Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 95 / सर्गः ९५

Slōka 1 / श्लोक १

अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: ।
अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ २.९५.१॥

Slōka 2 / श्लोक २

अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।
विदेहराजस्य सुतां रामो राजीवलोचन: ॥ २.९५.२॥

Slōka 3 / श्लोक ३

विचित्रपुलिनां रम्यां हंससारससेविताम् ।
कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ २.९५.३॥

Slōka 4 / श्लोक ४

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: ।
राजन्तीं राजराजस्य नलिनीमिव सर्वत: ॥ २.९५.४॥

Slōka 5 / श्लोक ५

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।
तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ २.९५.५॥

Slōka 6 / श्लोक ६

जटाजिनधरा: काले वल्कलोत्तरवासस: ।
ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ २.९५.६॥

Slōka 7 / श्लोक ७

आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: ।
एते परे विशालाक्षि मुनय: संशितव्रता: ॥ २.९५.७॥

Slōka 8 / श्लोक ८

मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: ।
पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ २.९५.८॥

Slōka 9 / श्लोक ९

क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।
क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ २.९५.९॥

Slōka 10 / श्लोक १०

निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।
पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ २.९५.१०॥

Slōka 11 / श्लोक ११

तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: ।
अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ॥ २.९५.११॥

Slōka 12 / श्लोक १२

दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।
अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ २.९५.१२॥

Slōka 13 / श्लोक १३

विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: ।
नित्यविक्षोभितजलां विगाहस्व मया सह ॥ २.९५.१३॥

Slōka 14 / श्लोक १४

सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।
कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ २.९५.१४॥

Slōka 15 / श्लोक १५

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ २.९५.१५॥

Slōka 16 / श्लोक १६

लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: ।
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ २.९५.१६॥

Slōka 17 / श्लोक १७

उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: ।
नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ २.९५.१७॥

Slōka 18 / श्लोक १८

इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: ।
सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ॥ २.९५.१८॥

Slōka 19 / श्लोक १९

इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् ।
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ॥ २.९५.१९ ॥