Star (-) Watch (-)

Ramayana

अरण्यकाण्डम्

Chapter 7 / सर्गः ७

Slōka 1 / श्लोक १

रामः तु सहितः भ्रात्रा सीतया च परंतपः ।
सुतीक्ष्णस्य आश्रम पदम् जगाम सह तैः द्विजैः ॥३-७-१॥

Slōka 2 / श्लोक २

रामः तु सहितः भ्रात्रा सीतया च परंतपः ।
सुतीक्ष्णस्य आश्रम पदम् जगाम सह तैः द्विजैः ॥३-७-१॥

Slōka 3 / श्लोक ३

स गत्वा दीर्घम् अध्वानम् नदीः तीर्त्वा बहु उदकाः ।
ददर्श विमलम् शैलम् महा मेरुम् इव उन्नतम् ॥३-७-२॥

Slōka 4 / श्लोक ४

ततः तद् इक्ष्वाकु वरौ सततम् विविधैः द्रुमैः ।
काननम् तौ विविशतुः सीतया सह राघवौ ॥३-७-३॥

Slōka 5 / श्लोक ५

प्रविष्टः तु वनम् घोरम् बहु पुष्प फल द्रुमम् ।
ददर्श आश्रमम् एकान्ते चीर माला परिष्कृतम् ॥३-७-४॥

Slōka 6 / श्लोक ६

तत्र तापसम् आसीनम् मल पङ्कज  धारिणम् ।
रामः सुतीक्ष्णम् विधिवत् तपोधनम् अभाषत  ॥३-७-५॥

Slōka 7 / श्लोक ७

रामोऽहम् अस्मि भगवन् भवन्तम् द्रष्टुम् आगतः ।
तत् मा अभिवद धर्मज्ञ महर्षे सत्य विक्रम ॥३-७-६॥

Slōka 8 / श्लोक ८

स निरीक्ष्य ततः धीरो रामम् धर्मभृताम् वरम् ।
समाश्लिष्य च बाहुभ्याम् इदम् वचनम् अब्रवीत्  ॥३-७-७॥

Slōka 9 / श्लोक ९

स्वागतम् ते रघु श्रेष्ठ राम सत्यभृताम् वर ।
आश्रमओ अयम् त्वया आक्रान्तः सनाथ इव सांप्रतम् ॥३-७-८॥

Slōka 10 / श्लोक १०

प्रतीक्षमाणः त्वाम् एव न आरोहे अहम् महायशः ।
देव लोकम् इतो वीर देहम् त्यक्त्वा महीतले ॥३-७-९॥

Slōka 11 / श्लोक ११

चित्रकूटम् उपादाय राज्य भ्रष्टो असि मे  श्रुतः ।
इह उपयातः काकुत्स्थः देवराजः शततक्रतुः  ॥३-७-१०॥

Slōka 12 / श्लोक १२

उपागम्य च मे देवो महादेवः सुर ईश्वरः ।
सर्वान् लोकान् जितान् आह मम पुण्येन कर्मणा ॥३-७-११॥

Slōka 13 / श्लोक १३

तेषु देव ऋषि जुष्टेषु जितेशु तपसा मया  ।
मत् प्रसादात् स भार्यः त्वम् विहरस्व स लक्ष्मणः ॥३-७-१२॥

Slōka 14 / श्लोक १४

तम् उग्र तपसम् दीप्तम् महर्षिम् सत्य वादिनम् ।
प्रत्युवाच आत्मवान् रामो ब्रह्माणम् इव वासवः ॥३-७-१३॥

Slōka 15 / श्लोक १५

अहम् एव आहरिष्यामि स्वयम् लोकान् महामुने ।
आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३-७-१४॥

Slōka 16 / श्लोक १६

भवान् सर्वत्र कुशलः सर्वभूत हिते रतः ।
आख्यातः शरभंगेन गौतमेन महात्मना ॥३-७-१५॥

Slōka 17 / श्लोक १७

एवम् उक्तः तु रामेण महर्षिः लोक विश्रुतः ।
अब्रवीत् मधुरम् वाक्यम् हर्षेण महता युतः ॥३-७-१६॥

Slōka 18 / श्लोक १८

अयम् एव आश्रमो राम गुणवान् रम्यताम् इति ।
ऋषि संघ अनुचरितः सदा मूल फलैर् युतः ॥३-७-१७॥

Slōka 19 / श्लोक १९

इमम् आश्रमम् आगम्य मृग संघा महीयसः ।
अहत्वा प्रतिगच्छन्ति लोभयित्वा अकुतोभयाः ॥३-७-१८॥

Slōka 20 / श्लोक २०

ना अन्यो दोषो भवेत् अत्र मृगेभ्यः अन्यत्र विद्धि वै ।
तत्  श्रुत्वा वचनम् तस्य महर्षेः लक्ष्मणाग्रजः ॥३-७-१९॥

Slōka 21 / श्लोक २१

उवाच वचनम् धीरो विगृह्य स शरम् धनुः ।
तान् अहम् सुमहाभाग मृगसंघान् समागतान् ॥३-७-२०॥

Slōka 22 / श्लोक २२

हन्याम् निशित धारेण  शरेण नत पर्वणा ।
भवान् तत्र अभिषज्येत किम् स्यात् कृच्छ्र तरम् ततः ॥३-७-२१॥

Slōka 23 / श्लोक २३

एतस्मिन् आश्रमे वासम् चिरम् तु न समर्थये ।
तम् एवम् उक्त्वा उपरमम् रामः संध्याम् उपागमत् ॥३-७-२२॥

Slōka 24 / श्लोक २४

अन्वास्य पश्चिमाम् संध्याम् तत्र वासम् अकल्पयत् ।
सुतीक्ष्णस्य आश्रमे रम्ये सीतया लक्ष्मनेन च ॥३-७-२३॥

Slōka 25 / श्लोक २५

ततः  शुभम् तापस अन्नम्स्वयम् सुतीक्ष्णः पुरुषर्षभाभ्याम् ।
ताभ्याम् सुसत्कृत्य ददौ महात्मासंध्या निवृत्तौ रजनीम् समीक्ष्य ॥३-७-२४॥