सुन्दरकाण्डम्
Chapter 63 / सर्गः ६३
Slōka 1 / श्लोक १
ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।
दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ।। ५.६३.१ ।।।।
Slōka 2 / श्लोक २
उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम ।
अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ।। ५.६३.२ ।।।।
Slōka 3 / श्लोक ३
स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।
उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखो ऽब्रवीत् ।। ५.६३.३ ।।।।
Slōka 4 / श्लोक ४
नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।
वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ।। ५.६३.४ ।।।।
Slōka 5 / श्लोक ५
एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ।
मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ।। ५.६३.५ ।।।।
Slōka 6 / श्लोक ६
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथा ऽपरे ।
निवार्यमाणास्ते सर्वे भ्रूवौ वै दर्शयन्ति हि ।। ५.६३.६ ।।।।
Slōka 7 / श्लोक ७
इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ।
वारयन्तो वनातस्मात् क्रुद्वैर्वानरपुङ्गवैः ।। ५.६३.७ ।।।।
Slōka 8 / श्लोक ८
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः ।
संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ।। ५.६३.८ ।।।।
Slōka 9 / श्लोक ९
पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः ।
प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ।। ५.६३.९ ।।।।
Slōka 10 / श्लोक १०
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।
कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ।। ५.६३.१० ।।।।
Slōka 11 / श्लोक ११
एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।
अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ।। ५.६३.११ ।।।।
Slōka 12 / श्लोक १२
किमयं वानरो राजन् वनपः प्रत्युपस्थितः ।
कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ।। ५.६३.१२ ।।।।
Slōka 13 / श्लोक १३
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ।। ५.६३.१३ ।।।।
Slōka 14 / श्लोक १४
आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।
अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ।। ५.६३.१४ ।।।।
Slōka 15 / श्लोक १५
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ।
। ५.६३.१५ ।।।।
Slōka 16 / श्लोक १६
नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ।
आगतैश्च प्रमथितं यथा मधुवनं हि तैः ।। ५.६३.१६ ।।।।
Slōka 17 / श्लोक १७
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।
। ५.६३.१७ ।।।।
Slōka 18 / श्लोक १८
वनं यदाभिपन्नास्ते साधितं कर्म वानरैः ।
दृष्टा देवी न सन्देहो न चान्येन हनूमता ।न ह्यन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः ।। ५.६३.१८ ।।।।
Slōka 19 / श्लोक १९
कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे ।
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ।। ५.६३.१९ ।।।।
Slōka 20 / श्लोक २०
जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ।
हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। ५.६३.२० ।।।।
Slōka 21 / श्लोक २१
अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।
वारयन्तश्च सहितास्तथा जानुभिराहताः ।। ५.६३.२१ ।।।।
Slōka 22 / श्लोक २२
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।
नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ।। ५.६३.२२ ।।।।
Slōka 23 / श्लोक २३
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ।
अभिगम्य तथासव- ?पिबन्ति मधु वानराः ।। ५.६३.२३ ।।।।
Slōka 24 / श्लोक २४
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।
वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ।। ५.६३.२४ ।।।।
Slōka 25 / श्लोक २५
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ।
श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ।। ५.६३.२५ ।।।।
Slōka 26 / श्लोक २६
श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ।। ५.६३.२६ ।।।।
Slōka 27 / श्लोक २७
प्रीतो ऽस्मि सो ऽहं युद्भुक्तं वनं तैः कृतकर्मभिः ।
मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ।। ५.६३.२७ ।।।।
Slōka 28 / श्लोक २८
इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मगृहराजदर्पान् ।
द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ।। ५.६३.२८ ।।।।
Slōka 29 / श्लोक २९
प्रीतिस्पीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।
अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सो ऽतिमात्रं ननन्द ।। ५.६३.२९ ।।