Star (-) Watch (-)

Ramayana

युद्धकाण्डम्

Chapter 4 / सर्गः ४

Slōka 1 / श्लोक १

श्रुत्वा हनूमतो वाक्यम् यथावद् अनुपूर्वशः ।
ततो अब्रवीन् महातेजा रामः सत्य पराक्रमः ॥६-४-१॥।।

Slōka 2 / श्लोक २

याम् निवेदयसे लंकाम् पुरीम् भीमस्य रक्षसः ।
क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतद् ब्रवीमि ते ॥६-४-२॥।।

Slōka 3 / श्लोक ३

अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यम् दिवा करः ॥६-४-३॥।।

Slōka 4 / श्लोक ४

सीताम् गृत्वा तु तद्यातु क्वासौ यास्यति जीवितः ।
सीता श्रुत्वाभियानम् मे आशामेष्यति जीविते ॥६-४-४॥।।

Slōka 5 / श्लोक ५

जीवितान्तेऽ मृतम् स्पृष्ट्वा पीत्वा विषमिवातुरः ।
उत्तरा फल्गुनी हि अद्य श्वस् तु हस्तेन योक्ष्यते ॥६-४-५॥।।

Slōka 6 / श्लोक ६

अभिप्रयाम सुग्रीव सर्व अनीक समावृताः ।
निमित्तानि च धन्यानि यानि प्रादुर् भवन्ति मे ॥६-४-६॥।।

Slōka 7 / श्लोक ७

निहत्य रावणम् सीताम् आनयिष्यामि जानकीम् ।
उपरिष्टाद्द् हि नयनम् स्फुरमाणम् इदम् मम ॥६-४-७॥।।

Slōka 8 / श्लोक ८

विजयम् समनुप्राप्तम् शम्सति इव मनो रथम् ।
ततो वाबरराहेब कज्श्मणेन सुपूजितः ॥६-४-८॥।।

Slōka 9 / श्लोक ९

उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ।
अग्रे यातु बलस्य अस्य नीलो मार्गम् अवेक्षितुम् ॥६-४-९॥।।

Slōka 10 / श्लोक १०

वृतः शत सहस्रेण वानराणाम् तरस्विनाम् ।
पथा मधुमता च आशु सेनाम् सेना पते नय ॥६-४-१०॥।।

Slōka 11 / श्लोक ११

फल मूलवता नील शीत कानन वारिणा ।
दूषयेयुर् दुरात्मानः पथि मूल फल उदकम् ॥६-४-११॥।।

Slōka 12 / श्लोक १२

राक्षसाः परिरक्षेथास् तेभ्यस् त्वम् नित्यम् उद्यतः ।
निम्नेषु वन दुर्गेषु वनेषु च वन ओकसः ॥६-४-१२॥।।

Slōka 13 / श्लोक १३

अभिप्लुत्य अभिपश्येयुः परेषाम् निहतम् बलम् ।
यत्तु फल्गु बलम् किम्चित्तदत्रैवोपपद्यताम् ॥६-४-१३॥।।

Slōka 14 / श्लोक १४

एतद्धि कृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् ।
सागर ओघ निभम् भीमम् अग्र अनीकम् महाबलाः ॥६-४-१४॥।।

Slōka 15 / श्लोक १५

कपि सिम्हा प्रकर्षन्तु शतशो अथ सहस्रशः ।
गजः च गिरि सम्काशो गवयः च महाबलः ॥६-४-१५॥।।

Slōka 16 / श्लोक १६

गव अक्षः च अग्रतो यान्तु गवाम् दृप्ता इव ऋषभाः ।
यातु वानर वाहिन्या वानरः प्लवताम् पतिः ॥६-४-१६॥।।

Slōka 17 / श्लोक १७

पालयन् दक्षिणम् पार्श्वम् ऋषभो वानर ऋषभः ।
गन्ध हस्ती इव दुर्धर्षस् तरस्वी गन्ध मादनः ॥६-४-१७॥।।

