Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 91 / सर्गः ९१

Slōka 1 / श्लोक १

कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ २.९१.१॥

Slōka 2 / श्लोक २

अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ २.९१.२॥

Slōka 3 / श्लोक ३

अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ २.९१.३॥

Slōka 4 / श्लोक ४

सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् ।
मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ २.९१.४॥

Slōka 5 / श्लोक ५

किमर्थं चापि निक्षिप्य दूरे बलमिहागत: ।
कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ॥ २.९१.५॥

Slōka 6 / श्लोक ६

भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।
ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ २.९१.६॥

Slōka 7 / श्लोक ७

राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।
यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ॥ २.९१.७॥

Slōka 8 / श्लोक ८

वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: ।
प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ २.९१.८॥

Slōka 9 / श्लोक ९

ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।
न हिंस्युरिति तेनाहमेक एव समागत: ॥ २.९१.९॥

Slōka 10 / श्लोक १०

आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा ।
ततस्तु चक्रे भरत: सेनाया: समुपागमम् ॥ २.९१.१०॥

Slōka 11 / श्लोक ११

अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ २.९१.११॥

Slōka 12 / श्लोक १२

आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१२॥

Slōka 13 / श्लोक १३

आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१३॥

Slōka 14 / श्लोक १४

प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ॥ २.९१.१४॥

Slōka 15 / श्लोक १५

अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् ।
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ २.९१.१५॥

Slōka 16 / श्लोक १६

आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ॥ २.९१.१६॥

Slōka 17 / श्लोक १७

घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ २.९१.१७॥

Slōka 18 / श्लोक १८

शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: ।
सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ॥ २.९१.१८॥

Slōka 19 / श्लोक १९

वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् ।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ २.९१.१९॥

Slōka 20 / श्लोक २०

इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २.९१.२०॥

Slōka 21 / श्लोक २१

विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च ॥ २.९१.२१॥

Slōka 22 / श्लोक २२

एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ॥ २.९१.२२॥

Slōka 23 / श्लोक २३

मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २.९१.२३॥

Slōka 24 / श्लोक २४

मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ॥ २.९१.२४॥

Slōka 25 / श्लोक २५

ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: ।
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २.९१.२५॥

Slōka 26 / श्लोक २६

प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: ।
प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ॥ २.९१.२६॥

Slōka 27 / श्लोक २७

स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ॥ २.९१.२७॥

Slōka 28 / श्लोक २८

तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ॥ २.९१.२८॥

Slōka 29 / श्लोक २९

बभूव हि समा भूमि: समन्तात्पञ्चयोजना ।
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ॥ २.९१.२९॥

Slōka 30 / श्लोक ३०

तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: ।
आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ॥ २.९१.३०॥

Slōka 31 / श्लोक ३१

उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ २.९१.३१॥

Slōka 32 / श्लोक ३२

चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् ।
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ २.९१.३२॥

Slōka 33 / श्लोक ३३

सितमेघनिभं चापि राजवेश्मसु तोरणम् ।
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ २.९१.३३॥

Slōka 34 / श्लोक ३४

चतुरश्रमसम्बाधं शयनासनयानवत् ।
दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ २.९१.३४॥

Slōka 35 / श्लोक ३५

क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ॥ २.९१.३५॥

Slōka 36 / श्लोक ३६

अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: ।
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ २.९१.३६॥

Slōka 37 / श्लोक ३७

तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।
भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ॥ २.९१.३७॥

Slōka 38 / श्लोक ३८

आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनमादाय न्यषीदत् सचिवासने ॥ २.९१.३८॥

Slōka 39 / श्लोक ३९

आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: ।
तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ॥ २.९१.३९॥

Slōka 40 / श्लोक ४०

ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: ।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ २.९१.४०॥

Slōka 41 / श्लोक ४१

तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: ।
रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ॥ २.९१.४१॥

Slōka 42 / श्लोक ४२

तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: ।
आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ॥ २.९१.४२॥

