Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 49 / सर्गः ४९

Slōka 1 / श्लोक १

सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः ।
प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ।। ७.४९.१ ॥

Slōka 2 / श्लोक २

अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।
सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ।। ७.४९.२ ॥

Slōka 3 / श्लोक ३

अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।
पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ।। ७.४९.३ ॥

Slōka 4 / श्लोक ४

भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् ।
नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ।। ७.४९.४ ॥

Slōka 5 / श्लोक ५

दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।
अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ।। ७.४९.५ ॥

Slōka 6 / श्लोक ६

न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् ।
आश्रमस्याविदूरे च त्वामियं शरणं गता ।। ७.४९.६ ॥

Slōka 7 / श्लोक ७

त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ।
तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ।। ७.४९.७ ॥

Slōka 8 / श्लोक ८

तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।
तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ।। ७.४९.८ ॥

Slōka 9 / श्लोक ९

अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् ।
ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ।। ७.४९.९ ।।

Slōka 10 / श्लोक १०

तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।
उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ।। ७.४९.१० ॥

Slōka 11 / श्लोक ११

स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ।। ७.४९.११ ॥

Slōka 12 / श्लोक १२

आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।
कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ।। ७.४९.१२ ॥

Slōka 13 / श्लोक १३

तव चैव महाभागे विदितं मम तत्त्वतः ।
सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ।। ७.४९.१३ ॥

Slōka 14 / श्लोक १४

अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।
विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ।। ७.४९.१४ ॥

Slōka 15 / श्लोक १५

आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ।
तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ।। ७.४९.१५ ॥

Slōka 16 / श्लोक १६

इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।
यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ।। ७.४९.१६ ॥

Slōka 17 / श्लोक १७

श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।
शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ।। ७.४९.१७ ॥

Slōka 18 / श्लोक १८

तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ।
। ७.४९.१८ ॥

Slōka 19 / श्लोक १९

तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।। ७.४९.१९ ॥

Slōka 20 / श्लोक २०

स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।
अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ।। ७.४९.२० ॥

Slōka 21 / श्लोक २१

तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ।। ७.४९.२१ ॥

Slōka 22 / श्लोक २२

स्नुषा दशरथस्यैषा जनकस्य सुता सती ।
अपापा पतिना त्यक्ता परिपाल्या मया सदा ।। ७.४९.२२ ॥

Slōka 23 / श्लोक २३

इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि ।
गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ।। ७.४९.२३ ॥

Slōka 24 / श्लोक २४

मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ।। ७.४९.२४ ।।