Star (-) Watch (-)

Ramayana

किष्किन्धाकाण्डम्डम्

Chapter 30 / सर्गः ३०

Slōka 1 / श्लोक १

Slōka 1

गुहाम् प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।
वर्ष रात्रे स्थितो रामः काम शोक अभिपीडितः ॥४-३०-१॥

Slōka 2 / श्लोक २

Slōka 2

पाण्डुरम् गगनम् दृष्ट्वा विमलम् चन्द्र मण्डलम् ।
शारदीम् रजनीम् चैव दृष्ट्वा ज्योत्स्न अनुलेपनाम् ॥४-३०-२॥

Slōka 3 / श्लोक ३

Slōka 3

काम वृत्तम् च सुग्रीवम् नष्टाम् च जनक आत्मजाम् ।
दृष्ट्वा कालम् अतीतम् च मुमोह परम आतुरः ॥४-३०-३॥

Slōka 4 / श्लोक ४

Slōka 4

स तु संज्ञाम् उपागम्य मुहूर्तात् मतिमान् नृपः ।
मनः स्थाम् अपि वैदेहीम् चिंतयामास राघवः ॥४-३०-४॥

Slōka 5 / श्लोक ५

Slōka 5

दृष्ट्वा च विमलम् व्योम गत विद्युत् बलाहकम् ।
सारस आरव संघुष्टम् विललाप आर्तया गिरा ॥४-३०-५॥

Slōka 6 / श्लोक ६

Slōka 6

आसीनः पर्वतस्य अग्रे हेम धातु विभूषिते ।
शारदम् गगनम् दृष्ट्वा जगाम मनसा प्रियाम् ॥४-३०-६॥

Slōka 7 / श्लोक ७

Slōka 7

सारस आरव संनादैः सारस आरव नादिनी ।
या आश्रमे रमते बाला सा अद्य मे रमते कथम् ॥४-३०-७॥

Slōka 8 / श्लोक ८

Slōka 8

पुष्पिताम् च आसनान् दृष्ट्वा कांचनान् इव निर्मलान् ।
कथम् सा रमते बाला पश्यंती माम् अपश्यती ॥४-३०-८॥

Slōka 9 / श्लोक ९

Slōka 9

या पुरा कलहंसानाम् स्वरेण कल भाषिणी ।
बुध्यते चारु सर्वांगी सा अद्य मे रमते कथम् ॥४-३०-९॥

Slōka 10 / श्लोक १०

Slōka 10

निःस्वनम् चक्रवाकानाम् निशम्य सहचारिणाम् ।
पुण्डरीकविशालाक्षी कथम् एषा भविष्यति ॥४-३०-१०॥

Slōka 11 / श्लोक ११

Slōka 11

सरांसि सरितो वापीः काननानि वनानि च ।
ताम् विना मृगशावाक्षीम् चरन् न अद्य सुखम् लभे ॥४-३०-११॥

Slōka 12 / श्लोक १२

Slōka 12

अपि ताम् मत् वियोगात् च सौकुमार्यात् च भामिनीम् ।
सुदूरम् पीडयेत् कामः शरत् गुण निरंतरः ॥४-३०-१२॥

Slōka 13 / श्लोक १३

Slōka 13

एवम् आदि नरश्रेष्ठो विललाप नृपात्मजः ।
विहंग इव सारंगः सलिलम् त्रिदशेश्वरात् ॥४-३०-१३॥

Slōka 14 / श्लोक १४

Slōka 14

ततः चंचूर्य रम्येषु फलार्थी गिरि सानुषु ।
ददर्श पर्युपावृत्तो लक्ष्मीवान् लक्ष्मणो अग्रजम् ॥४-३०-१४॥

Slōka 15 / श्लोक १५

Slōka 15

स चिन्तया दुस्सहया परीतम्विसंज्ञम् एकम् विजने मनस्वी ।
भ्रातुर् विषादात् त्वरितो अति दीनःसमीक्ष्य सौमित्रिः उवाच रामम् ॥४-३०-१५॥

