Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 107 / सर्गः १०७

Slōka 1 / श्लोक १

विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ।
पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ।। ७.१०७.१ ॥

Slōka 2 / श्लोक २

अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् ।
अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ।। ७.१०७.२ ॥

Slōka 3 / श्लोक ३

प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः ।
अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ।। ७.१०७.३ ॥

Slōka 4 / श्लोक ४

तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् ।
मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ।। ७.१०७.४ ॥

Slōka 5 / श्लोक ५

भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् ।
राज्यं विगर्हयामास राघवं चेदमब्रवीत् ।। ७.१०७.५ ॥

Slōka 6 / श्लोक ६

सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि ।
न कामये यथा राज्यं त्वां विना रघुनन्दन ।। ७.१०७.६ ॥

Slōka 7 / श्लोक ७

इमौ कुशलवौ राजन्नभिषिञ्च नराधिप ।
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।। ७.१०७.७ ॥

Slōka 8 / श्लोक ८

शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः ।
इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ।। ७.१०७.८ ॥

Slōka 9 / श्लोक ९

तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् ।
पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ।। ७.१०७.९ ॥

Slōka 10 / श्लोक १०

वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ।
ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ।। ७.१०७.१० ॥

Slōka 11 / श्लोक ११

वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् ।
किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ।। ७.१०७.११ ॥

Slōka 12 / श्लोक १२

ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् ।
गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ।। ७.१०७.१२ ॥

Slōka 13 / श्लोक १३

पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः ।
सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ।। ७.१०७.१३ ॥

Slōka 14 / श्लोक १४

तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा ।
वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ।। ७.१०७.१४ ॥

Slōka 15 / श्लोक १५

एषा नः परमा प्रीतिरेष नः परमो वरः ।
हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ।। ७.१०७.१५ ॥

Slōka 16 / श्लोक १६

पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् ।
स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ।। ७.१०७.१६ ॥

Slōka 17 / श्लोक १७

कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।
अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ।। ७.१०७.१७ ॥

Slōka 18 / श्लोक १८

अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः ।
परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ।। ७.१०७.१८ ॥

Slōka 19 / श्लोक १९

रथानां तु सहस्राणि नागानामयुतानि च ।
दशायुतानि चाश्वानामेकैकस्य धनं ददौ ।। ७.१०७.१९ ॥

Slōka 20 / श्लोक २०

बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ।
स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ।। ७.१०७.२० ॥

Slōka 21 / श्लोक २१

अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा ।
दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ।। ७.१०७.२१ ।।