अरण्यकाण्डम्
Chapter 33 / सर्गः ३३
Slōka 1 / श्लोक १
ततः शूर्पणखा दीना रावणम् लोक रावणम् ।
अमात्य मध्ये संक्रुद्धा परुषम् वाक्यम् अब्रवीत् ॥३-३३-१॥
Slōka 2 / श्लोक २
प्रमत्तः काम भोगेषु स्वैर वृत्तो निरंकुशः ।
समुत्पन्नम् भयम् घोरम् बोद्धव्यम् न अवबुध्यसे ॥३-३३-२॥
Slōka 3 / श्लोक ३
सक्तम् ग्राम्येषु भोगेषु काम वृत्तम् महीपतिम् ।
लुब्धम् न बहु मन्यन्ते श्मशान अग्निम् इव प्रजाः ॥३-३३-३॥
Slōka 4 / श्लोक ४
स्वयम् कार्याणि यः काले न अनुतिष्ठति पार्थिवः ।
स तु वै सह राज्येन तैः च कार्यैः विनश्यति ॥३-३३-४॥
Slōka 5 / श्लोक ५
अयुक्त चारम् दुर्दर्शम् अस्वाधीनम् नराधिपम् ।
वर्जयन्ति नरा दूरात् नदी पंकम् इव द्विपाः ॥३-३३-५॥
Slōka 6 / श्लोक ६
ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः ।
ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥३-३३-६॥
Slōka 7 / श्लोक ७
आत्मवद्भिः विगृह्य त्वम् देव गंधर्व दानवैः ।
अयुक्त चारः चपलः कथम् राजा भविष्यसि ॥३-३३-७॥
Slōka 8 / श्लोक ८
त्वम् तु बाल स्वभावत् च बुद्धि हीनः च राक्षस ।
ज्ञातव्यम् तु न जानीषि कथम् राजा भविष्यसि ॥३-३३-८॥
Slōka 9 / श्लोक ९
येषाम् चारः च कोशः च नयः च जयताम् वर ।
अस्वाधीना नरेन्द्राणाम् प्राकृतैः ते जनैः समाः ॥३-३३-९॥
Slōka 10 / श्लोक १०
यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः ।
चारेण तस्मात् उच्यन्ते राजानो दीर्घ चक्षुषः ॥३-३३-१०॥
Slōka 11 / श्लोक ११
अयुक्त चारम् मन्ये त्वाम् प्राकृतैः सचिवैः युतः ।
स्व जनम् च जनस्थानम् निहतम् न अवबुध्यसे ॥३-३३-११॥
Slōka 12 / श्लोक १२
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।
हतानि एकेन रामेण खरः च सह दूषणः ॥३-३३-१२॥
Slōka 13 / श्लोक १३
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ।
धर्षितम् च जनस्थानम् रामेण अक्लिष्ट कारिणा ॥३-३३-१३॥
Slōka 14 / श्लोक १४
त्वम् तु लुब्धः प्रमत्तः च पराधीनः च रावण ।
विषये स्वे समुत्पन्नम् यो भयम् न अवबुध्यसे ॥३-३३-१४॥
Slōka 15 / श्लोक १५
तीक्ष्णम् अल्प प्रदातारम् प्रमत्तम् गर्वितम् शठम् ।
व्यसने सर्व भूतानि न अभिधावन्ति पार्थिवम् ॥३-३३-१५॥
Slōka 16 / श्लोक १६
अतिमानिनम् अग्राह्यम् आत्म संभावितम् नरम् ।
क्रोधिनम् व्यसने हन्ति स्व जनो अपि नराधिपम् ॥३-३३-१६॥
Slōka 17 / श्लोक १७
न अनुतिष्ठति कार्याणि भयेषु न बिभेति च ।
क्षिप्रम् राज्यात् च्युतो दीनः तृणैः तुल्यो भवेत् इह ॥३-३३-१७॥
Slōka 18 / श्लोक १८
शुष्क काष्ठैः भवेत् कार्यम् लोष्टैः अपि च पांसुभिः ।
न तु स्थानात् परिभ्रष्टैः कार्यम् स्यात् वसुधाधिपैः ॥३-३३-१८॥
Slōka 19 / श्लोक १९
उपभुक्तम् यथा वासः स्रजो वा मृदिता यथा ।
एवम् राज्यात् परिभ्रष्टः समर्थो अपि निरर्थकः ॥३-३३-१९॥
Slōka 20 / श्लोक २०
अप्रमत्तः च यो राजा सर्वज्ञो विजितेन्द्रियः ।
कृतज्ञो धर्म शीलः च स राजा तिष्ठते चिरम् ॥३-३३-२०॥
Slōka 21 / श्लोक २१
नयनाभ्याम् प्रसुप्तो वा जागर्ति नय चक्षुषा ।
व्यक्त क्रोध प्रसादः च स राजा पूज्यते जनैः ॥३-३३-२१॥
Slōka 22 / श्लोक २२
त्वम् तु रावण दुर्बुद्धिः गुणैः एतैः विवर्जितः ।
यस्य ते अविदितः चारैः रक्षसाम् सुमहान् वधः ॥३-३३-२२॥
Slōka 23 / श्लोक २३
पर अवमंता विषयेषु संगवान्न देश काल प्रविभाग तत्त्व वित् ।
अयुक्त बुद्धिः गुण दोष निश्चयेविपन्न राज्यो न चिरात् विपत्स्यते ॥३-३३-२३॥
Slōka 24 / श्लोक २४
इति स्व दोषान् परिकीर्तिताम् तयासमीक्ष्य बुद्ध्या क्षणदा चरेश्वरः ।
धनेन दर्पेण बलेन च अन्वितोविचिन्तयामास चिरम् स रावणः ॥३-३३-२४॥