Slōka 18 / श्लोक १८

यातु वानर वाहिन्याः सव्यम् पार्श्वम् अधिष्ठितः ।
यास्यामि बल मध्ये अहम् बल ओघम् अभिहर्षयन् ॥६-४-१८॥।।

Slōka 19 / श्लोक १९

अधिरुह्य हनूमन्तम् ऐरावतम् इव ईश्वरः ।
अन्गदेन एष सम्यातु लक्ष्मणः च अन्तक उपमः ॥६-४-१९॥।।

Slōka 20 / श्लोक २०

सार्वभौमेन भूत ईशो द्रविण अधिपतिस् यथा ।
जाम्बवामः च सुषेणः च वेग दर्शी च वानरः ॥६-४-२०॥।।

Slōka 21 / श्लोक २१

ऋक्ष राजो महासत्त्वः कुक्षिम् रक्षन्तु ते त्रयः ।
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ॥६-४-२१॥।।

Slōka 22 / श्लोक २२

व्यादिदेश महावीर्यान् वानरान् वानर Rषभः ।
ते वानर गणाः सर्वे समुत्पत्य युयुत्सवः ॥६-४-२२॥।।

Slōka 23 / श्लोक २३

गुहाभ्यः शिखरेभ्यः च आशु पुप्लुविरे तदा ।
ततो वानर राजेन लक्ष्मणेन च पूजितः ॥६-४-२३॥।।

Slōka 24 / श्लोक २४

जगाम रामो धर्म आत्मा ससैन्यो दक्षिणाम् दिशम् ।
शतैः शत सहस्रैः च कोटीभिर् अयुतैर् अपि ॥६-४-२४॥।।

Slōka 25 / श्लोक २५

वारणाभिः च हरिभिर् ययौ परिव्Rतस् तदा ।
तम् यान्तम् अनुयाति स्म महती हरि वाहिनी ॥६-४-२५॥।।

Slōka 26 / श्लोक २६

हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः ।
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-४-२६॥।।

Slōka 27 / श्लोक २७

क्ष्वेलन्तो निनदन्तः च जग्मुर् वै दक्षिणाम् दिशम् ।
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ॥६-४-२७॥।।

Slōka 28 / श्लोक २८

उद्वहन्तो महावृक्षान् मन्जरी पुन्ज धारिणः ।
अन्योन्यम् सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ॥६-४-२८॥।।

Slōka 29 / श्लोक २९

पतन्तः च उत्पतन्ति अन्ये पातयन्ति अपरे परान् ।
रावणो नो निहन्तव्यः सर्वे च रजनी चराः ॥६-४-२९॥।।

Slōka 30 / श्लोक ३०

इति गर्जन्ति हरयो राघवस्य समीपतः ।
पुरस्ताद् ऋषभ्हो वीरो नीलः कुमुद एव च ॥६-४-३०॥।।

Slōka 31 / श्लोक ३१

पथानम् शोधयन्ति स्म वानरैर् बहुभिः सह ।
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ॥६-४-३१॥।।

Slōka 32 / श्लोक ३२

बहुभिर् बलिभिर् भीमैर् व्Rताः शत्रु निबर्हणः ।
हरिः शत बलिर् वीरः कोटीभिर् दशभिर् वृतः ॥६-४-३२॥।।

Slōka 33 / श्लोक ३३

सर्वाम् एको हि अवष्टभ्य ररक्ष हरि वाहिनीम् ।
कोटी शत परीवारः केसरी पनसो गजः ॥६-४-३३॥।।

Slōka 34 / श्लोक ३४

अर्कः च अतिबलः पार्श्वम् एकम् तस्य अभिरक्षति ।
सुषेणो जाम्बवामः चैव ऋक्षैर् बहुभिर् आवृतः ॥६-४-३४॥।।

