सुन्दरकाण्डम्
Chapter 26 / सर्गः २६
Slōka 1 / श्लोक १
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।
अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। ५.२६.१।।।।
Slōka 2 / श्लोक २
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।
उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। ५.२६.२।।।।
Slōka 3 / श्लोक ३
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ।
रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ५.२६.३।।।।
Slōka 4 / श्लोक ४
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् ।
चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ५.२६.४।।।।
Slōka 5 / श्लोक ५
नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः ।
वसन्त्या राक्षसीमध्ये विना रामं महारथम् ।। ५.२६.५।।।।
Slōka 6 / श्लोक ६
अश्मसारमिदं नूनमथवाप्यजरामरम् ।
हृदयं मम येनेदं न दुःखेनावशीर्यते ।। ५.२६.६।।।।
Slōka 7 / श्लोक ७
धिङ्मामनार्यामसतीं या ऽहं तेन विना कृता ।
मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। ५.२६.७।।।।
Slōka 8 / श्लोक ८
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।
भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ।। ५.२६.८।।।।
Slōka 9 / श्लोक ९
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ५.२६.९।।।।
Slōka 10 / श्लोक १०
चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।
रावणं किं पुनरहं कामयेयं विगर्हितम् ।। ५.२६.१०।।।।
Slōka 11 / श्लोक ११
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।
यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ।। ५.२६.११।।।।
Slōka 12 / श्लोक १२
छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता ।
रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ।। ५.२६.१२।।।।
Slōka 13 / श्लोक १३
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।
सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ।। ५.२६.१३।।।।
Slōka 14 / श्लोक १४
राक्षसानां सहस्राणि जनस्थाने चतुर्दश ।
येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। ५.२६.१४।।।।
Slōka 15 / श्लोक १५
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।
समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। ५.२६.१५।।।।
Slōka 16 / श्लोक १६
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।
रणे रामेण निहतः स मां किं नाभिपद्यते ।। ५.२६.१६।।।।
Slōka 17 / श्लोक १७
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।
न तु राघवबाणानां गतिरोधीह विद्यते ।। ५.२६.१७।।।।
Slōka 18 / श्लोक १८
किं तु तत्कारणं येन रामो दृढपराक्रमः ।
रक्षसा ऽपहृतां भार्यामिष्टां नाभ्यवपद्यते ।। ५.२६.१८।।।।
Slōka 19 / श्लोक १९
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।
जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ।। ५.२६.१९।।।।
Slōka 20 / श्लोक २०
हृतेति यो ऽधिगत्वा मां राघवाय निवेदयेत् ।
गृध्रराजो ऽपि स रणे रावणेन निपातितः ।। ५.२६.२०।।।।
Slōka 21 / श्लोक २१
कृतं कर्म महत्तेन मां तथा ऽभ्यवपद्यता ।
तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। ५.२६.२१।।।।
Slōka 22 / श्लोक २२
यदि मामिह जानीयाद्वर्तमानां स राघवः ।
अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ।। ५.२६.२२।।।।
Slōka 23 / श्लोक २३
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।। ५.२६.२३।।।।
Slōka 24 / श्लोक २४
ततो निहतनाथानां राक्षसीनां गृहे गृहे ।
यथा ऽहमेवं रुदती तथा भूयो न संशयः ।। ५.२६.२४।।।।
Slōka 25 / श्लोक २५
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः ।
न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ।। ५.२६.२५।।।।
Slōka 26 / श्लोक २६
चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला ।
अतिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। ५.२६.२६।।।।
Slōka 27 / श्लोक २७
अचिरेणैव कालेन प्रप्स्याम्येव मनोरथम् ।
दुष्प्रस्थानो ऽयमाख्याति सर्वेषां वो विपर्ययम् ।। ५.२६.२७।।।।
Slōka 28 / श्लोक २८
यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै ।
अचिरेण तु कालेन भविष्यति हतप्रभा ।। ५.२६.२८।।।।
Slōka 29 / श्लोक २९
नूनं लङ्का हते पापे रावणे राक्षसाधमे ।
शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। ५.२६.२९।।।।
Slōka 30 / श्लोक ३०
पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी ।
भविष्यति पुरी लङ्का नष्टभर्त्री यथा ऽङ्गना ।। ५.२६.३०।।।।
Slōka 31 / श्लोक ३१
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।
श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ।। ५.२६.३१।।।।
Slōka 32 / श्लोक ३२
सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।
भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ५.२६.३२।।।।
Slōka 33 / श्लोक ३३
यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।
जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। ५.२६.३३।।।।
Slōka 34 / श्लोक ३४
अनेन तु नृशंसेन रावणेनाधमेन मे ।
समयो यस्तु निर्दिष्टस्तस्य कालो ऽयमागतः ।। ५.२६.३४।।।।
Slōka 35 / श्लोक ३५
अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः ।
अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। ५.२६.३५।।।।
Slōka 36 / श्लोक ३६
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।
ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। ५.२६.३६।।।।
Slōka 37 / श्लोक ३७
सा ऽहं कथं करिष्यामि तं विना प्रियदर्शनम् ।
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। ५.२६.३७।।।।
Slōka 38 / श्लोक ३८
यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह ।
क्षिप्रं वैवस्वतं देव पश्येयं पतिना विना ।। ५.२६.३८।।।।
Slōka 39 / श्लोक ३९
नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।
जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। ५.२६.३९।।।।
Slōka 40 / श्लोक ४०
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।
देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। ५.२६.४०।।।।
Slōka 41 / श्लोक ४१
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। ५.२६.४१।।।।
Slōka 42 / श्लोक ४२
अथवा नहि तस्यार्थो धर्मकामस्य धीमतः ।
मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। ५.२६.४२।।।।
Slōka 43 / श्लोक ४३
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः ।
नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ।। ५.२६.४३।।।।
Slōka 44 / श्लोक ४४
किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम ।
या ऽहं सीदामि रामेण हीना मुख्येन भामिनी ।। ५.२६.४४।।।।
Slōka 45 / श्लोक ४५
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ।
रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। ५.२६.४५।।।।
Slōka 46 / श्लोक ४६
अथवा न्यस्तशस्त्रौ तौ वने मुलफलाशिनौ ।
भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ।। ५.२६.४६।।।।
Slōka 47 / श्लोक ४७
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ।
छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। ५.२६.४७।।।।
Slōka 48 / श्लोक ४८
सा ऽहमेवं गते काले मर्तुमिच्छामि सर्वथा ।
न च मे विहितो मृत्युरस्मिन् दुःखे ऽपि वर्तति ।। ५.२६.४८।।।।
Slōka 49 / श्लोक ४९
धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ।
जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। ५.२६.४९।।।।
Slōka 50 / श्लोक ५०
प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ।
ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। ५.२६.५०।।।।
Slōka 51 / श्लोक ५१
सा ऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।
प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ।। ५.२६.५१।।