Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 112 / सर्गः ११२

Slōka 1 / श्लोक १

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।
विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ॥ २.११२.१॥

Slōka 2 / श्लोक २

अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: ।
तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २.११२.२॥

Slōka 3 / श्लोक ३

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।
श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ॥ २.११२.३॥

Slōka 4 / श्लोक ४

ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: ।
भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ॥ २.११२.४॥

Slōka 5 / श्लोक ५

कुले जात महाप्राज्ञ महावृत्त महायश: ।
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ २.११२.५॥

Slōka 6 / श्लोक ६

सदानृणमिमं रामं वयमिच्छामहे पितु: ।
अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ॥ २.११२.६॥

Slōka 7 / श्लोक ७

एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: ।
राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ॥ २.११२.७॥

Slōka 8 / श्लोक ८

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: ।
राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ २.११२.८॥

Slōka 9 / श्लोक ९

स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया ।
कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ २.११२.९॥

Slōka 10 / श्लोक १०

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।
कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ २.११२.१०॥

Slōka 11 / श्लोक ११

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।
पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ २.११२.११॥

Slōka 12 / श्लोक १२

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: ।
त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ॥ २.११२.१२॥

Slōka 13 / श्लोक १३

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ २.११२.१३॥

Slōka 14 / श्लोक १४

इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा ।
भृशं सम्प्रार्थयामास राममेव प्रियंवद: ॥ २.११२.१४॥

Slōka 15 / श्लोक १५

तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।
श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ २.११२.१५॥

Slōka 16 / श्लोक १६

आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या ।
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ २.११२.१६॥

Slōka 17 / श्लोक १७

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: ।
सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ २.११२.१७॥

Slōka 18 / श्लोक १८

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।
अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ॥ २.११२.१८॥

Slōka 19 / श्लोक १९

कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।
न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ २.११२.१९॥

Slōka 20 / श्लोक २०

एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् ।
तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २.११२.२०॥

Slōka 21 / श्लोक २१

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।
एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ॥ २.११२.२१॥

Slōka 22 / श्लोक २२

सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च ।
प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २.११२.२२॥

Slōka 23 / श्लोक २३

स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।
चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २.११२.२३॥

Slōka 24 / श्लोक २४

फलमूलाशनो वीर भवेयं रघुनन्दन ।
तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ॥ २.११२.२४॥

Slōka 25 / श्लोक २५

तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप ।
चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ २.११२.२५॥

Slōka 26 / श्लोक २६

तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।
शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ २.११२.२६॥

Slōka 27 / श्लोक २७

मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।
मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥ २.११२.२७॥

Slōka 28 / श्लोक २८

इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ॥ २.११२.२८॥

Slōka 29 / श्लोक २९

स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ २.११२.२९॥

Slōka 30 / श्लोक ३०

अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।
व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ॥ २.११२.३०॥

Slōka 31 / श्लोक ३१

तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: ।
स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ॥ २.११२.३१ ॥