युद्धकाण्डम्
Chapter 2 / सर्गः २
Slōka 1 / श्लोक १
तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।
उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥।।
Slōka 2 / श्लोक २
किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।
मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥।।
Slōka 3 / श्लोक ३
सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।
प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥।।
Slōka 4 / श्लोक ४
मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।
त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥।।
Slōka 5 / श्लोक ५
सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥।।
Slōka 6 / श्लोक ६
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।
सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥।।
Slōka 7 / श्लोक ७
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।
त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥।।
Slōka 8 / श्लोक ८
एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।
विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥।।
Slōka 9 / श्लोक ९
रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।
सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥।।
Slōka 10 / श्लोक १०
तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।
दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥।।
Slōka 11 / श्लोक ११
हतम् च रावणम् उद्धे दर्शनादवधारय ।
अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥।।
Slōka 12 / श्लोक १२
लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।
सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥।।
Slōka 13 / श्लोक १३
सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।
इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥।।
Slōka 14 / श्लोक १४
तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥।।
Slōka 15 / श्लोक १५
यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।
तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥।।
Slōka 16 / श्लोक १६
अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।
शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥।।
Slōka 17 / श्लोक १७
विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।
तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥।।
Slōka 18 / श्लोक १८
मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।
न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥।।
Slōka 19 / श्लोक १९
गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।
वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥।।
Slōka 20 / श्लोक २०
अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।
तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥।।
Slōka 21 / श्लोक २१
निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।
लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥।।
Slōka 22 / श्लोक २२
सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय ।
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥।।
Slōka 23 / श्लोक २३
सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।
इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥।।
Slōka 24 / श्लोक २४
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।
कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥।।
Slōka 25 / श्लोक २५
हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।
किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