सुन्दरकाण्डम्
Chapter 34 / सर्गः ३४
Slōka 1 / श्लोक १
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।
दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ।। ५.३४.१।।।।
Slōka 2 / श्लोक २
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः ।
वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।। ५.३४.२।।।।
Slōka 3 / श्लोक ३
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।
स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ।। ५.३४.३।।।।
Slōka 4 / श्लोक ४
लक्ष्मणश्च महातेजा भर्तुस्ते ऽनुचरः प्रियः ।
कृतवाञ्छोकसन्तप्तः शिरसा ते ऽभिवादनम् ।। ५.३४.४।।।।
Slōka 5 / श्लोक ५
सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।
प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५.३४.५।।।।
Slōka 6 / श्लोक ६
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ।। ५.३४.६।।।।
Slōka 7 / श्लोक ७
तया समागते तस्मिन् प्रीतिरुत्पादिता ऽद्भुता ।
परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ।। ५.३४.७।।।।
Slōka 8 / श्लोक ८
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।
सीतायाः शोकदीनायाः समीपमुपचक्रमे ।। ५.३४.८।।।।
Slōka 9 / श्लोक ९
यथा यथा समीपं स हनुमानुपसर्पति ।
तथा तथा रावणं सा तं सीता परिशङ्कते ।। ५.३४.९।।।।
Slōka 10 / श्लोक १०
अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे ।
रूपान्तरमुपागम्य स एवायं हि रावणः ।। ५.३४.१०।।।।
Slōka 11 / श्लोक ११
तामशोकस्य शाखां सा विमुक्ता शोककर्शिता ।
तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ।। ५.३४.११।।।।
Slōka 12 / श्लोक १२
हमुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ।सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ।। ५.३४.१२।।।।
Slōka 13 / श्लोक १३
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ।
अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ।।। ५.३४.१३।।।।
Slōka 14 / श्लोक १४
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ।
उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ।। ५.३४.१४।।।।
Slōka 15 / श्लोक १५
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ।
जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ।। ५.३४.१५।।।।
Slōka 16 / श्लोक १६
उपवासकृशां दीनां कामरूप निशाचर ।
सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम् ।। ५.३४.१६।।।।
Slōka 17 / श्लोक १७
अथवा नैतदेवं हि यन्मया परिशङ्कितम् ।
मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ।। ५.३४.१७।।।।
Slōka 18 / श्लोक १८
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ।
पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।गुणान् रामस्य कथय प्रियस्य मम वानर ।। ५.३४.१८।।।।
Slōka 19 / श्लोक १९
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।
। ५.३४.१९।।मि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।।।
Slōka 20 / श्लोक २०
अहो स्वप्नस्य सुखता या ऽहमेंव चिराहृता ।
प्रेषितं नाम पश्यामि राघवेण वनौकसम् ।। ५.३४.२०।।।।
Slōka 21 / श्लोक २१
स्वप्ने ऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।
पश्येयं नावसीदेयं स्वप्नो ऽपि मम मत्सरी ।। ५.३४.२१।।।।
Slōka 22 / श्लोक २२
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ।
न शक्यो ऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ।। ५.३४.२२।।।।
Slōka 23 / श्लोक २३
किन्नु स्याच्चित्तमोहो ऽयं भवेद्वातगतिस्त्वियम् ।
उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ।। ५.३४.२३।।।।
Slōka 24 / श्लोक २४
अथवा नायमुन्मादो मोहो ऽप्युन्मादलक्षणः ।
संबुद्ध्ये चाहमात्मानमिमं चापि वनौकसम् ।। ५.३४.२४।।।।
Slōka 25 / श्लोक २५
इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ।
रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।। ५.३४.२५।।।।
Slōka 26 / श्लोक २६
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ।
न प्रतिव्याजहाराथ वानरं जनकात्मजा ।। ५.३४.२६।।।।
Slōka 27 / श्लोक २७
सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः ।
श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ।। ५.३४.२७।।।।
Slōka 28 / श्लोक २८
आदित्य इव तेजस्वी लोककान्तः शशी यथा ।
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ।। ५.३४.२८।।।।
Slōka 29 / श्लोक २९
सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ।
रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ।। ५.३४.२९।।
Slōka 30 / श्लोक ३०
.स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ।
। ५.३४.३०।।।।
Slōka 31 / श्लोक ३१
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ।
। ५.३४.३१।।।।
Slōka 32 / श्लोक ३२
अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।
शून्ये येनापनीता ऽसि तस्य द्क्ष्यसि यत्फलम् ।। ५.३४.३२।।।।
Slōka 33 / श्लोक ३३
नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ।
रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ।। ५.३४.३३।।।।
Slōka 34 / श्लोक ३४
तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ।
त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ।। ५.३४.३४।।।।
Slōka 35 / श्लोक ३५
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ।। ५.३४.३५।।।।
Slōka 36 / श्लोक ३६
रामस्य च सखा देवि सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ।। ५.३४.३६।।।।
Slōka 37 / श्लोक ३७
नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ।
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ।। ५.३४.३७।।।।
Slōka 38 / श्लोक ३८
नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ।। ५.३४.३८।।।।
Slōka 39 / श्लोक ३९
अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ।। ५.३४.३९।।।।
Slōka 40 / श्लोक ४०
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।
त्वां द्रष्टुमुपयातो ऽहं समाश्रित्य पराक्रमम् ।। ५.३४.४०।।।।
Slōka 41 / श्लोक ४१
नाहमस्मि तथा देवि यथा मामवगच्छसि ।
विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ।। ५.३४.४१।।