Slōka 35 / श्लोक ३५

सुग्रीवम् पुरतः कृत्वा जघनम् सम्ररक्षतुः ।
तेषाम् सेना पतिर् वीरो नीलो वानर पुम्गवः ॥६-४-३५॥।।

Slōka 36 / श्लोक ३६

सम्पतन् पतताम् श्रेष्ठस् तद् बलम् पर्यपालयत् ।
वलीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ॥६-४-३६॥।।

Slōka 37 / श्लोक ३७

सर्वतः च ययुर् वीरास् त्वरयन्तः प्लवम् गमान् ।
एवम् ते हरि शार्दूला गच्चन्तो बल दर्पिताः ॥६-४-३७॥।।

Slōka 38 / श्लोक ३८

अपश्यम्स् ते गिरि श्रेष्ठम् सह्यम् द्रुम लता युतम् ।
सागर ओघ निभम् भीमम् तद् वानर बलम् महत् ॥६-४-३८॥।।

Slōka 39 / श्लोक ३९

रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् ।
वर्जयन्नगराभ्याशाम्स्तथा जनपदानपि ॥६-४-३९॥।।

Slōka 40 / श्लोक ४०

सागरौघनिभम् भीमम् तद्वानरबलम् महत् ।
निह्ससर्प महाघोषम् भीम वेग इव अर्णवः ॥६-४-४०॥।।

Slōka 41 / श्लोक ४१

तस्य दाशरथेः पार्श्वे शूरास् ते कपि कुन्जराः ।
तूर्णम् आपुप्लुवुः सर्वे सद् अश्वा इव चोदिताः ॥६-४-४१॥।।

Slōka 42 / श्लोक ४२

कपिभ्याम् उह्यमानौ तौ शुशुभते नर ऋषभौ ।
महद्भ्याम् इव सम्स्पृष्टौ ग्राहाभ्याम् चन्द्र भास्करौ ॥६-४-४२॥।।

Slōka 43 / श्लोक ४३

ततो वानरराजेन लक्ष्मणेन सुपूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् ॥६-४-४३॥।।

Slōka 44 / श्लोक ४४

तम् अन्गद गतो रामम् लक्ष्मणः शुभया गिरा ।
उवाच प्रतिपूर्ण अर्थः स्म्Rतिमान् प्रतिभानवान् ॥६-४-४४॥।।

Slōka 45 / श्लोक ४५

हृताम् अवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् ।
समृद्ध अर्थः समृद्ध अर्थाम् अयोध्याम् प्रतियास्यसि ॥६-४-४५॥।।

Slōka 46 / श्लोक ४६

महान्ति च निमित्तानि दिवि भूमौ च राघव ।
शुभान्ति तव पश्यामि सर्वाणि एव अर्थ सिद्धये ॥६-४-४६॥।।

Slōka 47 / श्लोक ४७

अनु वाति शुभो वायुः सेनाम् मृदु हितः सुखः ।
पूर्ण वल्गु स्वराः च इमे प्रवदन्ति मृग द्विजाः ॥६-४-४७॥।।

Slōka 48 / श्लोक ४८

प्रसन्नाः च दिशः सर्वा विमलः च दिवा करः ।
उशना च प्रसन्न अर्चिर् अनु त्वाम् भार्गवो गतः ॥६-४-४८॥।।

Slōka 49 / श्लोक ४९

ब्रह्म राशिर् विशुद्धः च शुद्धाः च परम ऋषयः ।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् ॥६-४-४९॥।।

Slōka 50 / श्लोक ५०

पितामह वरो अस्माकम् इष्क्वाकूणाम् महात्मनाम् ।
त्रिशन्कुर् विमलो भाति राज ऋषिः सपुरोहितः ॥६-४-५०॥।।

Slōka 51 / श्लोक ५१

नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम् ।
विमले च प्रकाशेते विशाखे निरुपद्रवे ॥६-४-५१॥।।

Slōka 52 / श्लोक ५२

मूलम् मूलवता स्प्Rष्टम् धूप्यते धूम केतुना ।
नैरृतम् नैरृतानाम् च नक्षत्रम् अभिपीड्यते ॥६-४-५२॥।।

