अरण्यकाण्डम्
Chapter 32 / सर्गः ३२
Slōka 1 / श्लोक १
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ।
हतानि एकेन रामेण रक्षसाम् भीम कर्मणाम् ॥३-३२-१॥
Slōka 2 / श्लोक २
दूषणम् च खरम् चैव हतम् त्रिशिरसम् रणे ।
दृष्ट्वा पुनर् महानादम् ननाद जलद उपमा ॥३-३२-२॥
Slōka 3 / श्लोक ३
सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम् ।
जगाम परम उद्विग्ना लंकाम् रावण पालिताम् ॥३-३२-३॥
Slōka 4 / श्लोक ४
सा ददर्श विमान अग्रे रावणम् दीप्त तेजसम् ।
उपोपविष्टम् सचिवैः मरुद्भिः इव वासवम् ॥३-३२-४॥
Slōka 5 / श्लोक ५
आसीनम् सूर्य संकाशे कांचने परमासने ।
रुक्म वेदि गतम् प्राज्यम् ज्वलंतम् इव पावकम् ॥३-३२-५॥
Slōka 6 / श्लोक ६
देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् ।
अजेयम् समरे घोरम् व्यात्त आननम् इव अन्तकम् ॥३-३२-६॥
Slōka 7 / श्लोक ७
देव असुर विमर्देषु वज्र अशनि कृत व्रणम् ।
ऐरावत विषाण अग्रैः उत्कृष्ट किण वक्षसम् ॥३-३२-७॥
Slōka 8 / श्लोक ८
विंशत् भुजम् दश ग्रीवम् दर्शनीय परिच्छदम् ।
विशाल वक्षसम् वीरम् राज लक्ष्मण लक्षितम् ॥३-३२-८॥
Slōka 9 / श्लोक ९
नद्ध वैदूर्य संकाशम् तप्त कान्चन कुण्डलम् ।
सुभुजम् शुक्ल दशनम् महा आस्यम् पर्वतोपमम् ॥३-३२-९॥
Slōka 10 / श्लोक १०
विष्णु चक्र निपातैः च शतशो देव संयुगे ।
अन्यैः शस्त्रैः प्रहारैः च महायुद्धेषु ताडितम् ॥३-३२-१०॥
Slōka 11 / श्लोक ११
आहत अंगम् समस्तैः च देव प्रहरणैः तथा ।
अक्षोभ्याणाम् समुद्राणाम् क्षोभणम् क्षिप्र कारिणम् ॥३-३२-११॥
Slōka 12 / श्लोक १२
क्षेप्तारम् पर्वत अग्राणाम् सुराणाम् च प्रमर्दनम् ।
उच्छेत्तारम् च धर्माणाम् पर दार अभिमर्शनम् ॥३-३२-१२॥
Slōka 13 / श्लोक १३
सर्व दिव्य अस्त्र योक्तारम् यज्ञ विघ्न करम् सदा ।
पुरीम् भोगवतीम् गत्वा पराजित्य च वासुकिम् ॥३-३२-१३॥
Slōka 14 / श्लोक १४
तक्षकस्य प्रियाम् भार्याम् पराजित्य जहार यः ।
कैलासम् पर्वतम् गत्वा विजित्य नर वाहनम् ॥३-३२-१४॥
Slōka 15 / श्लोक १५
विमानम् पुष्पकम् तस्य कामगम् वै जहार यः ।
वनम् चैत्ररथम् दिव्यम् नलिनीम् नंदनम् वनम् ॥३-३२-१५॥
Slōka 16 / श्लोक १६
विनाशयति यः क्रोधात् देव उद्यानानि वीर्यवान् ।
चन्द्र सूर्यौ महा भागौ उत्तिष्ठन्तौ परंतपौ ॥३-३२-१६॥
Slōka 17 / श्लोक १७
निवारयति बाहुभ्याम् यः शैल शिखरोपमः ।
दश वर्ष सहस्राणि तपः तप्त्वा महावने ॥३-३२-१७॥
Slōka 18 / श्लोक १८
पुरा स्वयंभुवे धीरः शिरांसि उपजहार यः ।
देव दानव गधर्व पिशाच पतग उरगैः ॥३-३२-१८॥
Slōka 19 / श्लोक १९
अभयम् यस्य संग्रामे मृत्युतो मानुषाद् ऋते ।
मन्त्रैः अभितुष्टम् पुण्यम् अध्वरेषु द्विजातिभिः ॥३-३२-१९॥
Slōka 20 / श्लोक २०
हविर्धानेषु यः सोमम् उपहन्ति महाबलः ।
प्राप्त यज्ञ हरम् दुष्टम् ब्रह्म घ्नम् क्रूर कारिणम् ॥३-३२-२०॥
Slōka 21 / श्लोक २१
कर्कशम् निरनुक्रोशम् प्रजानाम् अहिते रतम् ।
रावणम् सर्व भूतानाम् सर्व लोक भयावहम् ॥३-३२-२१॥
Slōka 22 / श्लोक २२
राक्षसी भ्रातरम् क्रूरम् सा ददर्श महाबलम् ।
तम् दिव्य वस्त्र आभरणम् दिव्य माल्य उपशोभितम् ॥३-३२-२२॥
Slōka 23 / श्लोक २३
आसने सूपविष्टम् तम् काले कालम् इव उद्यतम् ।
राक्षसेन्द्रम् महाभागम् पौलस्त्य कुल नन्दनम् ॥३-३२-२३॥
Slōka 24 / श्लोक २४
उपगम्य अब्रवीत् वाक्यम् राक्षसी भय विह्वला ।
रावणम् शत्रु हन्तारम् मंत्रिभिः परिवारितम् ॥३-३२-२४॥
Slōka 25 / श्लोक २५
तम् अब्रवीत् दीप्त विशाल लोचनम्प्रदर्शयित्वा भय लोभ मोहिता ।
सुदारुणम् वाक्यम् अभीत चारिणीमहात्मना शूर्पणखा विरूपिता ॥३-३२-२५॥