Slōka 16 / श्लोक १६

Slōka 16

किम् आर्य कामस्य वशम् गतेनकिम् आत्म पौरुष्य पराभवेन ।
अयम् ह्रिया संह्रियते समाधिःकिम् अत्र योगेन निवर्तितेन ॥४-३०-१६॥

Slōka 17 / श्लोक १७

Slōka 17

क्रियाभियोगम् मनसः प्रसादम्समाधि योग अनुगतम् च कालम् ।
न जानकी मानव वंश नाथत्वया सनाथा सुलभा परेण ।न च अग्नि चूडाम् ज्वलिताम् उपेत्यन दह्यते वीर वरार्ह कश्चित् ॥४-३०-१७॥

Slōka 18 / श्लोक १८

Slōka 18

सलक्षणम् लक्ष्मणम् अप्रधृष्यम्स्वभावजम् वाक्यम् उवाच रामः ।
हितम् च पथ्यम् च नय प्रसक्तम्ससाम धर्मार्थ समाहितम् च ॥४-३०-१८॥

Slōka 19 / श्लोक १९

Slōka 19

निस्संशयम् कार्यम् अवेक्षितव्यम्क्रिया विशेषो अपि अनुवर्तितव्यः ।
न तु प्रवृद्धस्य दुरासदस्यकुमार वीर्यस्य फलम् च चिन्त्यम् ॥४-३०-१९॥

Slōka 20 / श्लोक २०

Slōka 20

अथ पद्म पलाश अक्षीम् मैथिलीम् अनुचिन्तयन् ।
उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता ॥४-३०-२०॥

Slōka 21 / श्लोक २१

Slōka 21

तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् ।
निर्वर्तयित्वा सस्यानि कृत कर्मा व्यवस्थितः ॥४-३०-२१॥

Slōka 22 / श्लोक २२

Slōka 22

दीर्घ गंभीर निर्घोषाः शैल द्रुम पुरोगमाः ।
विसृज्य सलिलम् मेघाः परिश्रांता नृप आत्मज ॥४-३०-२२॥

Slōka 23 / श्लोक २३

Slōka 23

नील उत्पल दल श्यामः श्यामी कृत्वा दिशो दश ।
विमदा इव मातंगाः शान्त वेगाः पयो धराः ॥४-३०-२३॥

Slōka 24 / श्लोक २४

Slōka 24

जल गर्भा महा वेगाः कुटज अर्जुन गंधिनः ।
चरित्वा विरताः सौम्य वृष्टि वाताः समुद्यताः ॥४-३०-२४॥

Slōka 25 / श्लोक २५

Slōka 25

घनानाम् वारणानाम् च मयूराणाम् च लक्ष्मण ।
नादः प्रस्रवणानाम् च प्रशान्तः सहसा अनघ ॥४-३०-२५॥

Slōka 26 / श्लोक २६

Slōka 26

अभिवृष्टा महा मेघैः निर्मलाः चित्र सानवः ।
अनुलिप्ता इव आभान्ति गिरयः चन्द्र रश्मिभिः ॥४-३०-२६॥

Slōka 27 / श्लोक २७

Slōka 27

शाखासु सप्त च्छद पादपानाम्प्रभासु तार अर्क निशा कराणाम् ।
लीलासु चैव उत्तम वारणानाम्श्रियम् विभज्य अद्य शरत् प्रवृत्ता ॥४-३०-२७॥

Slōka 28 / श्लोक २८

Slōka 28

संप्रति अनेक आश्रय चित्र शोभालक्ष्मीः शरत् काल गुण उपपन्ना ।
सूर्य अग्र हस्त प्रतिबोधितेषुपद्माकरेषु अभ्यधिकम् विभाति ॥४-३०-२८॥

Slōka 29 / श्लोक २९

Slōka 29

सप्त च्छदानाम् कुसुमोप गंधीषट् पाद वृन्दैः अनुगीयमानः ।
मत्त द्विपानाम् पवन अनुसारीदर्पम् विनेष्यन् अधिकम् विभाति ॥४-३०-२९॥