Slōka 43 / श्लोक ४३

सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: ।
आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ॥ २.९१.४३॥

Slōka 44 / श्लोक ४४

याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते ।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ॥ २.९१.४४॥

Slōka 45 / श्लोक ४५

नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: ।
एते गन्धर्वराजानो भरतस्याग्रतो जगु: ॥ २.९१.४५॥

Slōka 46 / श्लोक ४६

अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।
उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ २.९१.४६॥

Slōka 47 / श्लोक ४७

यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ २.९१.४७॥

Slōka 48 / श्लोक ४८

बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: ।
अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ २.९१.४८॥

Slōka 49 / श्लोक ४९

तत: सरलतालाश्च तिलका नक्तमालका: ।
प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ॥ २.९१.४९॥

Slōka 50 / श्लोक ५०

शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: ।
मालती मल्लिका जातिर्याश्चान्या: कानने लता: ॥ २.९१.५०॥

Slōka 51 / श्लोक ५१

प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।
सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: ।मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ २.९१.५१॥

Slōka 52 / श्लोक ५२

उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।
अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ॥ २.९१.५२॥

Slōka 53 / श्लोक ५३

संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: ।
परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ॥ २.९१.५३॥

Slōka 54 / श्लोक ५४

हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् ।
अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ २.९१.५४॥

Slōka 55 / श्लोक ५५

इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।
इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ॥ २.९१.५५॥

Slōka 56 / श्लोक ५६

नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: ।
मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ॥ २.९१.५६॥

Slōka 57 / श्लोक ५७

तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: ।
अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ॥ २.९१.५७॥

Slōka 58 / श्लोक ५८

नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ २.९१.५८॥

Slōka 59 / श्लोक ५९

इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: ।
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ २.९१.५९॥

Slōka 60 / श्लोक ६०

सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: ।
भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ॥ २.९१.६०॥

Slōka 61 / श्लोक ६१

नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: ।
समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ॥ २.९१.६१॥

Slōka 62 / श्लोक ६२

ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ॥ २.९१.६२॥

Slōka 63 / श्लोक ६३

प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: ।
बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ॥ २.९१.६३॥

Slōka 64 / श्लोक ६४

कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: ।
बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ २.९१.६४॥

Slōka 65 / श्लोक ६५

नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।
रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ॥ २.९१.६५॥

Slōka 66 / श्लोक ६६

आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: ।
फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ॥ २.९१.६६॥

Slōka 67 / श्लोक ६७

पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: ।
ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ॥ २.९१.६७॥

Slōka 68 / श्लोक ६८

बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: ।
ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ॥ २.९१.६८॥

Slōka 69 / श्लोक ६९

वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: ।
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ॥ २.९१.६९॥

Slōka 70 / श्लोक ७०

पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।
न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ २.९१.७०॥

Slōka 71 / श्लोक ७१

स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: ।
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ॥ २.९१.७१॥

Slōka 72 / श्लोक ७२

ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे ।
बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ॥ २.९१.७२॥

Slōka 73 / श्लोक ७३

कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।
ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ॥ २.९१.७३॥

Slōka 74 / श्लोक ७४

शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ॥ २.९१.७४॥

Slōka 75 / श्लोक ७५

दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।
पादुकोपानहश्चैव युग्मानि च सहस्रश: ॥ २.९१.७५॥

Slōka 76 / श्लोक ७६

आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।
मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ २.९१.७६॥

Slōka 77 / श्लोक ७७

प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ २.९१.७७॥

Slōka 78 / श्लोक ७८

आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।
नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ २.९१.७८॥

Slōka 79 / श्लोक ७९

निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ॥ २.९१.७९॥

Slōka 80 / श्लोक ८०

व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ २.९१.८०॥

Slōka 81 / श्लोक ८१

इत्येवं रममाणानां देवानामिव नन्दने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ २.९१.८१॥

Slōka 82 / श्लोक ८२

प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ॥ २.९१.८२॥

Slōka 83 / श्लोक ८३

तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: ।
तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ॥ २.९१.८३ ॥