अरण्यकाण्डम्
Chapter 9 / सर्गः ९
Slōka 1 / श्लोक १
सुतीक्ष्णेन अभ्यनुज्ञातम् प्रस्थितम् रघु नन्दनम् ।
हृद्यया स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् ॥३-९-१॥
Slōka 2 / श्लोक २
अधर्मम् तु सुसूक्ष्मेण विधिना प्राप्यते महान् ।
निवृत्तेन च शक्यो अयम् व्यसनात् कामजाद् इह ॥३-९-२॥
Slōka 3 / श्लोक ३
त्रीणि एव व्यसनानि अत्र कामजानि भवन्ति उत ।
मिथ्या वाक्यम् तु परमम् तस्मात् गुरुतरा उभौ ॥३-९-३॥
Slōka 4 / श्लोक ४
पर दार अभिगमनम् विना वैरम् च रौद्रता ।
मिथ्या वाक्यम् न ते भूतम् न भविष्यति राघव ॥३-९-४॥
Slōka 5 / श्लोक ५
कुतो अभिलषणम् स्त्रीणाम् परेषाम् धर्म नाशनम् ।
तव नास्ति मनुष्येन्द्र न च आभूत् ते कदाचन ॥३-९-५॥
Slōka 6 / श्लोक ६
मनस्यपि तथा राम न च एतत् विद्यते क्वचित् ।
स्व दार निरतः च एव नित्यम् एव नृपात्मज ॥३-९-६॥
Slōka 7 / श्लोक ७
धर्मिष्टः सत्य सन्धः च पितुः निर्देश कारकः ।
त्वयि धर्मः च सत्यम् च त्वयि सर्वम् प्रतिष्टितम् ॥३-९-७॥
Slōka 8 / श्लोक ८
तच्च सर्वम् महाबाहो शक्यम् वोढुम् जितेइन्द्रियैः ।
तव वश्य इन्द्रियत्वम् च जानामि शुभदर्शन ॥३-९-८॥
Slōka 9 / श्लोक ९
तृतीयम् यद् इदम् रौद्रम् पर प्राण अभिहिंसनम् ।
निर्वैरम् क्रियते मोहात् तत् च ते समुपस्थितम् ॥३-९-९॥
Slōka 10 / श्लोक १०
प्रतिज्ञातः त्वया वीर दण्डकारण्य वासिनाम् ।
ऋषीणाम् रक्षणार्थाय वधः संयति रक्षसाम् ॥३-९-१०॥
Slōka 11 / श्लोक ११
एतन् निमित्तम् च वनम् दण्डका इति विश्रुतम् ।
प्रस्थितः त्वम् सह भ्रात्रा धृत बाण शराअसनः ॥३-९-११॥
Slōka 12 / श्लोक १२
ततः त्वाम् प्रस्थितम् दृष्ट्वा मम चिन्त आकुलम् मनः ।
त्वत् वृत्तम् चिन्तयन्त्या वै भवेत् निःश्रेयसम् हितम् ॥३-९-१२॥
Slōka 13 / श्लोक १३
न हि मे रोचते वीरः गमनम् दण्डकान् प्रति ।
कारणम् तत्र वक्ष्यामि वदन्त्याः श्रूयताम् मम ॥३-९-१३॥
Slōka 14 / श्लोक १४
त्वम् हि बाण धनुष्पाणिः भ्रात्रा सह वनम् गतः ।
दृष्ट्वा वन चरान् सर्वान् कच्चित् कुर्याः शर व्ययम् ॥३-९-१४॥
Slōka 15 / श्लोक १५
क्षत्रियाणाम् इह धनुर् हुताशस्य इन्धनानि च ।
समीपतः स्थितम् तेजो बलम् उच्छ्रयते भृशम् ॥३-९-१५॥
Slōka 16 / श्लोक १६
पुरा किल महाबाहो तपस्वी सत्य वाक् शुचिः ।
कस्मिन् चित् अभवत् पुण्ये वने रत मृग द्विजे ॥३-९-१६॥
Slōka 17 / श्लोक १७
तस्य एव तपसो विघ्नम् कर्तुम् इन्द्रः शचीपतिः ।