Slōka 30 / श्लोक ३०

Slōka 30

अभ्यागतैः चारु विशाल पक्षैःसरः प्रियैः पद्म रजो अवकीर्णैः ।
महा नदीनाम् पुलिन उपयातैःक्रीडन्ति हंसाः सह चक्रवाकैः ॥४-३०-३०॥

Slōka 31 / श्लोक ३१

Slōka 31

मद प्रगल्भेषु च वारिणेषुगवाम् समूहेषु च दर्पितेषु ।
प्रसन्न तोयासु च निम्न गासुविभाति लक्ष्मीः बहुधा विभक्ता ॥४-३०-३१॥

Slōka 32 / श्लोक ३२

Slōka 32

नभः समीक्ष्या अंबु धरैः विमुक्तम्विमुक्त बर्ह आभरणा वनेषु ।
प्रियासु अरक्ता विनिवृत्त शोभागत उत्सवा ध्यान परा मयूराः ॥४-३०-३२॥

Slōka 33 / श्लोक ३३

Slōka 33

मनोज्ञ गन्धैः प्रियकैः अनल्पैःपुष्प अति भार अवनत अग्र शाखैः ।
सुवर्ण गौरैः नयन अभिरामैःउद्योतितान् इव वन अन्तराणि ॥४-३०-३३॥

Slōka 34 / श्लोक ३४

Slōka 34

प्रिय अन्वितानाम् नलिनी प्रियाणाम्वन प्रियाणाम् कुसुम उद्धतानाम् ।
मद उत्कटानाम् मद लालसानाम्गज उत्तमानम् गतयो अद्य मन्दाः ॥४-३०-३४॥

Slōka 35 / श्लोक ३५

Slōka 35

व्यक्तम् नभः शस्त्र विधौत वर्णम्कृश प्रवाहानि नदी जलानि ।
कह्लार शिताः पवनाः प्रवान्तितमो विमुक्ताः च दिशः प्रकाशाः ॥४-३०-३५॥

Slōka 36 / श्लोक ३६

Slōka 36

सूर्य आतप क्रामण नष्ट पंकाभूमिः चिर उद्घाटित सांद्र रेणुः ।
अन्योन्य वैरेण समायुतानाम्उद्योग कालो अद्य नर अधिपानाम् ॥४-३०-३६॥

Slōka 37 / श्लोक ३७

Slōka 37

शरत् गुण आप्यायित रूप शोभाःप्रहर्षित पांशु समुक्षित अंगाः ।
मद उत्कटाः संप्रति युद्ध लुब्धावृषा गवाम् मध्य गता नदन्ति ॥४-३०-३७॥

Slōka 38 / श्लोक ३८

Slōka 38

स मन्मध तीव्रतर अनुरागाकुलान्विता मन्द गतिः करेणुः ।
मदान्वितम् संपरिवार्य यान्तम्वनेषु भर्तारम् अनुप्रयाति ॥४-३०-३८॥

Slōka 39 / श्लोक ३९

Slōka 39

त्यक्त्वा वराणि आत्म विभूषणानिबर्हाणि तीर उपगता नदीनाम् ।
निर्भर्त्स्यमाना इव सार ओघैःप्रयान्ति दीना विमना मयूराः ॥४-३०-३९॥

Slōka 40 / श्लोक ४०

Slōka 40

वित्रास्य कारण्डव चक्रवाकान् ।
महा रवैः भिन्न कटा गजेन्द्राः ।सरस्सु बद्ध अंबुज भूषणेषुविक्षोभ्य विक्षोभ्य जलम् पिबन्ति ॥४-३०-४०॥

Slōka 41 / श्लोक ४१

Slōka 41

व्यपेत पंकजासु स वालुकासुप्रसन्न तोयासु स गो कुलासु ।
स सारसा राव विनादितासुनदिषु हंसा निपतन्ति हृष्टाः ॥४-३०-४१॥