Slōka 53 / श्लोक ५३

काले काल गृहीतानाम् नकत्रम् ग्रह पीडितम् ।
सरम् च एतद् विनाशाय राक्षसानाम् उपस्थितम् ॥६-४-५३॥।।

Slōka 54 / श्लोक ५४

प्रसन्नाः सुरसाः च आपो वनानि फलवन्ति च ।
प्रवान्ति अभ्यधिकम् गन्धा यथा ऋतु कुसुमा द्रुमाः ॥६-४-५४॥।।

Slōka 55 / श्लोक ५५

व्यूढानि कपि सैन्यानि प्रकाशन्ते अधिकम् प्रभो ।
देवानाम् इव सैन्यानि सम्ग्रामे तारकामये ॥६-४-५५॥।।

Slōka 56 / श्लोक ५६

एवम् आर्य समीक्ष्य एतान् प्रीतो भवितुम् अर्हसि ।
इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् ॥६-४-५६॥।।

Slōka 57 / श्लोक ५७

अथ आव्Rत्य महीम् कृत्स्नाम् जगाम महती चमूः ।
ऋक्ष वानर शार्दूलैर् नख दम्ष्ट्र आयुधैर् वृता ॥६-४-५७॥।।

Slōka 58 / श्लोक ५८

कर अग्रैः चरण अग्रैः च वानरैर् उद्धतम् रजः ।
भीमम् अन्तर् दधे लोकम् निवार्य सवितुः प्रभाम् ॥६-४-५८॥।।

Slōka 59 / श्लोक ५९

सा स्म याति दिवा रात्रम् महती हरि वाहिनी ।
हृष्ट प्रमुदिता सेना सुग्रीवेण अभिरक्षिता ॥६-४-५९॥।।

Slōka 60 / श्लोक ६०

उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् ।
नदीस्रोताम्सि सर्वाणि सस्यन्दुर्विपरीतवत् ॥६-४-६०॥।।

Slōka 61 / श्लोक ६१

सराम्सि विमलाम्भाम्सि द्रुमाकीर्णाम्श्च पर्वतान् ।
समान् भूमिप्रदेशाम्श्च वनानि फलवन्ति च ॥६-४-६१॥।।

Slōka 62 / श्लोक ६२

मध्येन च समन्ताच्च वनानि फलवन्ति च ।
समावृत्य महीम् कृत्स्नाम् जगाम महती चमूः ॥६-४-६२॥।।

Slōka 63 / श्लोक ६३

ते हृष्टवदनाह् सर्वे जग्मुर्मारुतरम्हसः ।
हरयो राघवस्यार्थे समारोपितविक्रमाः ॥६-४-६३॥।।

Slōka 64 / श्लोक ६४

हर्षम् वीर्यम् बलोद्रेकाद्दर्शयन्तः परस्परम् ।
यौवनोत्सेकजाद्दर्पाद्विविधाम्श्चक्रुरध्वनि ॥६-४-६४॥।।

Slōka 65 / श्लोक ६५

तत्र केचिद्द्रुतम् जग्मुरुत्पेतुश्च तथापरे ।
केचित्किलकिलाम् चक्रुर्वानरा वनगोचराः ॥६-४-६५॥।।

Slōka 66 / श्लोक ६६

प्रास्फोटयम्श्च पुच्छानि सम्निजघ्नः पदान्यपि ।
भुजान्विक्षिप्य शैलाम्श्च द्रुमानन्ये बभञ्जरे ॥६-४-६६॥।।

Slōka 67 / श्लोक ६७

आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः ।
महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिते ॥६-४-६७॥।।

Slōka 68 / श्लोक ६८

ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ।
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥६-४-६८॥।।

Slōka 69 / श्लोक ६९

ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः ।
वानराणाम् सुघोराणाम् श्रीमत्परिवृता मही ॥६-४-६९॥।।

