उत्तरकाण्डम्डम्
Chapter 52 / सर्गः ५२
Slōka 1 / श्लोक १
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः ।
प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ।। ७.५२.१ ॥
Slōka 2 / श्लोक २
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः ।
अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ।। ७.५२.२ ॥
Slōka 3 / श्लोक ३
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।
रामपादौ समासाद्य वक्ष्यामि किमहं गतः ।। ७.५२.३ ॥
Slōka 4 / श्लोक ४
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् ।
रामस्य परमोदारं पुरस्तान्समदृश्यत ।। ७.५२.४ ॥
Slōka 5 / श्लोक ५
राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् ।
अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ।। ७.५२.५ ॥
Slōka 6 / श्लोक ६
स दृष्ट्वा राघवं दीनमासीनं परमासने ।
नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ।। ७.५२.६ ॥
Slōka 7 / श्लोक ७
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।
उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ।। ७.५२.७ ॥
Slōka 8 / श्लोक ८
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।
गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ।। ७.५२.८ ॥
Slōka 9 / श्लोक ९
तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् ।
पुनरप्यागतो वीर पादमूलमुपासितुम् ।। ७.५२.९ ॥
Slōka 10 / श्लोक १०
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी ।
त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।। ७.५२.१० ॥
Slōka 11 / श्लोक ११
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। ७.५२.११ ॥
Slōka 12 / श्लोक १२
तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ।
नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ।। ७.५२.१२ ॥
Slōka 13 / श्लोक १३
शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि ।
लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।। ७.५२.१३ ॥
Slōka 14 / श्लोक १४
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ।
अपवादः स किल ते पुनरेष्यति राघव ।। ७.५२.१४ ॥
Slōka 15 / श्लोक १५
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ।
सो ऽपवादः पुरे राजन्भविष्यति न संशयः ।। ७.५२.१५ ॥
Slōka 16 / श्लोक १६
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।
त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ।। ७.५२.१६ ॥
Slōka 17 / श्लोक १७
एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना ।
उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ।। ७.५२.१७ ॥
Slōka 18 / श्लोक १८
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।
परितोषश्च मे वीर मम कार्यानुशासने ।। ७.५२.१८ ॥
Slōka 19 / श्लोक १९
निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः ।
भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ।। ७.५२.१९ ।।