अयोध्याकाण्डम्
Chapter 9 / सर्गः ९
Slōka 1 / श्लोक १
एवमुक्ता तु कैकेयी कोपेन ज्वलितानना ।
दीर्घमुष्टम् विनिःश्वस्य मन्थरामिदम् अब्रवीत् ॥२-९-१॥
Slōka 2 / श्लोक २
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।
यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥२-९-२॥
Slōka 3 / श्लोक ३
इदं त्विदानीं संपश्य केनोपायेन मन्थरे ।
भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन॥२-९-३॥
Slōka 4 / श्लोक ४
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥२-९-४॥
Slōka 5 / श्लोक ५
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥२-९-५॥
Slōka 6 / श्लोक ६
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे ।
यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥२-९-६॥
Slōka 7 / श्लोक ७
मयोच्यमानं यदि ते श्रोतुं च्छ्न्दो विलासिनि ।
श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम् ॥२-९-७॥
Slōka 8 / श्लोक ८
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयि ।
किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥२-९-८॥
Slōka 9 / श्लोक ९
कथय त्वं ममोपायं केनोपायेन मन्थरे ।
भरतः प्राप्नुयाद्रज्यं न तु रामः कथंचन ॥२-९-९॥
Slōka 10 / श्लोक १०
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥२-९-१०॥
Slōka 11 / श्लोक ११
तव दैवासुरे युद्धे सहराजर्षिभिः पतिः ।
अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥२-९-११॥
Slōka 12 / श्लोक १२
दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति ।
वैजयन्तमिति क्यातं पुरं यत्र तिमिध्वजः ॥२-९-१२॥
Slōka 13 / श्लोक १३
स शम्बर इति ख्यातः शतमायो महासुरः ।
ददौ शक्रस्य संग्रामं देवसङिघैरनिर्जितः ॥२-९-१३॥
Slōka 14 / श्लोक १४
तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान् ।
रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः ॥२-९-१४॥
Slōka 15 / श्लोक १५
तत्राकरोन्महायुद्धं राजा दशरथ स्तदा ।
असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥२-९-१५॥
Slōka 16 / श्लोक १६
अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ।
तत्रपि विक्षतः शस्रैः पतिस्ते रक्षितस्त्वया ॥२-९-१६॥
Slōka 17 / श्लोक १७
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ।
सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥२-९-१७॥
Slōka 18 / श्लोक १८
गृह्णीयामिति तत्तन तधेत्युक्तं महात्मना ।
अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ॥२-९-१८॥
Slōka 19 / श्लोक १९
कथैषा तव तु स्नेहान्मनसा धार्यते मया ।
रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥२-९-१९॥
Slōka 20 / श्लोक २०
तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।
प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥२-९-२०॥
Slōka 21 / श्लोक २१
चतुर्दश हि वर्षाणिरामे प्रव्राजिते वनम् ।
प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥२-९-२१॥
Slōka 22 / श्लोक २२
क्रोधागारं प्रविश्याद्य कृद्द्धेवाश्वपतेः सुते ।
शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥२-९-२२॥
Slōka 23 / श्लोक २३
मास्मैनं प्रत्युदीक्षेथा माचैन मभिभाषथाः ।
रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥२-९-२३॥
Slōka 24 / श्लोक २४
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।
त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥२-९-२४॥
Slōka 25 / श्लोक २५
न त्वां क्रोधयितुं शक्तोन क्रुद्धां प्रत्युदीक्षितुम्।
तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥२-९-२५॥
Slōka 26 / श्लोक २६
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।
मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ॥२-९-२६॥
Slōka 27 / श्लोक २७
मणिमुक्तं सुवर्णानि रत्नानि विविधानि च ।
दद्याद्धशरथो राजा मा स्म तेषु मनः कृथाः ॥२-९-२७॥
Slōka 28 / श्लोक २८
यौ तौ दैवासुरे युद्धे वरौ द्शरथोऽददात् ।
तौ स्मारय महाभागे सोऽर्थो मात्वामतिक्रमेत् ॥२-९-२८॥
Slōka 29 / श्लोक २९
यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।
व्यवस्थाप्य महाराजं तमिमं वृणुया वरम् ॥२-९-२९॥
Slōka 30 / श्लोक ३०
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।
भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ ॥२-९-३०॥
Slōka 31 / श्लोक ३१
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वन्म् ।
रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥२-९-३१॥
Slōka 32 / श्लोक ३२
रामप्रव्राजनं चैव देवि याचस्व तं वरम् ।
एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥२-९-३२॥
Slōka 33 / श्लोक ३३
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ।
भरतश्च हतामित्रस्तव राजा भविष्यति ॥२-९-३३॥
Slōka 34 / श्लोक ३४
येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।
तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ॥२-९-३४॥