Slōka 70 / श्लोक ७०

सा स्म याति दिवारात्रम् महती हरिवाहिनी ।
प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः ॥६-४-७०॥।।

Slōka 71 / श्लोक ७१

वनरास् त्वरितम् यान्ति सर्वे युद्ध अभिनन्दनः ।
मुमोक्षयिषवः सीताम् मुहूर्तम् क्व अपि न आसत ॥६-४-७१॥।।

Slōka 72 / श्लोक ७२

ततः पादप सम्बाधम् नाना मृग समाकुलम् ।
सह्य पर्वतम् आसेदुर् मलयम् च मही धरम् ॥६-४-७२॥।।

Slōka 73 / श्लोक ७३

काननानि विचित्राणि नदी प्रस्रवणानि च ।
पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च ॥६-४-७३॥।।

Slōka 74 / श्लोक ७४

चम्पकाम्स् तिलकामः चूतान् अशोकान् सिन्दु वारकान् ।
तिनिशान् करवीरामः च तिमिशान् भन्जन्ति स्म प्लवम् गमाः ॥६-४-७४॥।।

Slōka 75 / श्लोक ७५

अशोकाम्श्च करञ्जाम्श्च प्लक्षन्य्ग्रोधपादपान् ।
जम्बूकामलकान्नागान् भजन्ति स्म प्लवङ्गमाः ॥६-४-७५॥।।

Slōka 76 / श्लोक ७६

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति ताम् ॥६-४-७६॥।।

Slōka 77 / श्लोक ७७

मारुतः सुखसम्स्पर्शोओ वाति चन्दनशीतलः ।
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥६-४-७७॥।।

Slōka 78 / श्लोक ७८

अधिकम् शैलराजस्तु धातुभिस्तु विभूसितः ।
धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घुट्टितः ॥६-४-७८॥।।

Slōka 79 / श्लोक ७९

सुमहद्वानरानीकम् चादयामास सर्वतः ।
गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥६-४-७९॥।।

Slōka 80 / श्लोक ८०

केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः ।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिता ॥६-४-८०॥।।

Slōka 81 / श्लोक ८१

चिरबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा ।
रञ्जकास्तिलकाश्चैव नागवृक्षश्च पुष्पिता ॥६-४-८१॥।।

Slōka 82 / श्लोक ८२

चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः ।
मुचुलिन्दार्जुनाश्चैव शिम्शपाः कुटजास्तथा ॥६-४-८२॥।।

Slōka 83 / श्लोक ८३

हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा ॥६-४-८३॥नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा ।
प्रीयमाणैः प्लवम्गैस्तु सर्वे पर्याकुलीकृताः ॥६-४-८४॥।।

Slōka 84 / श्लोक ८४

व्यास्तिस्मिन् गिरौ रम्याः पल्वलानि तथैव च ।
चक्रवाकानुचरिताः कारण्डवनिषेविताः ॥६-४-८५॥।।

Slōka 85 / श्लोक ८५

प्लवैः क्रौञ्चे सम्कीर्णा वराहमृगसेविताः ।
ऋक्षैस्तरक्षुभिः सिम्हैः शार्दूलैश्च भयावहैः ॥६-४-८६॥।।

Slōka 86 / श्लोक ८६

व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ।
पद्मेः सौगन्धिकैः पुल्लैः सेव्यमानाः समन्ततः ॥६-४-८७॥।।

Slōka 87 / श्लोक ८७

वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ।
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥६-४-८८॥।।

Slōka 88 / श्लोक ८८

स्नात्वा पीत्वोदकान्यत्र जले क्रीदन्ति वानराः ।
अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः ॥६-४-८९॥।।

Slōka 89 / श्लोक ८९

फलानि अमृत गन्धीनि मूलानि कुसुमानि च ।
बुभुजुर् वानरास् तत्र पादपानाम् बल उत्कटाः ॥६-४-९०॥।।

