच्छादनार्थम् भावस्य न भक्षयति संस्पृशन् ।
तस्मिन् एव ततः काले वैदेही शुभलोचना ॥३-४२-३०॥
Slōka 31 / श्लोक ३१
कुसुम अपचये व्यग्रा पादपान् अभ्यवर्तत ।
कर्णिकारान् अशोकान् च चूताम् च मदिरेक्षणा ॥३-४२-३१॥
Slōka 32 / श्लोक ३२
कुसुमानि अपचिन्वन्ती चचार रुचिरानना ।
अनर्हा अरण्य वासस्य सा तम् रत्नमयम् मृगम् ॥३-४२-३२॥
Slōka 33 / श्लोक ३३
मुक्ता मणि विचित्र अंगम् ददर्श परम अंगना ।
तम् वै रुचिर दंत ओष्ठम् रूप्य धातु तनू रुहम् ॥३-४२-३३॥
Slōka 34 / श्लोक ३४
विस्मयात् उत्फुल्ल नयना स स्नेहम् समुदैक्षत ।
स च ताम् राम दयिताम् पश्यन् मायामयो मृगः ॥३-४२-३४॥
Slōka 35 / श्लोक ३५
विचचार ततः तत्र दीपयन् इव तत् वनम् ।
अदृष्ट पूर्वम् दृष्ट्वा तम् नाना रत्नमयम् मृगम् ।विस्मयम् परमम् सीता जगाम जनक आत्मजा ॥३-४२-३५॥