अरण्यकाण्डम्
Chapter 19 / सर्गः १९
Slōka 1 / श्लोक १
ताम् तथा पतिताम् दृष्ट्वा विरूपाम् शोणित उक्षिताम् ।
भगिनीम् क्रोध संतप्तः खरः पप्रच्छ राक्षसः ॥३-१९-१॥
Slōka 2 / श्लोक २
उत्तिष्ठ तावत् आख्याहि प्रमोहम् जहि संभ्रमम् ।
व्यक्तम् आख्याहि केन त्वम् एवम् रूपा विरूपिता ॥३-१९-२॥
Slōka 3 / श्लोक ३
कः कृष्ण सर्पम् असीनम् आशी विषम नागसम् ।
तुदति अभिसमापन्नम् अंगुलि अग्रेण लीलया ॥३-१९-३॥
Slōka 4 / श्लोक ४
काल पाशम् समासज्य कण्ठे मोहात् न जानते ।
यः त्वाम् अद्य समासाद्य पीतवान् विषम् उत्तमम् ॥३-१९-४॥
Slōka 5 / श्लोक ५
बल विक्रम संपन्ना कामगा काम रूपिणी ।
इमाम् अवस्थाम् नीता त्वम् केन अंतक समा गता ॥३-१९-५॥
Slōka 6 / श्लोक ६
देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् ।
को अयम् एवम् महावीर्यः त्वाम् विरूपाम् चकार ह ॥३-१९-६॥
Slōka 7 / श्लोक ७
न हि पश्यामि अहम् लोके यः कुर्यात् मम विप्रियम् ।
अमरेषु सहस्राक्षम् महएन्द्रम् पाकशासनम् ॥३-१९-७॥
Slōka 8 / श्लोक ८
अद्य अहम् मार्गणैः प्राणान् आदास्ये जीवितांतगैः ।
सलिले क्षीरम् आसक्तम् निष्पिबन् इव सारसः ॥३-१९-८॥
Slōka 9 / श्लोक ९
निहतस्य मया संख्ये शर संकृत्त मर्मणः ।
सफेनम् रुधिरम् कस्य मेदिनी पातुम् इच्छसि ॥३-१९-९॥
Slōka 10 / श्लोक १०
कस्य पत्ररथाः कायात् मांसम् उत्कृत्य संगताः ।
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥३-१९-१०॥
Slōka 11 / श्लोक ११
तम् न देवा न गंधर्वा न पिशाचा न राक्षसाः ।
मया अपकृष्टम् कृपणम् शक्ताः त्रातुम् इह आहवे ॥३-१९-११॥
Slōka 12 / श्लोक १२
उपलभ्य शनैः संज्ञाम् तम् मे शंसितुम् अर्हसि ।
येन त्वम् दुर्विनीतेन वने विक्रम्य निर्जिता ॥३-१९-१२॥
Slōka 13 / श्लोक १३
इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।
ततः शूर्पणखा वाक्यम् सबाष्पम् इदम् अब्रवीत् ॥३-१९-१३॥
Slōka 14 / श्लोक १४
तरुणौ रूप संपन्नौ सुकूमारौ महाबलौ ।
पुण्डरीक विशालाक्षौ चीर कृष्ण अजिन अंबरौ ॥३-१९-१४॥
Slōka 15 / श्लोक १५
फल मूल अशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्य आस्ताम् भ्रातरौ राम लक्ष्मनौ ॥३-१९-१५॥
Slōka 16 / श्लोक १६
गन्धर्व राज प्रतिमौ पार्थिव व्यन्जन अन्वितौ ।
देवौ वा दानवौ - मानुषौ - वा तौ न तर्कयितुम् उत्सहे ॥३-१९-१६॥
Slōka 17 / श्लोक १७
तरुणी रूपसंपन्ना सर्वाअभरण भूषिता ।
दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा ॥३-१९-१७॥
Slōka 18 / श्लोक १८
ताभ्याम् उभाभ्याम् संभूय प्रमदाम् अधिकृत्य ताम् ।
इमाम् अवस्थाम् नीता अहम् यथा अनाथा सती तथा ॥३-१९-१८॥
Slōka 19 / श्लोक १९
तस्याः च अनृजु वृत्तायाः तयोः च हतयोर् अहम् ।
सफेनम् पातुम् इच्छामि रुधिरम् रण मूर्धनि ॥३-१९-१९॥
Slōka 20 / श्लोक २०
एष मे प्रथमः कामः कृतः तत्र त्वया भवेत् ।
तस्याः तयोः च रुधिरम् पिबेयम् अहम् आहवे ॥३-१९-२०॥
Slōka 21 / श्लोक २१
इति तस्याम् ब्रुवाणायाम् चतुर् दश महाबलान् ।
व्यादिदेश खरः क्रुद्धो राक्षसान् अंतकोपमान् ॥३-१९-२१॥
Slōka 22 / श्लोक २२
मानुषौ शस्त्र सम्पन्नौ चीर कृष्ण अजिन अंबरौ ।
प्रविष्टौ दण्डकारण्यम् घोरम् प्रमदया सह ॥३-१९-२२॥
Slōka 23 / श्लोक २३
तौ हत्वा ताम् च दुर्वृत्ताम् उपावर्तितुम् अर्हथ ।
इयम् च रुधिरम् तेषाम् भगिनी मम पास्यति ॥३-१९-२३॥
Slōka 24 / श्लोक २४
मनोरथो अयम् इष्टो अस्या भगिन्या मम राक्षसाः ।
शीघ्रम् संपद्यताम् गत्वा तौ प्रमथ्य स्व तेजसा ॥३-१९-२४॥
Slōka 25 / श्लोक २५
युष्माबिः निर्हतो दृष्ट्वा तौ उभौ भ्रातौ रणे ।
इयम् प्रहृष्टा मुदिता रुधिरम् युधि पास्यति ॥३-१९-२५॥
Slōka 26 / श्लोक २६
इति प्रतिसमादिष्टा राक्षसाः ते चतुर् दश ।
तत्र जग्मुः तया सार्धम् घना वातेरिताः यथा ॥३-१९-२६॥
Slōka 27 / श्लोक २७
ततस्तु ते तम् समुदर्ग तेजसम्<BR>तथापि तीक्ष्ण प्रदरा निशाचरा ।
न शेकुर् एनम् सहसा प्रमर्दितुम्<BR>वनद्विपा दीप्त्वम् इव अग्निम् उथितम् ॥३-१९-२७॥