Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 117 / सर्गः ११७

Slōka 1 / श्लोक १

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ २.११७.१॥

Slōka 2 / श्लोक २

इह मे भरतो दृष्टो मातरश्च सनागरा: ।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ॥ २.११७.२॥

Slōka 3 / श्लोक ३

स्कन्धावारनिवेशेन तेन तस्य महात्मन: ।
हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ॥ २.११७.३॥

Slōka 4 / श्लोक ४

तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ॥ २.११७.४॥

Slōka 5 / श्लोक ५

सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: ।
तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ॥ २.११७.५॥

Slōka 6 / श्लोक ६

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ २.११७.६॥

Slōka 7 / श्लोक ७

पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।
सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ॥ २.११७.७॥

Slōka 8 / श्लोक ८

अनसूयां महाभागां तापसीं धर्मचारिणीम् ।
प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: ।रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ २.११७.८॥

Slōka 9 / श्लोक ९

दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।
यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ २.११७.९॥

Slōka 10 / श्लोक १०

उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।
दशवर्षसहस्राणि यया तप्तं महत्तप: ॥ २.११७.१०॥

Slōka 11 / श्लोक ११

अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: ।
देवकार्यनिमित्तं च यया संत्वरमाणया ।दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ॥ २.११७.११॥

Slōka 12 / श्लोक १२

तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।
अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।अनसूयेति या लोके कर्मभि: ख्यातिमागता ॥ २.११७.१२॥

Slōka 13 / श्लोक १३

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: ।
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ २.११७.१३॥

Slōka 14 / श्लोक १४

राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।
श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ॥ २.११७.१४॥

Slōka 15 / श्लोक १५

सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: ।
तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ २.११७.१५॥

Slōka 16 / श्लोक १६

शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।
सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ २.११७.१६॥

Slōka 17 / श्लोक १७

तां तु सीता महाभागामनसूयां पतिव्रताम् ।
अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ २.११७.१७॥

Slōka 18 / श्लोक १८

अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २.११७.१८॥

Slōka 19 / श्लोक १९

तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २.११७.१९॥

Slōka 20 / श्लोक २०

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २.११७.२०॥

Slōka 21 / श्लोक २१

नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ॥ २.११७.२१॥

Slōka 22 / श्लोक २२

दु:शील: कामवृत्तो वा धनैवा परिवर्जित: ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ॥ २.११७.२२॥

Slōka 23 / श्लोक २३

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।
सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ॥ २.११७.२३॥

Slōka 24 / श्लोक २४

न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: ।
कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ॥ २.११७.२४॥

Slōka 25 / श्लोक २५

प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।
अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ॥ २.११७.२५॥

Slōka 26 / श्लोक २६

त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: ।
स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २.११७.२६॥

Slōka 27 / श्लोक २७

तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।
भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ॥ २.११७.२७ ॥