सुन्दरकाण्डम्
Chapter 33 / सर्गः ३३
Slōka 1 / श्लोक १
सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।। ५.३३.१।।।।
Slōka 2 / श्लोक २
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः ।
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। ५.३३.२।।।।
Slōka 3 / श्लोक ३
कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। ५.३३.३।।।।
Slōka 4 / श्लोक ४
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ।। ५.३३.४।।।।
Slōka 5 / श्लोक ५
सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ।। ५.३३.५।।।।
Slōka 6 / श्लोक ६
का त्वं भवसि रुद्राणां मरुतां वा वरानने ।
वसूनां वा वरारोहे देवता प्रतिभासे मे ।। ५.३३.६।।।।
Slōka 7 / श्लोक ७
किन्नु चन्द्रमसा हीना पतिता विबुधालयात् ।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ।। ५.३३.७।।।।
Slōka 8 / श्लोक ८
का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने ।
। ५.३३.८।।।।
Slōka 9 / श्लोक ९
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ।
वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती ।। ५.३३.९।।।।
Slōka 10 / श्लोक १०
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ।
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।। ५.३३.१०।।।।
Slōka 11 / श्लोक ११
रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि ।
न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ।। ५.३३.११।।।।
Slōka 12 / श्लोक १२
व्यञ्जनानि च ते यानि लक्षणामनि च लक्षये ।
महिषी भूमिपालस्य राजकन्या ऽसि मे मता ।। ५.३३.१२।।।।
Slōka 13 / श्लोक १३
रावणेन जनस्थानाद् बलादपहृता यदि ।
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।। ५.३३.१३।।।।
Slōka 14 / श्लोक १४
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ।
तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।। ५.३३.१४।।।।
Slōka 15 / श्लोक १५
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ।
उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।। ५.३३.१५।।।।
Slōka 16 / श्लोक १६
पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः ।
स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।। ५.३३.१६।।।।
Slōka 17 / श्लोक १७
दुहिता जनकस्याहं वैदेहस्य महात्मनः ।
सीता च नाम नाम्ना ऽहं भार्या रामस्य धीमतः ।। ५.३३.१७।।।।
Slōka 18 / श्लोक १८
समा द्वादश तत्राहं राघवस्य निवेशने ।
भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।। ५.३३.१८।।।।
Slōka 19 / श्लोक १९
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ।
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।। ५.३३.१९।।।।
Slōka 20 / श्लोक २०
तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ।
कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ।। ५.३३.२०।।।।
Slōka 21 / श्लोक २१
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।। ५.३३.२१।।।।
Slōka 22 / श्लोक २२
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ।
तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।। ५.३३.२२।।।।
Slōka 23 / श्लोक २३
स राजा सत्यवाग् देव्या वरदानमनुस्मरन् ।
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।। ५.३३.२३।।।।
Slōka 24 / श्लोक २४
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ।
ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ।। ५.३३.२४।।।।
Slōka 25 / श्लोक २५
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् ।
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।। ५.३३.२५।।।।
Slōka 26 / श्लोक २६
दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् ।
अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ।। ५.३३.२६।।।।
Slōka 27 / श्लोक २७
स विहायोत्तरीयाणि महार्हाणि महायशाः ।
विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।। ५.३३.२७।।।।
Slōka 28 / श्लोक २८
सा ऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ।
न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते ।। ५.३३.२८।।।।
Slōka 29 / श्लोक २९
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।
पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः ।। ५.३३.२९।।।।
Slōka 30 / श्लोक ३०
त वयं भर्तुरादेशं बहुमान्य दृढव्रताः ।
प्रविष्टाः स्म पुरा ऽदृष्टं वन गम्भीरदर्शनम् ।। ५.३३.३०।।।।
Slōka 31 / श्लोक ३१
वसतो दणऽडकारण्ये तस्याहममितौजसः ।
रक्षसा ऽपहृता भार्या रावणेन दुरात्मना ।। ५.३३.३१।।।।
Slōka 32 / श्लोक ३२
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ।। ५.३३.३२।।