Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 101 / सर्गः १०१

Slōka 1 / श्लोक १

रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह ।
किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ॥ २.१०१.१॥

Slōka 2 / श्लोक २

शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ ।
ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ २.१०१.२॥

Slōka 3 / श्लोक ३

स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव ।
अभिषेचय चात्मानं कुलस्यास्य भवाय न: ॥ २.१०१.३॥

Slōka 4 / श्लोक ४

राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ २.१०१.४॥

Slōka 5 / श्लोक ५

केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।
दिवमार्यो गतो राजा यायजूक: सतां मत: ॥ २.१०१.५॥

Slōka 6 / श्लोक ६

निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।
दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ २.१०१.६॥

Slōka 7 / श्लोक ७

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: ।
ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ॥ २.१०१.७॥

Slōka 8 / श्लोक ८

प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ॥ २.१०१.८॥

Slōka 9 / श्लोक ९

त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।
त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ॥ २.१०१.९ ॥