Slōka 90 / श्लोक ९०

द्रोण मात्र प्रमाणानि लम्बमानानि वानराः ।
ययुः पिबन्तो हृष्टास् ते मधूनि मधु पिन्गलाः ॥६-४-९१॥।।

Slōka 91 / श्लोक ९१

पादपान् अवभन्जन्तो विकर्षन्तस् तथा लताः ।
विधमन्तो गिरि वरान् प्रययुः प्लवग ऋषभाः ॥६-४-९२॥।।

Slōka 92 / श्लोक ९२

वृक्षेभ्यो अन्ये तु कपयो नर्दन्तो मधु दर्पिताः ।
अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्ति अपि च अपरे ॥६-४-९३॥।।

Slōka 93 / श्लोक ९३

बभूव वसुधा तैस् तु सम्पूर्णा हरि पुम्गवैः ।
यथा कमल केदारैः पक्वैर् इव वसुम् धरा ॥६-४-९४॥।।

Slōka 94 / श्लोक ९४

महाइन्द्रम् अथ सम्प्राप्य रामो राजीव लोचनः ।
अध्यारोहन् महाबाहुः शिखरम् द्रुम भूषितम् ॥६-४-९५॥।।

Slōka 95 / श्लोक ९५

ततः शिखरम् आरुह्य रामो दशरथ आत्मजः ।
कूर्म मीन समाकीर्णम् अपश्यत् सलिल आशयम् ॥६-४-९६॥।।

Slōka 96 / श्लोक ९६

ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् ।
आसेदुर् आनुपूर्व्येण समुद्रम् भीम निह्स्वनम् ॥६-४-९७॥।।

Slōka 97 / श्लोक ९७

अवरुह्य जगाम आशु वेला वनम् अनुत्तमम् ।
रामो रमयताम् श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥६-४-९८॥।।

Slōka 98 / श्लोक ९८

अथ धौत उपल तलाम् तोय ओघैः सहसा उत्थितैः ।
वेलाम् आसाद्य विपुलाम् रामो वचनम् अब्रवीत् ॥६-४-९९॥।।

Slōka 99 / श्लोक ९९

एते वयम् अनुप्राप्ताः सुग्रीव वरुण आलयम् ।
इह इदानीम् विचिन्ता सा या न पूर्वम् समुत्थिता ॥६-४-१००॥।।

Slōka 100 / श्लोक १००

अतः परम् अतीरो अयम् सागरः सरिताम् पति ।
न च अयम् अनुपायेन शक्यस् तरितुम् अर्णवः ॥६-४-१०१॥।।

Slōka 101 / श्लोक १०१

तद् इह एव निवेशो अस्तु मन्त्रः प्रस्तूयताम् इह ।
यथा इदम् वानर बलम् परम् पारम् अवाप्नुयात् ॥६-४-१०२॥।।

Slōka 102 / श्लोक १०२

इति इव स महाबाहुः सीता हरण कर्शितः ।
रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा ॥६-४-१०३॥।।

Slōka 103 / श्लोक १०३

सर्वाः सेना निवेश्यन्ताम् वेलायाम् हरिपुङ्गव ।
सम्प्राप्तो मन्त्र कालो नः सागरस्य इह लन्घने ॥६-४-१०४॥।।

Slōka 104 / श्लोक १०४

स्वाम् स्वाम् सेनाम् समुत्स्Rज्य मा च कश्चित् कुतो व्रजेत् ।
गच्चन्तु वानराः शूरा ज्ञेयम् चन्नम् भयम् च नः ॥६-४-१०५॥।।

Slōka 105 / श्लोक १०५

रामस्य वचनम् श्रुत्वा सुग्रीवः सह लक्ष्मणः ।
सेनाम् न्यवेशयत् तीरे सागरस्य द्रुम आयुते ॥६-४-१०६॥।।

