सुन्दरकाण्डम्
Chapter 53 / सर्गः ५३
Slōka 1 / श्लोक १
तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।। 5.53.1।।।।
Slōka 2 / श्लोक २
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।
अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। 5.53.2।।।।
Slōka 3 / श्लोक ३
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। 5.53.3।।।।
Slōka 4 / श्लोक ४
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।
समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ।। 5.53.4।।।।
Slōka 5 / श्लोक ५
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।। 5.53.5।।।।
Slōka 6 / श्लोक ६
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ।
। 5.53.6।।।।
Slōka 7 / श्लोक ७
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।
शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।तैलेन परिषिच्याथ ते ऽग्निं तत्राभ्यपातयन् ।। 5.53.7।।।।
Slōka 8 / श्लोक ८
लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।
रोषामर्षपरीतात्मा बालसूर्यसमाननः ।। 5.53.8।।।।
Slōka 9 / श्लोक ९
लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ।
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।। 5.53.9।।।।
Slōka 10 / श्लोक १०
स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ।
निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ।। 5.53.10।।।।
Slōka 11 / श्लोक ११
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ।
छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ।। 5.53.11।।।।
Slōka 12 / श्लोक १२
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ।
बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ।। 5.53.12।।।।
Slōka 13 / श्लोक १३
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।
किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहमीदृशम् ।। 5.53.13।।।।
Slōka 14 / श्लोक १४
लङ्का चारयितव्या वै पुनरेव भवेदिति ।
रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।। 5.53.14।।।।
Slōka 15 / श्लोक १५
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ।
। 5.53.15।।।।
Slōka 16 / श्लोक १६
कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।
पीडां कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः ।। 5.53.16।।।।
Slōka 17 / श्लोक १७
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ।। 5.53.17।।।।
Slōka 18 / श्लोक १८
शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः ।
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ।। 5.53.18।।।।
Slōka 19 / श्लोक १९
अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।
हनुमांश्चारयामास राक्षसानां महापुरीम् ।। 5.53.19।।।।
Slōka 20 / श्लोक २०
अथापश्यद्विमानानि विचित्राणि महाकपिः ।
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ।। 5.53.20।।।।
Slōka 21 / श्लोक २१
वीथीश्च गृहसंबाधाः कपिः श्रृङ्गाटकानि च ।
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ।गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ।। 5.53.21।।।।
Slōka 22 / श्लोक २२
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।
घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।। 5.53.22।।।।
Slōka 23 / श्लोक २३
स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ।
तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।। 5.53.23।।।।
Slōka 24 / श्लोक २४
दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः ।
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ।। 5.53.24।।।।
Slōka 25 / श्लोक २५
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।। 5.53.25।।।।
Slōka 26 / श्लोक २६
श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।
वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।। 5.53.26।।।।
Slōka 27 / श्लोक २७
मङ्गलाभिमुखी तस्य सा तदा ऽ ऽसीन्महाकपेः ।
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।। 5.53.27।।।।
Slōka 28 / श्लोक २८
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ।। 5.53.28।।।।
Slōka 29 / श्लोक २९
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।
यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।। 5.53.29।।।।
Slōka 30 / श्लोक ३०
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ।
स विजानाति धर्मात्मा शीतो भव हनूमतः ।। 5.53.30।।।।
Slōka 31 / श्लोक ३१
यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः ।
अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।। 5.53.31।।।।
Slōka 32 / श्लोक ३२
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो ऽनलः ।
जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ।। 5.53.32।।।।
Slōka 33 / श्लोक ३३
हनुमज्जनकश्चापि पुच्छानलयुतो ऽनिलः ।
ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।। 5.53.33।।।।
Slōka 34 / श्लोक ३४
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।
। 5.53.34।।।।
Slōka 35 / श्लोक ३५
प्रदीप्तो ऽग्निरयं कस्मान्न मां दहति सर्वतः ।
दृश्यते च महाज्वालः करोति न च मे रुजम् ।शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ।। 5.53.35।।।।
Slōka 36 / श्लोक ३६
अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया ।
रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ।। 5.53.36।।।।
Slōka 37 / श्लोक ३७
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।
रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ।। 5.53.37।।।।
Slōka 38 / श्लोक ३८
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।
पितुश्च मम सख्येन न मां दहति पावकः ।। 5.53.38।।।।
Slōka 39 / श्लोक ३९
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।
। 5.53.39।।।।
Slōka 40 / श्लोक ४०
उत्पपाताथ वेगेन ननाद च महाकपिः ।
पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ।।।।
Slōka 41 / श्लोक ४१
विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ।
। 5.53.40।।।।
Slōka 42 / श्लोक ४२
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।। 5.53.41।।।।
Slōka 43 / श्लोक ४३
विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः ।
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।। 5.53.42।।।।
Slōka 44 / श्लोक ४४
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।
रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ।। 5.53.43।।।।
Slōka 45 / श्लोक ४५
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।
प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ।। 5.53.44।।