Star (-) Watch (-)

Ramayana

किष्किन्धाकाण्डम्डम्

Chapter 64 / सर्गः ६४

Slōka 1 / श्लोक १

Slōka 1

आख्याता गृध्र राजेन समुत्प्लुत्य प्लवंगमाः ।
संगताः प्रीति संयुक्ता विनेदुः सिंह विक्रमाः ॥४-६४-१॥

Slōka 2 / श्लोक २

Slōka 2

संपातेः वचनम् श्रुत्वा हरयो रावण क्षयम् ।
हृष्टाः सागरम् आजग्मुः सीता दर्शन कान्क्षिणः ॥४-६४-२॥

Slōka 3 / श्लोक ३

Slōka 3

अभिक्रम्य तु तम् देशम् ददृशुर् भीम विक्रमाः ।
कृत्स्नम् लोकस्य महतः प्रतिबिंबम् इव स्थितम् ॥४-६४-३॥

Slōka 4 / श्लोक ४

Slōka 4

दक्षिणस्य समुद्रस्य समासाद्य उत्तराम् दिशम् ।
संनिवेशम् ततः चक्रुः सहिता वानर उत्तमाः ॥४-६४-४॥

Slōka 5 / श्लोक ५

Slōka 5

प्रसुप्तम् इव च अन्यत्र क्रीडन्तम् इव च अन्यतः ।
क्वचित् पर्वत मात्रैः च जल राशिभिः आवृतम् ॥४-६४-५॥

Slōka 6 / श्लोक ६

Slōka 6

संकुलम् दानव इन्द्रैः च पाताल तल वासिभिः ।
रोम हर्ष करम् दृष्ट्वा विषेदुः कपिकुंजराः ॥४-६४-६॥

Slōka 7 / श्लोक ७

Slōka 7

आकाशम् इव दुष्पारम् सागरम् प्रेक्ष्य वानराः ।
विषेदुः सहिता सर्वे कथम् कार्यम् इति ब्रुवन् ॥४-६४-७॥

Slōka 8 / श्लोक ८

Slōka 8

विषण्णाम् वाहिनीम् दृष्ट्वा सागरस्य निरीक्षणात् ।
आश्वासयामास हरीन् भय आर्तान् हरि सत्तमः ॥४-६४-८॥

Slōka 9 / श्लोक ९

Slōka 9

न विषादे मनः कार्यम् विषादो दोषवत्तरः ।
विषादो हन्ति पुरुषम् बालम् क्रुद्ध इव उरगः ॥४-६४-९॥

Slōka 10 / श्लोक १०

Slōka 10

यो विषादो प्रसहते विक्रमे समुपस्थिते ।
तेजसा तस्य हीनस्य पुरुष अर्थो न सिद्ध्यति ॥४-६४-१०॥

Slōka 11 / श्लोक ११

Slōka 11

तस्याम् रात्र्याम् व्यतीतायाम् अंगदो वानरैः सह ।
हरि वृद्धैः समागम्य पुनर् मंत्रम् अमंत्रयत् ॥४-६४-११॥

Slōka 12 / श्लोक १२

Slōka 12

सा वानराणाम् ध्वजिनी परिवार्य अंगदम् बभौ ।
वासवम् परिवार्य इव मरुताम् वाहिनी स्थिता ॥४-६४-१२॥

Slōka 13 / श्लोक १३

Slōka 13

को अन्यः ताम् वानरीम् सेनाम् शक्तः स्तंभयितुम् भवेत् ।
अन्यत्र वालि तनयात् अन्यत्र च हनूमतः ॥४-६४-१३॥

Slōka 14 / श्लोक १४

Slōka 14

ततः तान् हरि वृद्धान् च तत् च सैन्यम् अरिन्दमः ।
अनुमान्य अंगदः श्रीमान् वाक्यम् अर्थवत् अब्रवीत् ॥४-६४-१४॥

Slōka 15 / श्लोक १५

Slōka 15

क इदानीम् महातेजा लंघयिष्यति सागरम् ।
कः करिष्यति सुग्रीवम् सत्य सन्धम् अरिन्दमम् ॥४-६४-१५॥

Slōka 16 / श्लोक १६

Slōka 16

को वीरो योजन शतम् लंघयेत प्लवंगमाः ।
इमान् च यूथपान् सर्वान् मोचयेत् को महाभयात् ॥४-६४-१६॥

Slōka 17 / श्लोक १७

Slōka 17

कस्य प्रसादात् दारान् च पुत्रान् चैव गृहाणि च ।
इतो निवृत्ताः पश्येम सिद्ध अर्थाः सुखिनो वयम् ॥४-६४-१७॥

Slōka 18 / श्लोक १८

Slōka 18

कस्य प्रसादात् रामम् च लक्ष्मणम् च महाबलम् ।
अभिगच्छेम संहृष्टाः सुग्रीवम् च महाबलम् ॥४-६४-१८॥

Slōka 19 / श्लोक १९

Slōka 19

यदि कश्चित् समर्थो वः सागर प्लवने हरिः ।
स ददातु इह नः शीघ्रम् पुण्याम् अभय दक्षिणाम् ॥४-६४-१९॥

Slōka 20 / श्लोक २०

Slōka 20

अंगदस्य वचः श्रुत्वा न कश्चित् किंचित् अब्रवीत् ।
स्तिमिता इव अभवत् सर्वा सा तत्र हरि वाहिनी ॥४-६४-२०॥

Slōka 21 / श्लोक २१

Slōka 21

पुनर् एव अंगदः प्राह तान् हरीन् हरि सत्तमः ।
सर्वे बलवताम् श्रेष्ठा भवन्तो दृढ विक्रमाः ।व्यपदेश्य कुले जाताः पूजिताः च अपि अभीक्ष्णशः ॥४-६४-२१॥

Slōka 22 / श्लोक २२

Slōka 22

न हि वो गमने संगः कदाचित् अपि कस्यचित् भवेत् ।
ब्रुवध्वम् यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥४-६४-२२॥