Slōka 35 / श्लोक ३५
सुगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।
प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥२-९-३५॥
Slōka 36 / श्लोक ३६
रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय ।
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥२-९-३६॥
Slōka 37 / श्लोक ३७
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।
सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ।कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥२-९-३७॥
Slōka 38 / श्लोक ३८
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ह्ठभिधायिनीम् ।
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिर्णये ॥२-९-३८॥
Slōka 39 / श्लोक ३९
त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥२-९-३९॥
Slōka 40 / श्लोक ४०
नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम् ।
सन्ति दुःसंस्थिताः कुब्जा वक्राः परमदारुणाः ॥२-९-४०॥
Slōka 41 / श्लोक ४१
त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।
उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात्समुन्नतम् ॥२-९-४१॥
Slōka 42 / श्लोक ४२
अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।
परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥२-९-४२॥
Slōka 43 / श्लोक ४३
विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे ।
जघनं तव निर्घुष्टं रशनादामशोभितम् ॥२-९-४३॥
Slōka 44 / श्लोक ४४
जङघे भ्^इशमुपन्यस्ते पादौ चाप्यायतावुभौ ।
त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ।अग्रतो मम गच्छन्ती राजहंसेव भाससे॥२-९-४४॥
Slōka 45 / श्लोक ४५
आसन्याः शम्बरे मायाः सहस्रमसुराधिपे ॥२-९-४५॥
Slōka 46 / श्लोक ४६
सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।
तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ॥२-९-४६॥
Slōka 47 / श्लोक ४७
मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ।
अत्रते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ॥२-९-४७॥
Slōka 48 / श्लोक ४८
अभिषिक्ते च भरते राघवे च वनं गते ।
जात्येन च सुवर्णेन सुविष्टप्तेन मन्थरे ॥२-९-४८॥
Slōka 49 / श्लोक ४९
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ।
मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥२-९-४९॥
Slōka 50 / श्लोक ५०
कारयिष्यामि ते कुब्जे शुभान्यभरणानि च।
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥२-९-५०॥
Slōka 51 / श्लोक ५१
चंद्रमाह्वयमानेन मुखेनाप्रतिमानना।
गमिष्यसि गतिं मुख्यांगर्वयन्ती द्विषज्जने ॥२-९-५१॥
Slōka 52 / श्लोक ५२
तवापि कुब्जायाः सर्वाभरणभूषिताः ।
पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥२-९-५२॥
Slōka 53 / श्लोक ५३
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।
शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥२-९-५३॥
Slōka 54 / श्लोक ५४
गतोदके सेतुबन्दो न कल्याणि विधीयते ।
उत्तिष्ठ कुरु कल्याणं राजानमसुदर्शय॥२-९-५४॥
Slōka 55 / श्लोक ५५
तथा प्रोत्साहिता देवी गता मन्थरया सह ।
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥२-९-५५॥
Slōka 56 / श्लोक ५६
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।
अवमुच्य वराराणि शुभान्याभरणानि च ॥२-९-५६॥
Slōka 57 / श्लोक ५७
ततो हेमोपमा तत्र कुब्जावाक्यवशंगता ।
संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥२-९-५७॥
Slōka 58 / श्लोक ५८
इह वा मां मृतां कुब्जे णृपायावेदयिष्यसि ।
वनं तु राघवे प्राप्तेभरतः प्राप्स्यति क्षितिम्॥२-९-५८॥
Slōka 59 / श्लोक ५९
न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥२-९-५९॥
Slōka 60 / श्लोक ६०
अथो पुनस्तां महिषीं महीक्षितो ।
वचोभिरत्यर्थ महापराक्रमैः ।उवाच कुब्जा भरतस्य मातरं ।हितं वचो राममुपेत्य चाहितम् ॥२-९-६०॥
Slōka 61 / श्लोक ६१
प्रपत्स्यते राज्यमिदं हि राघवो ।
यदि ध्रुवं त्वं स सुता च तप्स्यसे ।अतो हि कल्याणि यतस्व तत्तथा ।यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥२-९-६१॥
Slōka 62 / श्लोक ६२
तथातिविद्धा महिषि तु कुब्जया ।
समाहता वागिषुभिर्मुहुर्मुहुः ।विधाय हस्तौ हृदयेऽतिविस्मिता ।श्शंस कुब्जां कुपिता पुनः पुनः ॥२-९-६२॥
Slōka 63 / श्लोक ६३
यमस्य वा मां विषयं गतामितो ।
निशाम्य कुब्जे प्रतिवेदयिष्यसि ।वनं गते वा सुचिराय राघवे ।समृद्धकामो भरतो भविष्यति ॥२-९-६३॥
Slōka 64 / श्लोक ६४
अहं हि वै नास्तरणानि न स्रजो ।
न चन्दनं नाञ्जनपानभोजनम् ।न किंचिदिच्छामि न चेह जीवितं ।न चेदितो गच्छति राघवो वनम् ॥२-९-६४॥
Slōka 65 / श्लोक ६५
अथैतदुक्त्वा वचनं सुदारुणं ।
न्धाय सर्वाभरणानि भामिनी ।असंवृतामास्तरणेन मेदिनीं ।तदाधिशिश्ये पतितेव किन्नरी ॥२-९-६५॥
Slōka 66 / श्लोक ६६
उदीर्णसंरम्भतमोवृतानना ।
तदावमुक्तोत्तममूल्यभूषणा ।नरेन्द्रपत्नी विमना बभूव सा ।तमोवृता द्यौरिव मग्नतारका ॥२-९-६६॥