Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 79 / सर्गः ७९

Slōka 1 / श्लोक १

तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।
गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ।। ७.७९.१ ॥

Slōka 2 / श्लोक २

भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।
श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ।। ७.७९.२ ॥

Slōka 3 / श्लोक ३

तद्वनं स कथ राजा शून्यं मनुजवर्जितम् ।
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ।। ७.७९.३ ॥

Slōka 4 / श्लोक ४

रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ।। ७.७९.४ ॥

Slōka 5 / श्लोक ५

पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ।। ७.७९.५ ॥

Slōka 6 / श्लोक ६

तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् ।
पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ।। ७.७९.६ ॥

Slōka 7 / श्लोक ७

तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव ।
ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ।। ७.७९.७ ॥

Slōka 8 / श्लोक ८

प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः ।
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ।। ७.७९.८ ॥

Slōka 9 / श्लोक ९

अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ।। ७.७९.९ ॥

Slōka 10 / श्लोक १०

तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ।। ७.७९.१० ॥

Slōka 11 / श्लोक ११

इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना ।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ।। ७.७९.११ ॥

Slōka 12 / श्लोक १२

प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।
जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ।। ७.७९.१२ ॥

Slōka 13 / श्लोक १३

कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् ।
जनयामास धर्मात्मा शतं देवसुतोपमान् ।। ७.७९.१३ ॥

Slōka 14 / श्लोक १४

तेषामवरजस्तात सर्वेषां रघुनन्दन ।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ।। ७.७९.१४ ॥

Slōka 15 / श्लोक १५

नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः ।
अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ।। ७.७९.१५ ॥

Slōka 16 / श्लोक १६

अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ।। ७.७९.१६ ॥

Slōka 17 / श्लोक १७

स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ।। ७.७९.१७ ॥

Slōka 18 / श्लोक १८

पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।
पुरोहितं तूशनसं वरयामास सुव्रतम् ।। ७.७९.१८ ॥

Slōka 19 / श्लोक १९

एवं स राजा तद्राज्यमकरोत्सपुरोहितः ।
प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ।। ७.७९.१९ ॥

Slōka 20 / श्लोक २०

ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् ।
चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ।। ७.७९.२० ।।