Slōka 42 / श्लोक ४२

Slōka 42

नदी घन प्रस्रवण उदकानाम्अति प्रवृद्ध अनिल बर्हिणानाम् ।
प्लवंगमानाम् च गत उत्सवानाम्ध्रुवम् रवाः संप्रति संप्रणष्टाः ॥४-३०-४२॥

Slōka 43 / श्लोक ४३

Slōka 43

अनेक वर्णाः सुविनष्ट कायाःनव उदितेषु अंबुधरेषु नष्टाः ।
क्षुध अर्दिता घोर विषा बिलेभ्यःचिर उषिता विप्रसरन्ति सर्पाः ॥४-३०-४३॥

Slōka 44 / श्लोक ४४

Slōka 44

चंचत् चन्द्र कर स्पर्श हर्ष उन्मीलित तारका ।
अहो रागवती संध्या जहाति स्वयम् अंबरम् ॥४-३०-४४॥

Slōka 45 / श्लोक ४५

Slōka 45

रात्रिः शशांक उदित सौम्य वक्त्रातारा गण उन्मीलित चारु नेत्रा ।
ज्योत्स्ना अंशुक प्रावरणा विभातिनारी इव शुक्ल अंशुक संवृत अंगी ॥४-३०-४५॥

Slōka 46 / श्लोक ४६

Slōka 46

विपक्व शालि प्रसवानि भुक्त्वाप्रहर्षिता सारस चारु पंक्ति ।
नभः समाक्रामति शीघ्र वेगावात अवधूता ग्रथित इव माला ॥४-३०-४६॥

Slōka 47 / श्लोक ४७

Slōka 47

सुप्त एक हंसम् कुमुदैः उपेतम्महा ह्रदस्थम् सलिलम् विभाति ।
घनैः विमुक्तम् निशि पूर्ण चन्द्रम्तारा गण कीर्णम् इव अंतरिक्षम् ॥४-३०-४७॥

Slōka 48 / श्लोक ४८

Slōka 48

प्रकीर्ण हंसा अकुल मेखलानाम्प्रबुद्ध पद्म उत्पल मालिनीनाम् ।
वापीः उत्तमानाम् अधिक अद्य लक्ष्मीःवर अंगनाम् इव भूषितानाम् ॥४-३०-४८॥

Slōka 49 / श्लोक ४९

Slōka 49

वेणु स्वर व्यंजित तूर्य मिश्रःप्रत्यूष काले अनिल संप्रवृत्तः ।
संमूर्च्छितो गह्वर गो वृषाणाम्अन्योन्यम् आपूरयति इव शब्दः ॥४-३०-४९॥

Slōka 50 / श्लोक ५०

Slōka 50

नवैः नदीनाम् कुसुम प्रहासैःव्या धूयमानैः मृदु मारुतेन ।
धौत अमल क्षौम पट प्रकाशैःकूलानि काशैः उपशोभितानि ॥४-३०-५०॥

Slōka 51 / श्लोक ५१

Slōka 51

वन प्रचण्डा मधु पान शौण्डाःप्रिय अन्विताः षट् चरणाः प्रहृष्टाः ।
वनेसु मत्ताः पवन अनु यात्राम्कुर्वन्ति पद्म आसन रेणु गौराः ॥४-३०-५१॥

Slōka 52 / श्लोक ५२

Slōka 52

जलम् प्रसन्नम् कुसुम प्रहासम्क्रौन्च स्वनम् शालि वनम् विपक्वम् ।
मृदुः च वायुः विमलः च चन्द्रःशंसन्ति वर्ष व्यपनीत कालम् ॥४-३०-५२॥

Slōka 53 / श्लोक ५३

Slōka 53

मीन उप संदर्शित मेखलानाम्नदी वधूनाम् गतयो अद्य मंदाः ।
कान्त उपभुक्त अलस गामिनीनाम्प्रभात कालेषु इव कामिनीनाम् ॥४-३०-५३॥

