Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 50 / सर्गः ५०

Slōka 1 / श्लोक १

दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् ।
सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ।। ७.५०.१ ॥

Slōka 2 / श्लोक २

अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ।
सीतासन्तापजं दुःखं पश्य रामस्य सारथे ।। ७.५०.२ ॥

Slōka 3 / श्लोक ३

ततो दुःखतरं किं नु राघवस्य भविष्यति ।
पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ।। ७.५०.३ ॥

Slōka 4 / श्लोक ४

व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् ।
वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ।। ७.५०.४ ॥

Slōka 5 / श्लोक ५

यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः ।
निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ।। ७.५०.५ ॥

Slōka 6 / श्लोक ६

पुरा रामः पितुर्वाक्याद्दण्डके विजने वने ।
उषित्वा नव वर्षाणि पञ्च चैव महावने ।। ७.५०.६ ॥

Slōka 7 / श्लोक ७

ततो दुःखतरं भूयः सीताया विप्रवासनम् ।
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ।। ७.५०.७ ॥

Slōka 8 / श्लोक ८

को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।
मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ।। ७.५०.८ ॥

Slōka 9 / श्लोक ९

एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः ।
सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ।। ७.५०.९ ॥

Slōka 10 / श्लोक १०

न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति ।
दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ।। ७.५०.१० ॥

Slōka 11 / श्लोक ११

भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् ।
प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ।। ७.५०.११ ॥

Slōka 12 / श्लोक १२

त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ ।
सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ।। ७.५०.१२ ॥

Slōka 13 / श्लोक १३

इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा ।
राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ।। ७.५०.१३ ॥

Slōka 14 / श्लोक १४

महाजनसमीपे च मम चैव नरर्षभ ।
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ।। ७.५०.१४ ॥

Slōka 15 / श्लोक १५

ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।
सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ।। ७.५०.१५ ॥

Slōka 16 / श्लोक १६

तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः ।
नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ।। ७.५०.१६ ॥

Slōka 17 / श्लोक १७

सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः ।
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ।। ७.५०.१७ ॥

Slōka 18 / श्लोक १८

यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।
तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ।। ७.५०.१८ ॥

Slōka 19 / श्लोक १९

येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ।
न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ।। ७.५०.१९ ॥

Slōka 20 / श्लोक २०

तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ।। ७.५०.२० ।।