Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 45 / सर्गः ४५

Slōka 1 / श्लोक १

तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ।। ७.४५.१ ॥

Slōka 2 / श्लोक २

सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा ।
पौराणां मम सीतायां यादृशी वर्तते कथा ।। ७.४५.२ ॥

Slōka 3 / श्लोक ३

पौरापवादः सुमहांस्तथा जनपदस्य च ।
वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ।। ७.४५.३ ॥

Slōka 4 / श्लोक ४

अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।
सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ।। ७.४५.४ ॥

Slōka 5 / श्लोक ५

जानासि त्वं यथा सौम्य दण्डके विजने वने ।
रावणेन हृता सीता स च विध्वंसितो मया ।। ७.४५.५ ॥

Slōka 6 / श्लोक ६

तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ।। ७.४५.६ ॥

Slōka 7 / श्लोक ७

प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।। ७.४५.७ ॥

Slōka 8 / श्लोक ८

चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।। ७.४५.८ ॥

Slōka 9 / श्लोक ९

एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ।
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।। ७.४५.९ ॥

Slōka 10 / श्लोक १०

अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।। ७.४५.१० ॥

Slōka 11 / श्लोक ११

अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।
पौरापवादः सुमहांस्तथा जनपदस्य च ।। ७.४५.११ ॥

Slōka 12 / श्लोक १२

अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ।। ७.४५.१२ ॥

Slōka 13 / श्लोक १३

अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।। ७.४५.१३ ॥

Slōka 14 / श्लोक १४

अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ।। ७.४५.१४ ॥

Slōka 15 / श्लोक १५

तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।
नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ।। ७.४५.१५ ॥

Slōka 16 / श्लोक १६

श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।। ७.४५.१६ ॥

Slōka 17 / श्लोक १७

गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।
आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।। ७.४५.१७ ॥

Slōka 18 / श्लोक १८

तत्रैनां विजने देशे विसृज्य रघुनन्दन ।
शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ।। ७.४५.१८ ॥

Slōka 19 / श्लोक १९

न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन ।
तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।। ७.४५.१९ ॥

Slōka 20 / श्लोक २०

अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते ।
शापिता हि मया यूयं भुजाभ्यां जीवितेन च ।। ७.४५.२० ॥

Slōka 21 / श्लोक २१

ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ।
अहिता नाम ते नित्यं मदभीष्टविघातनात् ।। ७.४५.२१ ॥

Slōka 22 / श्लोक २२

मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।
इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ।। ७.४५.२२ ॥

Slōka 23 / श्लोक २३

पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् ।
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।। ७.४५.२३ ॥

Slōka 24 / श्लोक २४

एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।। ७.४५.२४ ॥

Slōka 25 / श्लोक २५

शोकसंलग्नहृदयो निशश्वास यथा द्विपः ।
। ७.४५.२५ ।।