Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 88 / सर्गः ८८

Slōka 1 / श्लोक १

तां कथामिलसम्बद्धां रामेण समुदीरिताम् ।
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ।। ७.८८.१ ॥

Slōka 2 / श्लोक २

तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ।। ७.८८.२ ॥

Slōka 3 / श्लोक ३

कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।
पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ।। ७.८८.३ ॥

Slōka 4 / श्लोक ४

तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।
कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ।। ७.८८.४ ॥

Slōka 5 / श्लोक ५

तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।
ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ।। ७.८८.५ ॥

Slōka 6 / श्लोक ६

तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी ।
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ।। ७.८८.६ ॥

Slōka 7 / श्लोक ७

वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।
पर्वताभोगविवरे तस्मिन्रेमे इला तदा ।। ७.८८.७ ॥

Slōka 8 / श्लोक ८

अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।
सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ।। ७.८८.८ ॥

Slōka 9 / श्लोक ९

ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा ।
ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ।। ७.८८.९ ॥

Slōka 10 / श्लोक १०

तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।
यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ।। ७.८८.१० ॥

Slōka 11 / श्लोक ११

सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।
सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ।। ७.८८.११ ॥

Slōka 12 / श्लोक १२

बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।
नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ।। ७.८८.१२ ॥

Slōka 13 / श्लोक १३

इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।
चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ।। ७.८८.१३ ॥

Slōka 14 / श्लोक १४

न देवीषु न नागीषु नासुरीष्वप्सरःसु च ।
दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ।। ७.८८.१४ ॥

Slōka 15 / श्लोक १५

सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।
इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ।। ७.८८.१५ ॥

Slōka 16 / श्लोक १६

आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।
शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ।। ७.८८.१६ ॥

Slōka 17 / श्लोक १७

स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।
किमर्थमागता चैव सर्वमाख्यात मा चिरम् ।। ७.८८.१७ ॥

Slōka 18 / श्लोक १८

शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।
श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ।। ७.८८.१८ ॥

Slōka 19 / श्लोक १९

अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।
अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ।। ७.८८.१९ ॥

Slōka 20 / श्लोक २०

तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।
विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ।। ७.८८.२० ॥

Slōka 21 / श्लोक २१

सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ।। ७.८८.२१ ॥

Slōka 22 / श्लोक २२

अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ ।
आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ।। ७.८८.२२ ॥

Slōka 23 / श्लोक २३

मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।
स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ।। ७.८८.२३ ॥

Slōka 24 / श्लोक २४

ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः ।
उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ।। ७.८८.२४ ।।