Star (-) Watch (-)

Ramayana

युद्धकाण्डम्

Chapter 15 / सर्गः १५

Slōka 1 / श्लोक १

बृहस्पतेस्तुल्यमतेर्वचस्त ।
न्निशम्य यत्नेन विभीषणस्य ।ततो महात्मा वचनम् बभाषे ।तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥६-१५-१॥।।

Slōka 2 / श्लोक २

किम् नाम ते तात कनिष्ठ वाक्य ।
मन्र्थकम् वै बहुभीतवच्च ।अस्मिन् कुले योऽपि  भवेन्न जातः ।सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥६-१५-२॥।।

Slōka 3 / श्लोक ३

सत्त्वेन वीर्येण पराक्रमेणधैर्येण शौर्येण च तेजसा च ।
एकः कुलेऽस्मिन् पुरुषो विमुक्तो ।विभीषणस्तातकनिष्ठ एषः ॥६-१५-३॥।।

Slōka 4 / श्लोक ४

किम् नाम तौ मानुषराजपुत्रा ।
वस्माकमेकेन हि राक्षसेन ।सुप्राकृतेनापि निहन्तुमेतौ ।शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥।।

Slōka 5 / श्लोक ५

त्रिलोकनाथो नम देवराजः ।
शक्तो मया भूमितले विविष्टः ।भयार्मिताश्चापि दिशः प्रपन्नाः ।सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥।।

Slōka 6 / श्लोक ६

ऐरावतो विस्वरमुन्नदन् स ।
निपातितो भूमितले मया तु ।विकृष्य दन्तौ तु मया प्रपह्य ।वित्रासिता देवगणाः समग्राः ॥६-१५-६॥।।

Slōka 7 / श्लोक ७

सोऽहम् सुराणामपि दर्पहन्ता ।
दैत्योत्तमानामपि शोककर्ता ।कथम् नरेन्द्रत्मजयोर्न शक्तो ।ममष्ययोः प्राकृतयोः सुवीर्यः ॥६-१५-७॥।।

Slōka 8 / श्लोक ८

अथेन्द्रकल्पस्य दुरासदस्य ।
महाजसस्तद्वचनम् निशम्य ।ततो महार्थम् वचनम् बभाषे ।विभीषणः शस्त्रभृताम् वरिष्ठः ॥६-१५-८॥।।

Slōka 9 / श्लोक ९

न तात मन्त्रे तव निश्चयोऽस्ति ।
बालस्त्वमद्याप्यविपक्वबुद्धिः ।तस्मात्त्वयाप्यात्मविनाशनाय ।वचोऽर्थ्हीनम् बहु विप्रलप्तम् ॥६-१५-९॥।।

Slōka 10 / श्लोक १०

पुत्रप्रवादेन तु रावणस्य ।
त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।यस्येदृशम् राघवतो विनाशम् ।विशम्य मोहादनुवन्यसे त्वम् ॥६-१५-१०॥।।

Slōka 11 / श्लोक ११

त्वमेव वध्यश्च सुदुर्मतिश्च ।
स चापि वध्यो य ऐहानयत्त्वाम् ।बालम् दृढम् साहासिकम् च योऽद्य ।प्रावेशयन्मन्त्रक्R^ताम् समीपम् ॥६-१५-११॥।।

Slōka 12 / श्लोक १२

मूढोऽप्रगल्भोऽविनयोपपन्न ।
स्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा ।मूर्खस्त्वमत्यन्तसुदुर्मतिश्च ।त्वमिन्द्रजिद्बालतया ब्रवीषि ॥६-१५-१२॥।।

Slōka 13 / श्लोक १३

को ब्रह्मदण्डप्रतिमप्रकाशा ।
नर्चिष्मतः कालनिकाशरूपान् ।सहेत बाणान्यमदण्डकल्पा ।न्समक्षमुक्तान्युधि राघवेण ॥६-१५-१३॥।।

Slōka 14 / श्लोक १४

धनानि रत्नानि सुभूषणानि ।
वापाम्पि दिव्यानि मणीम्श्च चित्रान् ।सीताम् च रामाय निवेद्य देवीम् ।वसेम राजन्निह वीतशोकाः ॥६-१५-१४॥