Slōka 54 / श्लोक ५४

Slōka 54

स चक्रवाकानि स शैवलानिकाशैः दुकूलैः इव संवृतानि ।
स पत्र रेखाणि स रोचनानिवधू मुखानि इव नदी मुखानि ॥४-३०-५४॥

Slōka 55 / श्लोक ५५

Slōka 55

प्रफुल्ल बाण आसन चित्रितेषुप्रहृष्ट षट्पदानि कूजितेषु ।
गृहीत चापः उद्यत दण्ड चण्डःप्रचण्ड चारो अद्य वनेषु कामः ॥४-३०-५५॥

Slōka 56 / श्लोक ५६

Slōka 56

लोकम् सुवृष्ट्या परितोषयित्वनदीः तटाकानि च पूरयित्वा ।
निष्पन्न सस्याम् वसुधाम् च कृत्वात्यक्त्वा नभः तोय धराः प्रणष्टाः ॥४-३०-५६॥

Slōka 57 / श्लोक ५७

Slōka 57

दर्शयन्ति शरन् नद्यः पुलिनानि शनैः शनैः ।
नव संगम सव्रीडा जघनानि इव योषितः ॥४-३०-५७॥

Slōka 58 / श्लोक ५८

Slōka 58

प्रसन्न सलिलाः सौम्य कुरराभिः विनादिताः ।
चक्रवाक गण आकीर्णा विभांति सलिल आशयाः ॥४-३०-५८॥

Slōka 59 / श्लोक ५९

Slōka 59

अन्योन्य बद्ध वैराणाम् जिगीषूणाम् नृपात्मज ।
उद्योग समयः सौम्य पार्थिवानाम् उपस्थितः ॥४-३०-५९॥

Slōka 60 / श्लोक ६०

Slōka 60

इयम् सा प्रथमा यात्रा पार्थिवानाम् नृपात्मज ।
न च पश्यामि सुग्रीवम् उद्योगम् वा तथा विधम् ॥४-३०-६०॥

Slōka 61 / श्लोक ६१

Slōka 61

असनाः सप्त पर्णाः च कोविदाराः च पुष्पिताः ।
दृश्यन्ते बन्धुजीवाः च श्यामाः च गिरि सानुषु ॥४-३०-६१॥

Slōka 62 / श्लोक ६२

Slōka 62

हंस सारस चक्राह्वैः कुररैः च समंततः ।
पुलिनानि अवकीर्णानि नदीनाम् पश्य लक्ष्मण ॥४-३०-६२॥

Slōka 63 / श्लोक ६३

Slōka 63

चत्वारो वार्षिका मासा गता वर्ष शत उपमाः ।
मम शोक अभितप्तस्य तथा सीताम् अपश्यतः ॥४-३०-६३॥

Slōka 64 / श्लोक ६४

Slōka 64

चक्रवाकी इव भर्तारम् पृष्टतो अनुगता वनम् ।
विषमम् दण्डकारण्यम् उद्यान वनम् इव च अंगना ॥४-३०-६४॥

Slōka 65 / श्लोक ६५

Slōka 65

प्रिया विहीने दुःख आर्ते हृत राज्ये विवासिते ।
कृपाम् न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥४-३०-६५॥

Slōka 66 / श्लोक ६६

Slōka 66

अनाथो हृत राज्यो अयम् रावणेन च धर्षितः।
दीनो दूर गृहः कामी माम् चैव शरणम् गतः ॥४-३०-६६॥

Slōka 67 / श्लोक ६७

Slōka 67

इति एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ।
अहम् वानर राजस्य परिभूतः परंतप ॥४-३०-६७॥

Slōka 68 / श्लोक ६८

Slōka 68

स कालम् परिसंख्याय सीतायाः परिमार्गणे ।
कृतार्थः समयम् कृत्वा दुर्मतिः न अवबुध्यते ॥४-३०-६८॥

Slōka 69 / श्लोक ६९

Slōka 69

स किष्किंधाम् प्रविश्य त्वम् ब्रूहि वानर पुंगवम् ।
मूर्खम् ग्राम्य सुखे सक्तम् सुग्रीवम् वचनात् मम ॥४-३०-६९॥

