Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 35 / सर्गः ३५

Slōka 1 / श्लोक १

तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् ।
उवाच वचनं सान्त्वमिदं मधुरया गिरा ।। ५.३५.१।।।।

Slōka 2 / श्लोक २

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।
वानराणां नराणां च कथमासीत् समागमः ।। ५.३५.२।।।।

Slōka 3 / श्लोक ३

यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।। ५.३५.३।।।।

Slōka 4 / श्लोक ४

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।
कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ।। ५.३५.४।।।।

Slōka 5 / श्लोक ५

एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः ।
ततो रामं यथात्त्वमाख्यातुमुपचक्रमे ।। ५.३५.५।।।।

Slōka 6 / श्लोक ६

जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।
भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ।। ५.३५.६।।।।

Slōka 7 / श्लोक ७

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।
लक्षितानि विशालाक्षि वदतः शृणु तानि मे ।। ५.३५.७।।।।

Slōka 8 / श्लोक ८

रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।
रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ।। ५.३५.८।।।।

Slōka 9 / श्लोक ९

तेजसा ऽ ऽदित्यसङ्काशः क्षमया पृथिवीसमः ।
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ।। ५.३५.९।।।।

Slōka 10 / श्लोक १०

रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता ।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ।। ५.३५.१०।।।।

Slōka 11 / श्लोक ११

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ।। ५.३५.११।।।।

Slōka 12 / श्लोक १२

अर्चिष्मानर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।
साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ।। ५.३५.१२।।।।

Slōka 13 / श्लोक १३

राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।
श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ।। ५.३५.१३।।।।

Slōka 14 / श्लोक १४

यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।
धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ।। ५.३५.१४।।।।

Slōka 15 / श्लोक १५

विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।
गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ।। ५.३५.१५।।।।

Slōka 16 / श्लोक १६

दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।
समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ।। ५.३५.१६।।।।

Slōka 17 / श्लोक १७

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।
त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ।। ५.३५.१७।।।।

Slōka 18 / श्लोक १८

त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः ।। ५.३५.१८।।।।

Slōka 19 / श्लोक १९

चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः ।
महोष्ठहनुनासश्च पञ्चस्निग्धो ऽष्टवंशवान् ।। ५.३५.१९।।।।

Slōka 20 / श्लोक २०

दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान् ।
षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः ।। ५.३५.२०।।।।

Slōka 21 / श्लोक २१

सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः ।
देशकालविभागज्ञः सर्वलोकप्रियंवदः ।। ५.३५.२१।।।।

Slōka 22 / श्लोक २२

भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।
अनुरागेण रूपेण गुणैश्चैव तथाविधः ।। ५.३५.२२।।।।

Slōka 23 / श्लोक २३

तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।
विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ।। ५.३५.२३।।।।

Slōka 24 / श्लोक २४

त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ।। ५.३५.२४।।।।

Slōka 25 / श्लोक २५

ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ।
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ।। ५.३५.२५।।।।

Slōka 26 / श्लोक २६

वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ।
परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ।। ५.३५.२६।।।।

Slōka 27 / श्लोक २७

ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ।। ५.३५.२७।।।।

Slōka 28 / श्लोक २८

स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।
अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ।। ५.३५.२८।।।।

Slōka 29 / श्लोक २९

ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः ।
तयोः समीपं मामेव प्रेषयामास सत्वरम् ।। ५.३५.२९।।।।

Slōka 30 / श्लोक ३०

तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू ।
रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ।। ५.३५.३०।।।।

Slōka 31 / श्लोक ३१

तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः ।। ५.३५.३१।।।।

Slōka 32 / श्लोक ३२

निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।
तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ।। ५.३५.३२।।।।

Slōka 33 / श्लोक ३३

ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ ।
परस्परकृताश्वासौ कथया पूर्ववृत्तया ।। ५.३५.३३।।।।

Slōka 34 / श्लोक ३४

ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।
स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ।। ५.३५.३४।।।।

Slōka 35 / श्लोक ३५

ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ।। ५.३५.३५।।।।

Slōka 36 / श्लोक ३६

स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।
तदा ऽ ऽसीन्निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् ।। ५.३५.३६।।।।

Slōka 37 / श्लोक ३७

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।
यान्याभरणजालानि पातितानि महीतले ।।। ५.३५.३७।।।।

Slōka 38 / श्लोक ३८

तानि सर्वाणि रामाय आनीय हरियूथपाः ।
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ।। ५.३५.३८।।।।

Slōka 39 / श्लोक ३९

तानि रामाय दत्तानि मयैवोपहृतानि च ।
स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ।। ५.३५.३९।।।।

Slōka 40 / श्लोक ४०

तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव ।
तेन देवप्रकाशेन देवेन परिदेवितम् ।। ५.३५.४०।।।।

Slōka 41 / श्लोक ४१

पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः।
प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ।। ५.३५.४१।।।।

Slōka 42 / श्लोक ४२

शयितं च चिरं तेन दुःकार्तेन महात्मना ।
मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः ।। ५.३५.४२।।।।

Slōka 43 / श्लोक ४३

तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।
राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ।। ५.३५.४३।।।।

Slōka 44 / श्लोक ४४

स तवादर्शनादार्ये राघवः परितप्यते ।
महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ।। ५.३५.४४।।।।

Slōka 45 / श्लोक ४५

त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।
तापयन्ति महात्मानमग्न्यागारमिवाग्नयः ।। ५.३५.४५।।।।

Slōka 46 / श्लोक ४६

तवादर्शनशोकेन राघवः प्रविचाल्यते ।
महता भूमिकम्पने महानिव शिलोच्चयः ।। ५.३५.४६।।।।

