उत्तरकाण्डम्डम्
Chapter 96 / सर्गः ९६
Slōka 1 / श्लोक १
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।
ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ।। ७.९६.१ ॥
Slōka 2 / श्लोक २
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ।। ७.९६.२ ॥
Slōka 3 / श्लोक ३
पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः ।
मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ।। ७.९६.३ ॥
Slōka 4 / श्लोक ४
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ।
भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ।। ७.९६.४ ॥
Slōka 5 / श्लोक ५
नारदः पर्वतश्चैव गौतमश्च महायशाः ।
कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ।। ७.९६.५ ॥
Slōka 6 / श्लोक ६
एते चान्ये च बहवो मुनयः संशितव्रताः ।
कौतूहलसमाविष्टाः सर्व एव समागताः ।। ७.९६.६ ॥
Slōka 7 / श्लोक ७
राक्षसाश्च महावीर्या वानराश्च महाबलाः ।
सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ।। ७.९६.७ ॥
Slōka 8 / श्लोक ८
क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ।
नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ।। ७.९६.८ ॥
Slōka 9 / श्लोक ९
ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे ।
सीताशपथवीक्षार्थं सर्व एव समागताः ।। ७.९६.९ ॥
Slōka 10 / श्लोक १०
तदा समागतं सर्वमश्मभूतमिवाचलम् ।
श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ।। ७.९६.१० ॥
Slōka 11 / श्लोक ११
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।
कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ।। ७.९६.११ ॥
Slōka 12 / श्लोक १२
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।
वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ।। ७.९६.१२ ॥
Slōka 13 / श्लोक १३
ततो हलहलाशब्दः सर्वेषामेवमाबभौ ।
दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ।। ७.९६.१३ ॥
Slōka 14 / श्लोक १४
साधु रामेति केचित्तु साधु सीतेति चापरे ।
उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ।। ७.९६.१४ ॥
Slōka 15 / श्लोक १५
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ।
सीतासहायो वाल्मीकिरिति होवाच राघवम् ।। ७.९६.१५ ॥
Slōka 16 / श्लोक १६
इयं दाशरथे सीता सुव्रता धर्मचारिणी ।
अपवादैः परित्यक्ता ममाश्रमसमीपतः ।। ७.९६.१६ ॥
Slōka 17 / श्लोक १७
लोकापवादभीतस्य तव राम महाव्रत ।
प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ।। ७.९६.१७ ॥
Slōka 18 / श्लोक १८
इमौ तु जानकीपुत्रावुभौ च यमजातकौ ।
सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ।। ७.९६.१८ ॥
Slōka 19 / श्लोक १९
प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन ।
न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ।। ७.९६.१९ ॥
Slōka 20 / श्लोक २०
बहुवर्षसहस्राणि तपश्चर्या मया कृता ।
नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ।। ७.९६.२० ॥
Slōka 21 / श्लोक २१
मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् ।
तस्याः फलमुपाश्नीयामपापा मैथिली यदि ।। ७.९६.२१ ॥
Slōka 22 / श्लोक २२
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव ।
विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ।। ७.९६.२२ ॥
Slōka 23 / श्लोक २३
इयं शुद्धसमाचारा अपापा पतिदेवता ।
लोकापवादभीतस्य प्रत्ययं तव दास्यति ।। ७.९६.२३ ॥
Slōka 24 / श्लोक २४
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा ।
लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ।। ७.९६.२४ ।।