Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 93 / सर्गः ९३

Slōka 1 / श्लोक १

तया महत्या यायिन्या ध्वजिन्या वनवासिन: ।
अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ॥ २.९३.१॥

Slōka 2 / श्लोक २

ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: ।
दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २.९३.२॥

Slōka 3 / श्लोक ३

स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: ।
वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ २.९३.३॥

Slōka 4 / श्लोक ४

सागरौघनिभा सेना भरतस्य महात्मन: ।
महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ॥ २.९३.४॥

Slōka 5 / श्लोक ५

चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ २.९३.५॥

Slōka 6 / श्लोक ६

स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: ।
उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ २.९३.६॥

Slōka 7 / श्लोक ७

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।
व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ॥ २.९३.७॥

Slōka 8 / श्लोक ८

अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ।
एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ २.९३.८॥

Slōka 9 / श्लोक ९

गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।
वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ॥ २.९३.९॥

Slōka 10 / श्लोक १०

मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु ।
नीला इवातपापाये तोयं तोयधरा घना: ॥ २.९३.१०॥

Slōka 11 / श्लोक ११

किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।
मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ॥ २.९३.११॥

Slōka 12 / श्लोक १२

एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: ।
वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ २.९३.१२॥

Slōka 13 / श्लोक १३

कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी ।
मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ॥ २.९३.१३॥

Slōka 14 / श्लोक १४

निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।
अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ २.९३.१४॥

Slōka 15 / श्लोक १५

खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।
तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ॥ २.९३.१५॥

Slōka 16 / श्लोक १६

स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् ।
एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ॥ २.९३.१६॥

Slōka 17 / श्लोक १७

एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् ।
एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ॥ २.९३.१७॥

Slōka 18 / श्लोक १८

अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा ।
तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ॥ २.९३.१८॥

Slōka 19 / श्लोक १९

मृगा मृगीभि: सहिता बहव: पृषता वने ।
मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ॥ २.९३.१९॥

Slōka 20 / श्लोक २०

साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने ।
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २.९३.२०॥

Slōka 21 / श्लोक २१

भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: ।
विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ॥ २.९३.२१॥

Slōka 22 / श्लोक २२

ते समालोक्य धूमाग्रमूचुर्भरतमागता: ।
नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ २.९३.२२॥

Slōka 23 / श्लोक २३

अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ ।
मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ॥ २.९३.२३॥

Slōka 24 / श्लोक २४

तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ॥ २.९३.२४॥

Slōka 25 / श्लोक २५

यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: ।
अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २.९३.२५॥

Slōka 26 / श्लोक २६

एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: ।
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २.९३.२६॥

Slōka 27 / श्लोक २७

व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: ।
बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २.९३.२७ ॥