सुन्दरकाण्डम्
Chapter 39 / सर्गः ३९
Slōka 1 / श्लोक १
मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति ।
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।। ५.३९.१।।।।
Slōka 2 / श्लोक २
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।
वीरो जनन्या मम च राज्ञो दशरथस्य च ।। ५.३९.२।।।।
Slōka 3 / श्लोक ३
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।
अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।। ५.३९.३।।।।
Slōka 4 / श्लोक ४
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।
हनुमन् यत्नमास्थाय दुःखक्षयकरो भव ।तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।। ५.३९.४।।।।
Slōka 5 / श्लोक ५
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।
शिरसा ऽ ऽवन्द्य वैदेहीं गमनायोपचक्रमे ।। ५.३९.५।।।।
Slōka 6 / श्लोक ६
ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।। ५.३९.६।।।।
Slōka 7 / श्लोक ७
कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ।
। ५.३९.७।।।।
Slōka 8 / श्लोक ८
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान् ।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ।। ५.३९.८।।।।
Slōka 9 / श्लोक ९
यथा स च महाबाहुर्मां तारयति राघवः ।
अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.३९.९।।।।
Slōka 10 / श्लोक १०
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।
तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ।। ५.३९.१०।।।।
Slōka 11 / श्लोक ११
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः ।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।। ५.३९.११।।।।
Slōka 12 / श्लोक १२
मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।
पराक्रमविधिं वीरो विधिवत् संविधास्यति ।। ५.३९.१२।।।।
Slōka 13 / श्लोक १३
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ।। ५.३९.१३।।।।
Slōka 14 / श्लोक १४
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। ५.३९.१४।।।।
Slōka 15 / श्लोक १५
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।
यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतो ऽग्रतः ।। ५.३९.१५।।।।
Slōka 16 / श्लोक १६
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।
सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ।। ५.३९.१६।।।।
Slōka 17 / श्लोक १७
स हि सागरपर्यन्तां महीं शासितुमीहते ।
त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।। ५.३९.१७।।।।
Slōka 18 / श्लोक १८
तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।
जानकी बहुमेने ऽथ वचनं चेदमब्रवीत् ।। ५.३९.१८।।।।
Slōka 19 / श्लोक १९
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।। ५.३९.१९।।।।
Slōka 20 / श्लोक २०
यदि वा मन्यसे वीर वसैकाहमरिन्दम ।
कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.३९.२०।।।।
Slōka 21 / श्लोक २१
मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर ।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ।। ५.३९.२१।।।।
Slōka 22 / श्लोक २२
गते हि हरिशार्दूल पुनरागमनाय तु ।
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.३९.२२।।।।
Slōka 23 / श्लोक २३
तवादर्शनजः शोको भूयो मां परितापयेत् ।
दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। ५.३९.२३।।।।
Slōka 24 / श्लोक २४
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.३९.२४।।।।
Slōka 25 / श्लोक २५
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.३९.२५।।।।
Slōka 26 / श्लोक २६
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.३९.२६।।।।
Slōka 27 / श्लोक २७
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।। ५.३९.२७।।।।
Slōka 28 / श्लोक २८
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ।। ५.३९.२८।।।।
Slōka 29 / श्लोक २९
बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे ।
विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ।। ५.३९.२९।।।।
Slōka 30 / श्लोक ३०
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।
मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.३९.३०।।।।
Slōka 31 / श्लोक ३१
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवेदाहवशूरस्य तथा त्वमुपपादय ।। ५.३९.३१।।।।
Slōka 32 / श्लोक ३२
तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।
निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ।। ५.३९.३२।।।।
Slōka 33 / श्लोक ३३
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.३९.३३।।।।
Slōka 34 / श्लोक ३४
स वानरसहस्राणां कोटीभिरभिसंवृतः ।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ।। ५.३९.३४।।।।
Slōka 35 / श्लोक ३५
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः ।
मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः ।। ५.३९.३५।।।।
Slōka 36 / श्लोक ३६
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.३९.३६।।।।
Slōka 37 / श्लोक ३७
असकृत् तैर्महोत्साहैः ससागरधराधरा ।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.३९.३७।।।।
Slōka 38 / श्लोक ३८
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.३९.३८।।।।
Slōka 39 / श्लोक ३९
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.३९.३९।।।।
Slōka 40 / श्लोक ४०
तदलं परितापेन देवि शोको व्यपैतु ते ।
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ।। ५.३९.४०।।।।
Slōka 41 / श्लोक ४१
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।
त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ।। ५.३९.४१।।।।
Slōka 42 / श्लोक ४२
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ।। ५.३९.४२।।।।
Slōka 43 / श्लोक ४३
सगणं रावणं हत्वा राघवो रघुनन्दनः ।
त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ।। ५.३९.४३।।।।
Slōka 44 / श्लोक ४४
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।
नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ।। ५.३९.४४।।।।
Slōka 45 / श्लोक ४५
निहते राक्षसेन्द्रे ऽस्मिन् सपुत्रामात्यबान्धवे ।
त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ।। ५.३९.४५।।।।
Slōka 46 / श्लोक ४६
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।
रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् ।। ५.३९.४६।।।।
Slōka 47 / श्लोक ४७
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ।। ५.३९.४७।।।।
Slōka 48 / श्लोक ४८
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्* ।। ५.३९.४८।।।।
Slōka 49 / श्लोक ४९
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।
वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ।। ५.३९.४९।।।।
Slōka 50 / श्लोक ५०
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।
नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ।। ५.३९.५०।।।।
Slōka 51 / श्लोक ५१
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।
न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३९.५१।।।।
Slōka 52 / श्लोक ५२
मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् ।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ।। ५.३९.५२।।।।
Slōka 53 / श्लोक ५३
रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः ।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ।। ५.३९.५३।।।।
Slōka 54 / श्लोक ५४
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषिते ऽतिरौद्रे ।
न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ।। ५.३९.५४।।