युद्धकाण्डम्
Chapter 10 / सर्गः १०
Slōka 1 / श्लोक १
ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः ।
राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥६-१०-१॥।।
Slōka 2 / श्लोक २
शैलाग्रचयसम्काशम् शैलशृज्~गमिवोन्नतम् ।
सुविभक्तमहाकक्षम् महाजनपरिग्रहम् ॥६-१०-२॥।।
Slōka 3 / श्लोक ३
मतिमद्भिर्महामात्रैरनुरकैरधिष्ठितम् ।
राक्षसैराप्तपर्याप्तैह् सर्वतः परिरक्षितम् ॥६-१०-३॥।।
Slōka 4 / श्लोक ४
मत्तमातज्~गनिःश्वासैर्व्याकुलीकृतमारुतम् ।
शज्~खघोषमहाघोषम् तूर्यसम्बाधनादितम् ॥६-१०-४॥।।
Slōka 5 / श्लोक ५
प्रमदाजनसम्बाधम् प्रजल्पितमहापथम् ।
तप्तकाञ्चननिर्यूहम् भूषणोत्तमभूषितम् ॥६-१०-५॥।।
Slōka 6 / श्लोक ६
गन्धर्वाणामिवावासमालयम् मरुतामिव ।
रत्नसम्चयसम्बाधम् भवनम् भोगिनामिव ॥६-१०-६॥।।
Slōka 7 / श्लोक ७
तम् महाभ्रमिवादित्य स्तेजोविस्तृतरश्मिमान् ।
अग्रजस्यालयम् वीरः प्रविवेश महाद्युतिः ॥६-१०-७॥।।
Slōka 8 / श्लोक ८
पुण्यान् पुण्याहघोषाम्श्च वेदिविद्भिरुदाहृतान् ।
शुश्राव सुमहातेजा भ्रातुर्विजयसम्श्रितान् ॥६-१०-८॥।।
Slōka 9 / श्लोक ९
पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः ।
मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥६-१०-९॥।।
Slōka 10 / श्लोक १०
स पूज्यमानो रक्षोभिद्दीप्यमानम् स्वतेजसा ।
असवस्थम् महाबाहुर्ववन्दे धनदानुजम् ॥६-१०-१०॥।।
Slōka 11 / श्लोक ११
स राजदृष्टिसम्पन्नमासनम् हेमभूषितम् ।
जगाम समुदाचारम् प्रयुज्याचारकोविदः ॥६-१०-११॥।।
Slōka 12 / श्लोक १२
स रावणम् महात्मानम् विजने मन्त्रिसम्निधौ ।
उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् ॥६-१०-१२॥।।
Slōka 13 / श्लोक १३
प्रसाद्य भ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः ।
देशकालार्थसम्वादि दृष्टलोकपरावः ॥६-१०-१३॥।।
Slōka 14 / श्लोक १४
यदा प्रभृति वैदेही सम्प्राप्तेह परतप ।
तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥६-१०-१४॥।।
Slōka 15 / श्लोक १५
सस्फुलिज्~गः सधूमार्चिह् सधूमकलुषोदयः ।
मन्त्रसम्घहुतोऽप्यग्निर्न सम्यगभिवर्धते ॥६-१०-१५॥।।
Slōka 16 / श्लोक १६
अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ।
परीपृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥६-१०-१६॥।।
Slōka 17 / श्लोक १७
गवाम् पयाम्सि स्कन्नानि विमदा वरकुञ्जराः ।
दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥६-१०-१७॥।।
Slōka 18 / श्लोक १८
खरोष्ट्राश्वतरा राजन्भिन्न्रोमाः स्रवन्ति च ।
न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥६-१०-१८॥।।
Slōka 19 / श्लोक १९
वायसाः सघशः क्रूरा व्याहरन्ति समन्ततः ।
समवेताश्च दृश्यन्ते विमानाग्रेषु सम्घशः ॥६-१०-१९॥।।
Slōka 20 / श्लोक २०
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः ।
उपपन्नाश्च सम्ध्ये द्वे व्याहरन्त्यशिवम् शिवाः ॥६-१०-२०॥।।
Slōka 21 / श्लोक २१
क्रव्यादानाम् मृगाणाम् च पुरीद्वारेषु सज्~घशः ।
श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥६-१०-२१॥।।
Slōka 22 / श्लोक २२
तदेवम् प्रस्तुते कार्ते प्रायश्चित्तमिदम् क्षमम् ।
रोचये वीर वैदेही राघवाय प्रदीयताम् ॥६-१०-२२॥।।
Slōka 23 / श्लोक २३
इदम् च यदि वामोहाल्लोभाद्वा व्याहृतम् मया ।
तत्राप् च महाराज न दोषम् कर्तुमर्हसि ॥६-१०-२३॥।।
Slōka 24 / श्लोक २४
अयम् हि दोषः सर्वस्य जनस्याप्योपलक्ष्यते ।
रक्षसाम् राक्षसीनाम् च पुरस्यान्तः पुरस्य च ॥६-१०-२४॥।।
Slōka 25 / श्लोक २५
प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः ।
अवश्यम् च मया वाच्यम् यद्दृष्टमथवा श्रुतम् ॥६-१०-२५॥।।
Slōka 26 / श्लोक २६
सम्विधाय यथान्यायम् तद्भवान् कर्तुमर्हति ।
इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् ॥६-१०-२६॥।।
Slōka 27 / श्लोक २७
रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः ।
।।
Slōka 28 / श्लोक २८
हितम् महार्थम् मऋदु हेतुसम्हितम् ।
व्यतीतकालायतिसम्प्रतिक्षमम् ।।।
Slōka 29 / श्लोक २९
निशम्य तद्वाक्यमुपस्थितज्वरः ।
प्रसज्~गवानुत्तरमेत दब्रवीत् ॥६-१०-२७॥।।
Slōka 30 / श्लोक ३०
भयम् न पश्यामि कुतश्चिदप्यहम् ।
न राघवः प्राप्स्यति जातु मैथिलीम् ।।।
Slōka 31 / श्लोक ३१
सुरैः सहेन्द्रैरपि सम्गरे कथम् ।
ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥६-१०-२८॥।।
Slōka 32 / श्लोक ३२
इत्येवमुक्र्वा सुरसैन्यनाशनो ।
महाबलः सम्यति चण्डविक्रमः ।।।
Slōka 33 / श्लोक ३३
दशाननो भ्रातरमाप्तवादिनम् ।
विसर्जयामास तदा विभीषणम् ॥६-१०-२९॥