Star (-) Watch (-)

Ramayana

अरण्यकाण्डम्

Chapter 62 / सर्गः ६२

Slōka 1 / श्लोक १

सीताम् अपश्यन् धर्मात्मा शोक उपहत चेतनः ।
विललाप महाबाहू रामः कमल लोचनः ॥३-६२-१॥

Slōka 2 / श्लोक २

पश्यन् इव च ताम् सीताम् अपश्यन् मदन अर्दितः ।
उवाच राघवो वाक्यम् विलाप आश्रय दुर्वचम् ॥३-६२-२॥

Slōka 3 / श्लोक ३

त्वम् अशोकस्य शाखाभिः पुष्प प्रिय तराअ प्रिये ।
अवृणोषि शरीरम् ते मम शोक विवर्धिनी ॥३-६२-३॥

Slōka 4 / श्लोक ४

कदली काण्ड सदृशौ कदल्या संवृता उभौ ।
ऊरू पश्यामि ते देवि न असि शक्ता निगूहितुम् ॥३-६२-४॥

Slōka 5 / श्लोक ५

कर्णिकार वनम् भद्रे हसंती देवि सेवसे ।
अलम् ते परिहासेन मम बाधावहेन वै ॥३-६२-५॥

Slōka 6 / श्लोक ६

विशेषेण आश्रमस्थाने हासो अयम् न प्रशस्यते ।
अवगच्छामि ते शीलम् परिहास प्रियम् प्रिये ॥३-६२-६॥

Slōka 7 / श्लोक ७

आगच्छ त्वम् विशालाक्षी शून्यो अयम् उटजः तव ।
सु व्यक्तम् राक्षैः सीता भक्षिता वा हृता अपि वा ॥३-६२-७॥

Slōka 8 / श्लोक ८

न हि सा विलपंतम् माम् उपसम्प्रैति लक्ष्मण ।
एतानि मृग यूधानि स अश्रु नेत्राणि लक्ष्मण ॥३-६२-८॥

Slōka 9 / श्लोक ९

शंशन्ति इव हि मे देवीम् भक्षिताम् रजनीचरैः ।
हा मम आर्ये क्व याता असि हा साध्वि वर वर्णिनि ॥३-६२-९॥

Slōka 10 / श्लोक १०

हा स कामा अद्य कैकेयी देवि मे अद्य भविष्यति ।
सीताया सह निर्यातो विना सीताम् उपागतः ॥३-६२-१०॥

Slōka 11 / श्लोक ११

कथम् नाम प्रवेक्ष्यामि शून्यम् अन्तः पुरम् मम ।
निर्वीर्य इति लोको माम् निर्दयः च इति वक्ष्यति ॥३-६२-११॥

Slōka 12 / श्लोक १२

कातरत्वम् प्रकाशम् हि सीता अपनयनेन मे ।
निवृत्त वन वासः च जनकम् मिथिल अधिपम् ॥३-६२-१२॥

Slōka 13 / श्लोक १३

कुशलम् परिपृच्छन्तम् कथम् शक्षे निरीक्षितुम् ।
विदेह रजो नूनम् माम् दृष्ट्वा विरहितम् तया ॥३-६२-१३॥

Slōka 14 / श्लोक १४

सुता विनाश संतप्तो मोहस्य वशम् एष्यति ।
अथवा न गमिष्यामि पुरीम् भरत पालितम् ॥३-६२-१४॥

Slōka 15 / श्लोक १५

स्वर्गो अपि हि तया हीनः शून्य एव मतो मम ।
तत् माम् उत्सृज्य हि वने गच्छ अयोध्या पुरीम् शुभाम् ॥३-६२-१५॥

Slōka 16 / श्लोक १६

न तु अहम् ताम् विना सीताम् जीवेयम् हि कथंचन ।
गाढम् आश्लिष्य भरतो वाच्यो मत् वचनात् त्वया ॥३-६२-१६॥

Slōka 17 / श्लोक १७

अनुज्ञातो असि रामेण पालय इति वसुंधराम् ।
अंबा च मम कैकेयी सुमित्रा च त्वया विभो ॥३-६२-१७॥

Slōka 18 / श्लोक १८

कौसल्या च यथा न्यायम् अभिवाद्या मम अज्ञया ।
रक्षणीया प्रयत्नेन भवता सा उक्त कारिणा ॥३-६२-१८॥

Slōka 19 / श्लोक १९

सीतायाः च विनाशो अयम् मम च अमित्र सूदन ।
विस्तरेण जनन्या विनिवेद्य त्वया भवेत् ॥३-६२-१९॥

Slōka 20 / श्लोक २०

इति विलपति राघवो तु दीनोवनम् उपगम्य तया विना सु केश्या ।
भय विकल मुखः तु लक्ष्मणो अपिव्यथित मना भृशम् आतुरो बभूव ॥३-६२-२०॥