खड्ग पाणिः अथ आगच्छत् आश्रमम् भट रूप धृक् ॥३-९-१७॥
Slōka 18 / श्लोक १८
तस्मिन् तत् आश्रम पदे निहितः खड्ग उत्तमः ।
स न्यास विधिना दत्तः पुण्ये तपसि तिष्ठतः ॥३-९-१८॥
Slōka 19 / श्लोक १९
स तत् शस्त्रम् अनुप्राप्य न्यास रक्षण तत्परः ।
वने तु विचरति एव रक्षन् प्रत्ययम् आत्मनः ॥३-९-१९॥
Slōka 20 / श्लोक २०
यत्र गच्छति उपादातुम् मूलानि च फलानि च ।
न विना याति तम् खड्गम् न्यास रक्षण तत्परः ॥३-९-२०॥
Slōka 21 / श्लोक २१
नित्यम् शस्त्रम् परिवहन् क्रमेण स तपोधनः ।
चकार रौद्रीम् स्वाम् बुद्धिम् त्यक्त्वा तपसि निश्चयम् ॥३-९-२१॥
Slōka 22 / श्लोक २२
ततः स रौद्र अभिरतः प्रमत्तो अधर्म कर्षितः ।
तस्य शस्त्रस्य संवासात् जगाम नरकम् मुनिः ॥३-९-२२॥
Slōka 23 / श्लोक २३
एवम् एतत् पुरा वृत्तम् शस्त्र संयोग कारणम् ।
अग्नि संयोगवत् हेतुः शस्त्र संयोग उच्यते ॥३-९-२३॥
Slōka 24 / श्लोक २४
स्नेहात् च बहुमानात् च स्मारये त्वाम् न शिक्षये ।
न कथंचन सा कार्या गृहीत धनुषा त्वया ॥३-९-२४॥
Slōka 25 / श्लोक २५
बुद्धिः वैरम् विना हन्तुम् राक्षसान् दण्डक आश्रितान् ।
अपराधम् विना हन्तुम् लोको वीर न कामये ॥३-९-२५॥
Slōka 26 / श्लोक २६
क्षत्रियाणाम् तु वीराणाम् वनेषु नियतात्मनाम् ।
धनुषा कार्यम् एतावत् आर्तानाम् अभिरक्षणम् ॥३-९-२६॥
Slōka 27 / श्लोक २७
क्व च शस्त्रम् क्व च वनम् क्व च क्षात्रम् तपः क्व च ।
व्याविद्धम् इदम् अस्माभिः देश धर्मः तु पूज्यताम् ॥३-९-२७॥
Slōka 28 / श्लोक २८
तदार्य कलुषा बुद्धिः जायते शस्त्र सेवनात् ।
पुनर् गत्वात् तत् अयोध्यायाम् क्षत्र धर्मम् चरिष्यसि ॥३-९-२८॥
Slōka 29 / श्लोक २९
अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोः मम ।
यदि राज्यम् हि संन्यस्य भवेत् त्वम् निरतो मुनिः ॥३-९-२९॥
Slōka 30 / श्लोक ३०
धर्मात् अर्थः प्रभवति धर्मात् प्रभवते सुखम् ।
धर्मेण लभते सर्वम् धर्म सारम् इदम् जगत् ॥३-९-३०॥
Slōka 31 / श्लोक ३१
आत्मानम् नियमैः तैः तैः कर्षयित्वा प्रयत्नतः ।
प्राप्यते निपुणैः धर्मो न सुखात् लभते सुखम् ॥३-९-३१॥
Slōka 32 / श्लोक ३२
नित्यम् शुचि मतिः सौम्य चर धर्मम् तपो वने ।
सर्वम् हि विदितम् तुभ्यम् त्रैलोक्यम् अपि तत्त्वतः ॥३-९-३२॥
Slōka 33 / श्लोक ३३
स्त्री चापलात् एतत् उदाहृतम् मेधर्मम् च वक्तुम् तव कः समर्थः ।
विचार्य बुद्ध्या तु सह अनुजेनयत् रोचते तत् कुरु म अचिरेण ॥३-९-३३॥