सुन्दरकाण्डम्
Chapter 28 / सर्गः २८
Slōka 1 / श्लोक १
सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता ।
सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ।। ५.२८.१।।।।
Slōka 2 / श्लोक २
सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च ।
कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ।। ५.२८.२।।।।
Slōka 3 / श्लोक ३
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः ।
यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित्क्षणमप्यपुण्या ।। ५.२८.३।।।।
Slōka 4 / श्लोक ४
सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे ।
विशीर्यते यन्न सहस्रधा ऽद्य वज्राहतं शृङ्गमिवाचलस्य ।। ५.२८.४।।।।
Slōka 5 / श्लोक ५
नैवास्ति दोषं मम नूनमत्र वध्या ऽहमस्याप्रियदर्शनस्य ।
भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ।। ५.२८.५।।।।।
Slōka 6 / श्लोक ६
नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ।
तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ।। ५.२८.६।।।।
Slōka 7 / श्लोक ७
दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ ।
बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ।। ५.२८.७।।।।
Slōka 8 / श्लोक ८
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या ।
एषा विपद्याम्यहमल्पभाग्या माहार्णवे नौरिव मूढवाता ।। ५.२८.८।।।।
Slōka 9 / श्लोक ९
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ ।
नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्यतेन ।। ५.२८.९।।।।
Slōka 10 / श्लोक १०
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् ।
यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ।। ५.२८.१०।।।।
Slōka 11 / श्लोक ११
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्र ।
रा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम् ।। ५.२८.११।।।।
Slōka 12 / श्लोक १२
अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे ।
पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ।। ५.२८.१२।।।।
Slōka 13 / श्लोक १३
मोघो हि धर्मश्चरितो मया ऽयं तथैकपत्नीत्वमिदं निरर्थम् ।
या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ।। ५.२८.१३।।।।
Slōka 14 / श्लोक १४
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च ।
स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ।। ५.२८.१४।।।।
Slōka 15 / श्लोक १५
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा ।
मोघं चरित्वा ऽथ तपोव्रतं च त्यक्ष्यामि धिग् जीवितमल्पभाग्या ।। ५.२८.१५।।।।
Slōka 16 / श्लोक १६
सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि ।
विषस्य दाता नहि मे ऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ।। ५.२८.१६।।।।
Slōka 17 / श्लोक १७
इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती ।
प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ।। ५.२८.१७।।।।
Slōka 18 / श्लोक १८
शोकाभितप्ता बहुधा विचिन्त्य सीता ऽथ वेण्युद्ग्रथनं गृहीत्वा ।
उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ।। ५.२८.१८।।।।
Slōka 19 / श्लोक १९
उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वा ऽथ नगस्य तस्य ।
। ५.२८.१९।।।।
Slōka 20 / श्लोक २०
तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः ।
शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके ।प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि । ।। ५.२८.२०।।