Slōka 106 / श्लोक १०६

विरराज समीपस्थम् सागरस्य तु तद् बलम् ।
मधु पाण्डु जलः श्रीमान् द्वितीय इव सागरः ॥६-४-१०७॥।।

Slōka 107 / श्लोक १०७

वेला वनम् उपागम्य ततस् ते हरि पुम्गवाः ।
विनिविष्टाः परम् पारम् कान्क्षमाणा महाउदधेः ॥६-४-१०८॥।।

Slōka 108 / श्लोक १०८

तेषाम् निविशमानानाम् सैन्यसम्नाहनिःस्वनः ।
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥६-४-१०९॥।।

Slōka 109 / श्लोक १०९

सा महाअर्णवम् आसाद्य ह्Rष्टा वानर वाहिनी ।
त्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥६-४-११०॥।।

Slōka 110 / श्लोक ११०

सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।
वायु वेग समाधूतम् पश्यमाना महाअर्णवम् ॥६-४-१११॥।।

Slōka 111 / श्लोक १११

दूर पारम् असम्बाधम् रक्षो गण निषेवितम् ।
पश्यन्तो वरुण आवासम् निषेदुर् हरि यूथपाः ॥६-४-११२॥।।

Slōka 112 / श्लोक ११२

चण्ड नक्र ग्रहम् घोरम् क्षपा आदौ दिवस क्षये ।
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥६-४-११३॥।।

Slōka 113 / श्लोक ११३

चन्द्र उदये समाधूतम् प्रतिचन्द्र समाकुलम् ।
चण्ड अनिल महाग्राहैः कीर्णम् तिमि तिमिम्गिलैः ॥६-४-११४॥।।

Slōka 114 / श्लोक ११४

दीप्त भोगैर् इव आक्रीर्णम् भुजम्गैर् वरुण आलयम् ।
अवगाढम् महासत्तैर् नाना शैल समाकुलम् ॥६-४-११५॥।।

Slōka 115 / श्लोक ११५

सुदुर्गम् द्रुगम् अमार्गम् तम् अगाधम् असुर आलयम् ।
मकरैर् नाग भोगैः च विगाढा वात लोहिताः ॥६-४-११६॥।।

Slōka 116 / श्लोक ११६

उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः ।
अग्नि चूर्णम् इव आविद्धम् भास्कर अम्बु मनो रगम् ॥६-४-११७॥।।

Slōka 117 / श्लोक ११७

सुर अरि विषयम् घोरम् पाताल विषमम् सदा ।
।।

Slōka 118 / श्लोक ११८

सागरम् च अम्बर प्रख्यम् अम्बरम् सागर उपमम् ।
सागरम् च अम्बरम् च इति निर्विशेषम् अदृश्यत ॥६-४-११८॥।।

Slōka 119 / श्लोक ११९

ताद्Rग् रूपे स्म द्Rश्येते तारा रत्न समाकुले ।
सम्पृक्तम् नभसा हि अम्भः सम्प्Rक्तम् च नभो अम्भसा ॥६-४-११९॥।।

Slōka 120 / श्लोक १२०

समुत्पतित मेघस्य वीच्चि माला आकुलस्य च ।
विशेषो न द्वयोर् आसीत् सागरस्य अम्बरस्य च ॥६-४-१२०॥।।

Slōka 121 / श्लोक १२१

ऊर्मयः सिन्धु राजस्य महाभेर्य इव आहवे ।
रत्न ओघ जल सम्नादम् विषक्तम् इव वायुना ॥६-४-१२२॥।।

Slōka 122 / श्लोक १२२

उत्पतन्तम् इव क्रुद्धम् यादो गण समाकुलम् ।
ददृशुस् ते महात्मानो वात आहत जल आशयम् ॥६-४-१२३॥।।

Slōka 123 / श्लोक १२३

अनिल उद्धूतम् आकाशे प्रवल्गतम् इव ऊर्मिभिः ।
ततो विस्मयामापन्ना हरयो ददृशुः स्थिताः ॥६-४-१२४॥