Slōka 70 / श्लोक ७०

Slōka 70

अर्थिनाम् उपपन्नानाम् पूर्वम् च अपि उपकारिणाम् ।
आशाम् सम्श्रुत्य यो हन्ति स लोके पुरुषाधमः ॥४-३०-७०॥

Slōka 71 / श्लोक ७१

Slōka 71

शुभम् वा यदि वा पापम् यो हि वाक्यम् उदीरितम् ।
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥४-३०-७१॥

Slōka 72 / श्लोक ७२

Slōka 72

कृतार्था हि अकृतार्थानाम् मित्राणाम् न भवन्ति ये ।
तान् मृतान् अपि क्रव्यादाः कृतघ्नान् न उपभुंजते ॥४-३०-७२॥

Slōka 73 / श्लोक ७३

Slōka 73

नूनम् कांचन पृष्ठस्य विकृष्टस्य मया रणे ।
द्रष्टुम् इच्छसि चापस्य रूपम् विद्युत् गण उपमम् ॥४-३०-७३॥

Slōka 74 / श्लोक ७४

Slōka 74

घोरम् ज्या तल निर्घोषम् क्रुद्धस्य मम संयुगे ।
निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छसि ॥४-३०-७४॥

Slōka 75 / श्लोक ७५

Slōka 75

कामम् एवम् गते अपि अस्य परिज्ञाते पराक्रमे ।
त्वत् सहायस्य मे वीर न चिन्ता स्यात् नृपात्मज ॥४-३०-७५॥

Slōka 76 / श्लोक ७६

Slōka 76

यद् अर्थम् अयम् आरंभः कृतः पर पुरम् जय ।
समयम् न अभिजानाति कृतार्थः प्लवगेश्वरः ॥४-३०-७६॥

Slōka 77 / श्लोक ७७

Slōka 77

वर्षा समय कालम् तु प्रतिज्ञाय हरीश्वरः ।
व्यतीतान् चतुरो मासान् विहरन् न अवबुध्यते ॥४-३०-७७॥

Slōka 78 / श्लोक ७८

Slōka 78

स अमात्य परिषत् क्रीडन् पानम् एव उपसेवते ।
शोक दीनेषु न अस्मासु सुग्रीवः कुरुते दयाम् ॥४-३०-७८॥

Slōka 79 / श्लोक ७९

Slōka 79

उच्यताम् गच्छ सुग्रीवः त्वया वीरः महाबल ।
मम रोषस्य यत् रूपम् ब्रूयाः च एनम् इदम् वचः ॥४-३०-७९॥

Slōka 80 / श्लोक ८०

Slōka 80

न स संकुचितः पंथा येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥४-३०-८०॥

Slōka 81 / श्लोक ८१

Slōka 81

एक एव रणे वाली शरेण निहतो मया ।
त्वाम् तु सत्यात् अतिक्रांतम् हनिष्यामि स बान्धवम् ॥४-३०-८१॥

Slōka 82 / श्लोक ८२

Slōka 82

तत् एवम् विहिते कार्ये यत् हितम् पुरुषर्षभ ।
तत् तत् ब्रूहि नरश्रेष्ठ त्वर काल व्यतिक्रमः ॥४-३०-८२॥

Slōka 83 / श्लोक ८३

Slōka 83

कुरुष्व सत्यम् मम वानरेश्वरप्रतिश्रुतम् धर्मम् अवेक्ष्य शाश्वतम् ।
मा वालिनम् प्रेत गतो यम क्षयम्त्वम् अद्य पश्येः मम चोदितः शरैः ॥४-३०-८३॥

Slōka 84 / श्लोक ८४

Slōka 84

स पूर्वजम् तीव्र विवृद्ध कोपम्लालप्यमानम् प्रसमीक्ष्य दीनम् ।
चकार तीव्राम् मतिम् उग्र तेजाहरीश्वरे मानव वंश वर्थनः ॥४-३०-८४॥