उत्तरकाण्डम्डम्
Chapter 19 / सर्गः १९
Slōka 1 / श्लोक १
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।
नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ।। ७.१९.१ ॥
Slōka 2 / श्लोक २
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् ।
अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ।। ७.१९.२ ॥
Slōka 3 / श्लोक ३
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः ।
अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ।। ७.१९.३ ।।ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः ।मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः ।निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ।। ७.१९.४ ॥
Slōka 4 / श्लोक ४
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।
एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ।। ७.१९.५ ॥
Slōka 5 / श्लोक ५
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ।
। ७.१९.६ ॥
Slōka 6 / श्लोक ६
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ।
स तं पुरुषशार्दूलं पुरन्दरसमं बले ।। ७.१९.७ ॥
Slōka 7 / श्लोक ७
प्राह राजानमासाद्य युद्धं देहीति रावणः ।
निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ।। ७.१९.८ ॥
Slōka 8 / श्लोक ८
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ।
अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ।। ७.१९.९ ॥
Slōka 9 / श्लोक ९
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ।
सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ।। ७.१९.१० ॥
Slōka 10 / श्लोक १०
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् ।
निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ।। ७.१९.११ ॥
Slōka 11 / श्लोक ११
नागानां दशसाहस्रं वाजिनां नियुतं तथा ।
रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ।। ७.१९.१२ ॥
Slōka 12 / श्लोक १२
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे ।
ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ।। ७.१९.१३ ॥
Slōka 13 / श्लोक १३
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ।
तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।। ७.१९.१४ ॥
Slōka 14 / श्लोक १४
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले ।
युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ।। ७.१९.१५ ॥
Slōka 15 / श्लोक १५
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् ।
प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् ।नश्यति स्म बलं तत्र हव्यं हुतमिवानले ।। ७.१९.१६ ॥
Slōka 16 / श्लोक १६
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् ।
महार्णवं समासाद्य वनापगशतं यथा ।। ७.१९.१७ ॥
Slōka 17 / श्लोक १७
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।
आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ।। ७.१९.१८ ॥
Slōka 18 / श्लोक १८
अनरण्येन ते ऽमात्या मारीचशुकसारणाः ।
प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ।। ७.१९.१९ ॥
Slōka 19 / श्लोक १९
ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।
तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ।। ७.१९.२० ॥
Slōka 20 / श्लोक २०
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् ।
वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ।। ७.१९.२१ ॥
Slōka 21 / श्लोक २१
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ।
तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ।। ७.१९.२२ ॥
Slōka 22 / श्लोक २२
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।
वज्रदग्ध इवारण्ये सालो निपतितो यथा ।। ७.१९.२३ ॥
Slōka 23 / श्लोक २३
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।
किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ।। ७.१९.२४ ॥
Slōka 24 / श्लोक २४
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।
शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ।। ७.१९.२५ ॥
Slōka 25 / श्लोक २५
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।
किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ।। ७.१९.२६ ॥
Slōka 26 / श्लोक २६
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।
कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ।। ७.१९.२७ ॥
Slōka 27 / श्लोक २७
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।
नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ।। ७.१९.२८ ॥
Slōka 28 / श्लोक २८
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ।
यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥
Slōka 29 / श्लोक २९
यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ।
। ७.१९.२९ ॥
Slōka 30 / श्लोक ३०
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।
रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ।। ७.१९.३० ॥
Slōka 31 / श्लोक ३१
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।
तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ।। ७.१९.३१ ॥
Slōka 32 / श्लोक ३२
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।
स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ।। ७.१९.३२ ।।