बालकाण्डम्
Chapter 72 / सर्गः ७२
Slōka 1 / श्लोक १
तम् उक्तवंतम् वैदेहम् विश्वामित्रो महामुनिः ।
उवाच वचनम् वीरम् वसिष्ठ सहितो नृपम् ॥१-७२-१॥
Slōka 2 / श्लोक २
अचिंत्यानि अप्रमेयाणि कुलानि नरपुंगव ।
इक्ष्वाकूणाम् विदेहानाम् न एषाम् तुल्यो अस्ति कश्चन ॥१-७२-२॥
Slōka 3 / श्लोक ३
सदृशो धर्म संबन्धः सदृशो रूप संपदा ।
राम लक्ष्मणयो राजन् सीता च ऊर्मिलया सह ॥१-७२-३॥
Slōka 4 / श्लोक ४
वक्तव्यम् च नर श्रेष्ठ श्रूयताम् वचनम् मम ।
भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ॥१-७२-४॥
Slōka 5 / श्लोक ५
अस्य धर्मात्मनो राजन् रूपेण अप्रतिमम् भुवि ।
सुता द्वयम् नरश्रेष्ठ पत्नि अर्थम् वरयामहे ॥१-७२-५॥
Slōka 6 / श्लोक ६
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।
वरयेम सुते राजन् तयोः अर्थे महात्मनोः ॥१-७२-६॥
Slōka 7 / श्लोक ७
पुत्रा दशरथस्य इमे रूप यौवन शालिनः ।
लोक पाल समाः सर्वे देव तुल्य पराक्रमाः ॥१-७२-७॥
Slōka 8 / श्लोक ८
उभयोः अपि राजेन्द्र संबन्धेन अनुबध्यताम् ।
इक्ष्वाकु कुलम् अव्यग्रम् भवतः पुण्य कर्मणः ॥१-७२-८॥
Slōka 9 / श्लोक ९
विश्वामित्र वचः श्रुत्वा वसिष्ठस्य मते तदा ।
जनकः प्रांजलिः वाक्यम् उवाच मुनिपुंगवौ ॥१-७२-९॥
Slōka 10 / श्लोक १०
कुलम् धन्यम् इदम् मन्ये येषाम् तौ मुनिपुंगवौ ।
सदृशम् कुल संबन्धम् यत् आज्ञापयथः स्वयम् ॥१-७२-१०॥
Slōka 11 / श्लोक ११
एवम् भवतु भद्रम् वः कुशध्वज सुते इमे ।
पत्न्यौ भजेताम् सहितौ शत्रुघ्न भरतौ उभौ ॥१-७२-११॥
Slōka 12 / श्लोक १२
एक अह्ना राज पुत्रीणाम् चतसॄणाम् महामुने ।
पाणीन् गृह्णन्तु चत्वारो राज पुत्रा महाबलाः ॥१-७२-१२॥
Slōka 13 / श्लोक १३
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्याम् मनीषिणः ।
वैवाहिकम् प्रशंसन्ति भगो यत्र प्रजापतिः ॥१-७२-१३॥
Slōka 14 / श्लोक १४
एवम् उक्त्वा वचः सौम्यम् प्रत्युत्थाय कृतांजलिः ।
उभौ मुनि वरौ राजा जनको वाक्यम् अब्रवीत् ॥१-७२-१४॥
Slōka 15 / श्लोक १५
परो धर्मः कृतो मह्यम् शिष्यो अस्मि भवतोः सदा ।
इमानि आसन मुख्यानि आस्यताम् मुनिपुंगवौ ॥१-७२-१५॥
Slōka 16 / श्लोक १६
यथा दशरथस्य इयम् तथा अयोध्या पुरी मम ।
प्रभुत्वे न अस्ति सन्देहो यथा अर्हम् कर्तुम् अर्हथः ॥१-७२-१६॥
Slōka 17 / श्लोक १७
तथा ब्रुवति वैदेहे जनके रघु नंदनः ।
राजा दशरथो हृष्टः प्रत्युवाच मही पतिम् ॥१-७२-१७॥
Slōka 18 / श्लोक १८
युवाम् असंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ ।
ऋषयो राज संघाः च भवद्भ्याम् अभिपूजिताः ॥१-७२-१८॥
Slōka 19 / श्लोक १९
स्वस्ति प्राप्नुहि भद्रम् ते गमिष्यामः स्वम् आलयम् ।
श्राद्ध कर्माणि विधिवत् विधास्य इति च अब्रवीत् ॥१-७२-१९॥
Slōka 20 / श्लोक २०
तम् आपृष्ट्वा नर पतिम् राजा दशरथः तदा ।
मुनीन्द्रौ तौ पुरस्कृत्य जगाम आशु महायशाः ॥१-७२-२०॥
Slōka 21 / श्लोक २१
स गत्वा निलयम् राजा श्राद्धम् कृत्वा विधानतः ।
प्रभाते काल्यम् उत्थाय चक्रे गो दानम् उत्तमम् ॥१-७२-२१॥
Slōka 22 / श्लोक २२
गवाम् शत सहस्रम् च ब्राह्मणेभ्यो नराधिपः ।
एक एकशो ददौ राजा पुत्रान् उद्धिश्य धर्मतः ॥१-७२-२२॥
Slōka 23 / श्लोक २३
सुवर्ण शृंगयः संपन्नाः स वत्साः काम्स्य दोहनाः ।
गवाम् शत सहस्राणि चत्वारि पुरुष ऋषभः ॥१-७२-२३॥
Slōka 24 / श्लोक २४
वित्तम् अन्यत् च सु बहु द्विजेभ्यो रघु नंदनः ।
ददौ गो दानम् उद्दिश्य पुत्राणाम् पुत्र वत्सलः ॥१-७२-२४॥
Slōka 25 / श्लोक २५
स सुतैः कृत गो दानैः वृतः सः नृपतिः तदा ।
लोक पालैः इव आभाति वृतः सौम्यः प्रजापतिः ॥१-७२-२५॥