उत्तरकाण्डम्डम्
Chapter 61 / सर्गः ६१
Slōka 1 / श्लोक १
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् ।
किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ।। ७.६१.१ ॥
Slōka 2 / श्लोक २
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।
भयानां शृणु यन्मूलं देशस्य च नरेश्वर ।। ७.६१.२ ॥
Slōka 3 / श्लोक ३
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः ।
लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ।। ७.६१.३ ॥
Slōka 4 / श्लोक ४
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।
सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ।। ७.६१.४ ॥
Slōka 5 / श्लोक ५
स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः ।
बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ।। ७.६१.५ ॥
Slōka 6 / श्लोक ६
रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः ।
बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ।। ७.६१.६ ॥
Slōka 7 / श्लोक ७
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।
ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ।। ७.६१.७ ॥
Slōka 8 / श्लोक ८
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः ।
प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ।। ७.६१.८ ॥
Slōka 9 / श्लोक ९
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।
तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ।। ७.६१.९ ॥
Slōka 10 / श्लोक १०
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।
तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ।। ७.६१.१० ॥
Slōka 11 / श्लोक ११
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।
प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ।। ७.६१.११ ॥
Slōka 12 / श्लोक १२
भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।
भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ।। ७.६१.१२ ॥
Slōka 13 / श्लोक १३
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।
प्रत्युवाच महातेजा नैतदेवं भविष्यति ।। ७.६१.१३ ॥
Slōka 14 / श्लोक १४
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।
भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ।। ७.६१.१४ ॥
Slōka 15 / श्लोक १५
यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते ।
अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ।। ७.६१.१५ ॥
Slōka 16 / श्लोक १६
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।
भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ।। ७.६१.१६ ॥
Slōka 17 / श्लोक १७
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।
विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ।। ७.६१.१७ ॥
Slōka 18 / श्लोक १८
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।
बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।। ७.६१.१८ ॥
Slōka 19 / श्लोक १९
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।
मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ।। ७.६१.१९ ॥
Slōka 20 / श्लोक २०
स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ।
शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ।। ७.६१.२० ॥
Slōka 21 / श्लोक २१
स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा ।
सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ।। ७.६१.२१ ॥
Slōka 22 / श्लोक २२
एवंप्रभावो लवणः शूलं चैव तथाविधम् ।
श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ।। ७.६१.२२ ॥
Slōka 23 / श्लोक २३
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।
अभयं याचिता वीर त्रातारं न च विद्महे ।। ७.६१.२३ ॥
Slōka 24 / श्लोक २४
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।
त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ।। ७.६१.२४ ॥
Slōka 25 / श्लोक २५
इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् ।
विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ।। ७.६१.२५ ।।