सुन्दरकाण्डम्
Chapter 31 / सर्गः ३१
Slōka 1 / श्लोक १
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ।
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।। ५.३१.१।।।।
Slōka 2 / श्लोक २
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ।। ५.३१.२।।।।
Slōka 3 / श्लोक ३
राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः ।
चक्रवर्तिकुले जातः पुरन्दरसमो बले ।। ५.३१.३।।।।
Slōka 4 / श्लोक ४
अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः ।
मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ।। ५.३१.४।।।।
Slōka 5 / श्लोक ५
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः ।
पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ।। ५.३१.५।।।।
Slōka 6 / श्लोक ६
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ।
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।। ५.३१.६।।।।
Slōka 7 / श्लोक ७
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ।। ५.३१.७।।।।
Slōka 8 / श्लोक ८
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः ।
सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ।। ५.३१.८।।।।
Slōka 9 / श्लोक ९
तेन तत्र महारण्ये मृगयां परिधावता ।
राक्षसा निहताः शूरा बहवः कामरूपिणः ।। ५.३१.९।।।।
Slōka 10 / श्लोक १०
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।
ततस्त्वमर्षापहृता जानकी रावणेन तु ।वञ्जयित्वा वने रामं मृगरूपेण मायया ।। ५.३१.१०।।।।
Slōka 11 / श्लोक ११
स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ।
आससाद वने मित्रं सुग्रीवं नाम वानरम् । ।। ५.३१.११।।।।
Slōka 12 / श्लोक १२
ततः स वालिनं हत्वा रामः परपुरञ्जयः ।
प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ।। ५.३१.१२।।।।
Slōka 13 / श्लोक १३
सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः ।
दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ।। ५.३१.१३।।।।
Slōka 14 / श्लोक १४
अहं संपातिवचनाच्छतयोजनमायतम् ।
अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ।। ५.३१.१४।।।।
Slōka 15 / श्लोक १५
यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ।
अश्रौषं राघवस्याहं सेयमासादिता मया ।। ५.३१.१५।।।।
Slōka 16 / श्लोक १६
विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः ।
जानकी चापि तच्छृत्वा विस्मयं परमं गता ।। ५.३१.१६।।।।
Slōka 17 / श्लोक १७
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।
उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ।। ५.३१.१७।।।।
Slōka 18 / श्लोक १८
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।
स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।। ५.३१.१८।।।।
Slōka 19 / श्लोक १९
सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् ।
ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ।। ५.३१.१९।।