Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 105 / सर्गः १०५

Slōka 1 / श्लोक १

तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ।
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ।। ७.१०५.१ ॥

Slōka 2 / श्लोक २

सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ।
रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते ।। ७.१०५.२ ॥

Slōka 3 / श्लोक ३

मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ।। ७.१०५.३ ॥

Slōka 4 / श्लोक ४

किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् ।
व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ।। ७.१०५.४ ॥

Slōka 5 / श्लोक ५

तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।
उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ।। ७.१०५.५ ॥

Slōka 6 / श्लोक ६

अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।
अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ।। ७.१०५.६ ॥

Slōka 7 / श्लोक ७

विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ।
भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ।। ७.१०५.७ ॥

Slōka 8 / श्लोक ८

न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ।
तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ।। ७.१०५.८ ॥

Slōka 9 / श्लोक ९

एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् ।
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ।। ७.१०५.९ ॥

Slōka 10 / श्लोक १०

लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।
निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ।। ७.१०५.१० ॥

Slōka 11 / श्लोक ११

सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ।। ७.१०५.११ ॥

Slōka 12 / श्लोक १२

तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ।
प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ।। ७.१०५.१२ ॥

Slōka 13 / श्लोक १३

अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।
सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ ।। ७.१०५.१३ ॥

Slōka 14 / श्लोक १४

तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।
भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ।। ७.१०५.१४ ॥

Slōka 15 / श्लोक १५

स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।
साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् ।। ७.१०५.१५ ॥

Slōka 16 / श्लोक १६

तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ।
संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ।। ७.१०५.१६ ॥

Slōka 17 / श्लोक १७

दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् ।
अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ।। ७.१०५.१७ ॥

Slōka 18 / श्लोक १८

ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।
नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ।। ७.१०५.१८ ।।