Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 27 / सर्गः २७

Slōka 1 / श्लोक १

इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः ।
काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ।। ५.२७.१।।।।

Slōka 2 / श्लोक २

ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ।
पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ।। ५.२७.२।।।।

Slōka 3 / श्लोक ३

अद्येदानीं तवानार्ये सीते पापविनिश्चये ।
राक्षस्यो भक्षयिष्यन्ति मांसमतेद्यतासुखम् ।। ५.२७.३।।।।

Slōka 4 / श्लोक ४

सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा ।
राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ।। ५.२७.४।।।।

Slōka 5 / श्लोक ५

आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।
जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ।। ५.२७.५।।।।

Slōka 6 / श्लोक ६

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।
राक्षसानामभावाय भर्तुरस्या भवाय च ।। ५.२७.६।।।।

Slōka 7 / श्लोक ७

एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः ।
सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः ।कथयस्व त्वया दृष्टः स्वप्नो ऽयं कीदृशो निशि ।। ५.२७.७।।।।

Slōka 8 / श्लोक ८

तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम् ।
उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ।। ५.२७.८।।।।

Slōka 9 / श्लोक ९

गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ।
। ५.२७.९।।।।

Slōka 10 / श्लोक १०

युक्तां हंससहस्रेण स्वयमास्थाय राघवः ।
शुक्लमाल्याम्बरधरो लक्ष्मणेन सहा गतः ।। ५.२७.१०।।।।

Slōka 11 / श्लोक ११

स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ।
सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ।रामेण सङ्गता सीता भास्करेण प्रभा यथा ।। ५.२७.११।।।।

Slōka 12 / श्लोक १२

राघवश्च मया दृष्टाश्चतुर्दन्तं महागजम् ।
आरूढः शैलसङ्काशं चचार सह लक्ष्मणः ।। ५.२७.१२।।।।

Slōka 13 / श्लोक १३

ततस्तौ नहशार्दूलौ दीप्यमानौ स्वतेजसा ।
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ।। ५.२७.१३।।।।

Slōka 14 / श्लोक १४

ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ।
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ।। ५.२७.१४।।।।

Slōka 15 / श्लोक १५

भर्तुरङ्कात् समुत्पत्य ततः कमललोचना ।
चन्द्रसूर्यो मया दृष्टा पाणिना परिमार्जती ।। ५.२७.१५।।।।

Slōka 16 / श्लोक १६

ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ।
सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ।। ५.२७.१६।।।।

Slōka 17 / श्लोक १७

पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।
इहोपयातः काकुत्स्थः सीतया सह भार्यया ।। ५.२७.१७।।।।

Slōka 18 / श्लोक १८

लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ।
। ५.२७.१८।।।।

Slōka 19 / श्लोक १९

आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ।
उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ।। ५.२७.१९।।।।

Slōka 20 / श्लोक २०

एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ।
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया * ।। ५.२७.२०।।।।

Slōka 21 / श्लोक २१

न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः ।
राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ।। ५.२७.२१।।।।

Slōka 22 / श्लोक २२

रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः ।
रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः ।। ५.२७.२२।।।।

Slōka 23 / श्लोक २३

विमानात् पुष्पकादद्य रावणः पतितो भुवि ।
कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ।। ५.२७.२३।।।।

Slōka 24 / श्लोक २४

रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
पिबंस्तैलं हसन् नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः ।गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ।। ५.२७.२४।।।।

Slōka 25 / श्लोक २५

पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ।
पतितो ऽवाविछरा भूमौ गर्दभाद्भयमोहितः ।। ५.२७.२५।।।।

Slōka 26 / श्लोक २६

सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः ।
उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् बहु ।। ५.२७.२६।।।।

Slōka 27 / श्लोक २७

दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् ।
मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः ।। ५.२७.२७।।।।

Slōka 28 / श्लोक २८

कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिना ।
काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ।। ५.२७.२८।।।।

Slōka 29 / श्लोक २९

एवं तत्र मया दृष्टः कुम्भकर्णौ निशाचरः ।
रावणस्य सुताः सर्वे तृष्टास्तैलसमुक्षिताः ।। ५.२७.२९।।।।

Slōka 30 / श्लोक ३०

वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ।
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ।। ५.२७.३०।।।।

Slōka 31 / श्लोक ३१

एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ।
। ५.२७.३१।।।।

Slōka 32 / श्लोक ३२

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।
शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः ।। ५.२७.३२।।।।

Slōka 33 / श्लोक ३३

आरुह्य शौलसङ्काशं मेघस्तनितनिःस्वनम् ।
चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः ।चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः ।। ५.२७.३३।।।।

Slōka 34 / श्लोक ३४

समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः ।
पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ।। ५.२७.३४।।।।

Slōka 35 / श्लोक ३५

लङ्कां चेयं पुरी रम्या सवाजिरथकुञ्जरा ।
सागरे पतिता दृष्टा भग्नगोपुरतोरणा ।। ५.२७.३५।।।।

Slōka 36 / श्लोक ३६

लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ।
दग्धा रामस्य दूतेन वानरेण तरस्विना ।। ५.२७.३६।।।।

Slōka 37 / श्लोक ३७

पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ।
लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ।। ५.२७.३७।।।।

Slōka 38 / श्लोक ३८

कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ।
रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ।। ५.२७.३८।।।।

Slōka 39 / श्लोक ३९

अपगच्छत नश्यध्वं सीतामाप स राघवः ।
घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः ।। ५.२७.३९।।।।

Slōka 40 / श्लोक ४०

प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ।
भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ।।। ५.२७.४०।।।।

Slōka 41 / श्लोक ४१

तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ।
अभियाचाम वैदैहीमेतद्धि मम रोचते ।। ५.२७.४१।।।।

Slōka 42 / श्लोक ४२

यस्यामेव विधः स्वप्नो दुःखितायां प्रदृश्यते ।
सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ।। ५.२७.४२।।।।

Slōka 43 / श्लोक ४३

भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ।
राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ।। ५.२७.४३।।।।

Slōka 44 / श्लोक ४४

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।
अलमेषा परित्रातुं राक्षस्यो महतो भयात् ।। ५.२७.४४।।।।

Slōka 45 / श्लोक ४५

अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये ।
विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षण् ।। ५.२७.४५।।।।

Slōka 46 / श्लोक ४६

छायावैगुण्यमात्रं तु शङ्केः दुःखमुपस्थितम् ।
अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ।। ५.२७.४६।।।।

Slōka 47 / श्लोक ४७

अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ।
राक्षसेन्द्रविनाशं च विजयं राघवस्य च ।। ५.२७.४७।।।।

Slōka 48 / श्लोक ४८

निमित्तभूतमेत्तु श्रोतुमस्या महत् प्रियम् ।
। ५.२७.४८।।।।

Slōka 49 / श्लोक ४९

दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ।
ईषच्च हृषितो वा ऽस्या दक्षिणाया ह्यदक्षिणः ।। ५.२७.४९।।।।

Slōka 50 / श्लोक ५०

अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ।
करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ।वेपमानः सूचयति राघवं पुरतः स्थितम् ।। ५.२७.५०।।।।

Slōka 51 / श्लोक ५१

पक्षी च शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी ।
सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः ।। ५.२७.५१।।