Slōka 47 / श्लोक ४७

काननानि सुरम्याणि नदीः प्रस्रवणानि च ।
चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ।। ५.३५.४७।।।।

Slōka 48 / श्लोक ४८

स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।
समित्रबान्धवं हत्वा रावणं जनकात्मजे ।। ५.३५.४८।।।।

Slōka 49 / श्लोक ४९

सहितौ रामसुग्रीवावुभावकुरुतां तदा ।
समयं वालिनं हन्तुं तव चान्वेषणं तथा ।। ५.३५.४९।।।।

Slōka 50 / श्लोक ५०

ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।
किष्किन्धां समुपागम्य वाली युद्धे निपातितः ।। ५.३५.५०।।।।

Slōka 51 / श्लोक ५१

ततो निहत्य तरसा रामो वालिनमाहवे ।
सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ।। ५.३५.५१।।।।

Slōka 52 / श्लोक ५२

रामसुग्रीवयोरैक्यं देव्येवं समजायत ।
हनुममन्तं च मां विद्धि तयोर्दूतमिहागतम् ।। ५.३५.५२।।।।

Slōka 53 / श्लोक ५३

स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ।
त्वदर्थं प्रेषयामास दिशो दश महाबलान् ।। ५.३५.५३।।।।

Slōka 54 / श्लोक ५४

आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।
अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ।। ५.३५.५४।।।।

Slōka 55 / श्लोक ५५

ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।
चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.३५.५५।।।।

Slōka 56 / श्लोक ५६

अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः ।
प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः ।। ५.३५.५६।।।।

Slōka 57 / श्लोक ५७

तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।
भृशं शोकपरीतानामहोरात्रगणा गताः ।। ५.३५.५७।।।।

Slōka 58 / श्लोक ५८

ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण च ।
भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ।। ५.३५.५८।।।।

Slōka 59 / श्लोक ५९

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।
अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ।। ५.३५.५९।।।।

Slōka 60 / श्लोक ६०

दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् ।
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ।। ५.३५.६०।।।।

Slōka 61 / श्लोक ६१

तवनाशं च वैदेहि वालिनश्च वधं तथा ।
प्रायोववेशमस्माकं मरणं च जटायुषः ।। ५३.५.६१।।।।

Slōka 62 / श्लोक ६२

तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् ।
कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ।। ५.३५.६२।।।।

Slōka 63 / श्लोक ६३

गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ।
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ।। ५.३५.६३।।।।

Slōka 64 / श्लोक ६४

यवीयान् केन म भ्राता हतः क्व च निपातितः ।
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ।। ५.३५.६४।।।।

Slōka 65 / श्लोक ६५

अङ्गदो ऽकथयत्तस्य जनस्थानेः महद्वधम् ।
रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।। ५.३५.६५।।।।

Slōka 66 / श्लोक ६६

जटायुषो वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः ।
त्वां शशंस वरारोहे वसन्तीं रावणालये ।। ५.३५.६६।।।।

Slōka 67 / श्लोक ६७

तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ।
अङ्गप्रमुखास्तूर्णं ततः संप्रस्थिता वयम् ।। ५.३५.६७।।।।

Slōka 68 / श्लोक ६८

विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ।
त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ।। ५.३५.६८।।।।

Slōka 69 / श्लोक ६९

अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ।
चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ।। ५.३५.६९।।।।

Slōka 70 / श्लोक ७०

तथा ऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।
व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः ।। ५.३५.७०।।।।

Slōka 71 / श्लोक ७१

लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।
रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ।। ५.३५.७१।।।।

Slōka 72 / श्लोक ७२

एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।
अभिभाषस्व मां देवि दूतो दाशरथेरहम् ।। ५.३५.७२।।।।

Slōka 73 / श्लोक ७३

तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।
सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ।। ५.३५.७३।।।।

Slōka 74 / श्लोक ७४

कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ।। ५.३५.७४।।।।

Slōka 75 / श्लोक ७५

तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।
अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ।। ५.३५.७५।।।।

Slōka 76 / श्लोक ७६

मयेयमसहायेन चरता कामरूपिणा ।
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ।। ५.३५.७६।।।।

Slōka 77 / श्लोक ७७

दिष्ट्या ऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।
अपनेष्यामि सन्तापं तवाभिगमशंसनात् ।। ५.३५.७७।।।।

Slōka 78 / श्लोक ७८

दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।
प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ।। ५.३५.७८।।।।

Slōka 79 / श्लोक ७९

राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।
समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ।। ५.३५.७९।।।।

Slōka 80 / श्लोक ८०

माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ।। ५.३५.८०।।।।

Slōka 81 / श्लोक ८१

स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।
तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ।। ५.३५.८१।।।।

Slōka 82 / श्लोक ८२

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।
हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ।। ५.३५.८२।।।।

Slōka 83 / श्लोक ८३

विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।
अचिराद् राघवो देवि त्वामितो नयिता ऽनघे ।। ५.३५.८३।।।।

Slōka 84 / श्लोक ८४

एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।
उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ।। ५.३५.८४।।।।

Slōka 85 / श्लोक ८५

अतुलं च गता हर्षं प्रहर्षेण च जानकी ।
नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ।। ५.३५.८५।।।।

Slōka 86 / श्लोक ८६

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३५.८६।।।।

Slōka 87 / श्लोक ८७

हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ।। ५.३५.८७।।।।

Slōka 88 / श्लोक ८८

एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।
किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ।। ५.३५.८८।।।।

Slōka 89 / श्लोक ८९

हते ऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।
ततो ऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ।। ५.३५.८९।।