उत्तरकाण्डम्डम्
Chapter 94 / सर्गः ९४
Slōka 1 / श्लोक १
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।
यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ।। ७.९४.१ ॥
Slōka 2 / श्लोक २
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् ।
अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ।। ७.९४.२ ॥
Slōka 3 / श्लोक ३
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ।
बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ।। ७.९४.३ ॥
Slōka 4 / श्लोक ४
अथ कर्मान्तरे राजा समाहूय महामुनीन् ।
पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ।। ७.९४.४ ॥
Slōka 5 / श्लोक ५
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः ।
स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ।। ७.९४.५ ॥
Slōka 6 / श्लोक ६
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः ।
पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ।। ७.९४.६ ॥
Slōka 7 / श्लोक ७
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् ।
क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ।। ७.९४.७ ॥
Slōka 8 / श्लोक ८
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।
हेतूपचारकुशलान् वचने चापि हैतुकान् ।। ७.९४.८ ॥
Slōka 9 / श्लोक ९
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।
चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ।। ७.९४.९ ॥
Slōka 10 / श्लोक १०
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् ।
एतान्सर्वान्समानीय गातारौ समवेशयत् ।। ७.९४.१० ॥
Slōka 11 / श्लोक ११
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः ।
पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ।। ७.९४.११ ॥
Slōka 12 / श्लोक १२
ऊचुः परस्परं चेदं सर्व एव समन्ततः ।
उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ।। ७.९४.१२ ॥
Slōka 13 / श्लोक १३
जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।
विशेषं नाधिगच्छामो गायतो राघवस्य च ।। ७.९४.१३ ॥
Slōka 14 / श्लोक १४
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् ।
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ।। ७.९४.१४ ॥
Slōka 15 / श्लोक १५
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।
न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ।। ७.९४.१५ ॥
Slōka 16 / श्लोक १६
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ।
ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ।। ७.९४.१६ ॥
Slōka 17 / श्लोक १७
ततो ऽपराह्णसमये राघवः समभाषत ।
श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ।। ७.९४.१७ ॥
Slōka 18 / श्लोक १८
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ।
प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ।ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ।। ७.९४.१८ ॥
Slōka 19 / श्लोक १९
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ ।
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ।। ७.९४.१९ ॥
Slōka 20 / श्लोक २०
वन्येन फलमूलेन निरतौ वनवासिनौ ।
सुवर्णेन हिरण्येन किं करिष्यावहे वने ।। ७.९४.२० ॥
Slōka 21 / श्लोक २१
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः ।
श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ।। ७.९४.२१ ॥
Slōka 22 / श्लोक २२
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।
पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ।। ७.९४.२२ ॥
Slōka 23 / श्लोक २३
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।
कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ।। ७.९४.२३ ॥
Slōka 24 / श्लोक २४
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।
। ७.९४.२४ ॥
Slōka 25 / श्लोक २५
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् ।
येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ।। ७.९४.२५ ॥
Slōka 26 / श्लोक २६
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् ।
उपाख्यानशतं चैव भार्गवेण तपस्विना ।। ७.९४.२६ ॥
Slōka 27 / श्लोक २७
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च ।
काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।कृतानि गुरुणास्माकमृषिणा चरितं तव ।। ७.९४.२७ ॥
Slōka 28 / श्लोक २८
प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ।
। ७.९४.२८ ।।
Slōka 29 / श्लोक २९
सोत्तराणि महात्मना ।
यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ ।कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ।। ७.९४.२९ ॥
Slōka 30 / श्लोक ३०
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।
प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ।। ७.९४.३० ॥
Slōka 31 / श्लोक ३१
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।
श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ।। ७.९४.३१ ॥
Slōka 32 / श्लोक ३२
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् ।
तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ।। ७.९४.३२ ।।